१२ ब्रह्मविष्णुविवादः

॥ श्रीगणेशाय नमः ॥

शौनक उवाच ।

सूत सूत महाप्राज्ञ परमानन्ददायक ।
कथाममृतरूपां च कथयस्व महाद्युते ॥ १ ॥

वयं प्रसन्नतां याताः कृतकृत्या यथा तथा ।
सुकथामृतपानेन स्वानन्देन परिप्लुताः ॥ २ ॥

कथयस्व कथां दिव्यां पञ्चदेवैश्च किं कृतम् ।
विस्तारेण यथान्यायं येन मुक्ता भवाम च ॥ ३ ॥

श्रुत्वा तेषां मुनीनां च वचनं भक्तिभावितम् ।
हृष्टः सूतः पुनः प्राह कथां पापप्रणाशिनीम् ॥ ४ ॥

सूत उवाच ।

एवमेव स दक्षेण पृष्टो योगीश्वरो महान् ।
मुद्गलस्तं यथोवाच तथा वच्मि महामुने ॥ ५ ॥

मुद्गल उवाच ।

शृणु दक्ष महाभाग पार्वत्या शिवसन्निधौ ।
यत्पृष्टं यछ्रुच्तं सर्वं कथयामि सविस्तरम् ॥ ६ ॥

[[३१]]

पार्वत्युवाच ।
भगवन् देवदेवेश तारिताऽहं त्वया प्रभो ।
सुकथामृतपानेन कृतकृत्याऽस्मि साम्प्रतम् ॥ ७ ॥

पञ्च देवाः समर्थाश्च प्राभवन् वरदानतः ।
किं चक्रुस्ते महात्मानः कथयस्व विधानतः ॥ ८ ॥

गणेशभक्तियुक्तं चेच्चरितं कथयस्व मे ।
अथवा गाणपत्यानां चरितं ब्रह्मदायकम् ॥ ९ ॥

व्यर्थसंलपनेनायुर्नाशः कार्यो न शोभनैः ।
धन्यास्ते साधवो लोका गणराड्भक्तिभाविताः ॥ १० ॥

मुद्गल उवाच ।

प्रियाया वचनं श्रुत्वाऽतिहृष्टः स महेश्वरः ।
उवाच स्मयमानश्चालिङ्ग्य देवीं महायशाः ॥ ११ ॥

शिव उवाच ।

धन्याऽसि पार्वति त्वं च सार्थकं जन्म ते परम् ।
भक्त्या धृतो गणेशोऽयं हृदि तेन वरानने ॥ १२ ॥

गणेशभक्तियुक्ता ये नरास्ते ब्रह्मरूपिणः ।
दर्शनान्मुक्तिदातारः सर्वेभ्यो नात्र संशयः ॥ १३ ॥

गणेशं यः परित्यज्य सिद्धिमिच्छति शाश्वतीम् ।
स मूढात्मा तु विज्ञेयो नारकी नात्र संशयः ॥ १४ ॥

अन्यदेवस्य ये भक्ता गणेशं नार्चयन्ति चेत् ।
तेषां न भविता सिद्धिर्नरकेषु पतन्ति ते ॥ १५ ॥

सुधां सन्त्यज्य रूक्षान्नं सेवते दुर्मतिर्यथा ।
गणेशानं तथा त्यक्त्वाऽन्यस्य देवस्य सेवकः ॥ १६ ॥

अस्माकं जनको माता सर्वेषां नात्र संशयः ।
ज्येष्ठराज इति ख्यातस्तेनादौ पूज्यकोऽभवत् ॥ १७ ॥

त्यक्त्वा गणेशं मूढात्मा देवादीनपि पूजयेत् ।
गणेशोल्लङ्घनात्तं वै क्षिपामो नरके वयम् ॥ १८ ॥

गणेशनिन्दको जन्तुरस्माकं भक्तिकारकः ।
नारकी भविता सद्योस्मद्गुरुद्वेषकारकः ॥ १९ ॥

अतस्त्वं धन्यरूपाऽसि सर्वेषां मूलबीजकम् ।
भजसि त्वं गणेशानं भक्तिभावसमन्विता ॥ २० ॥

सत्यं देवि त्वया प्रोक्तं गाणेशानां प्रकीर्तनम् ।
गणेशस्य च वा कार्ये तेन जन्म कृतार्थकम् ॥ २१ ॥

गणेशं प्रार्थयामीति शृणु चिन्तामणे प्रभो ।
चित्त निवासकारिन् वै गजानन महोदर ॥ २२ ॥

गाणपत्या महाभागास्तेषां सङ्गः सदास्तु मे ।
तेषां मध्ये तथा वासं देहि त्वं द्विरदानन ॥ २३ ॥

अग्रे मे गाणपत्यास्ते पृष्ठे वामे च दक्षिणे ।
सर्वत्र सह तैर्वासो गाणपत्यैर्भवत्विति ॥ २४ ॥

येषां मुखारविन्देषु गणेशचरितं बभौ ।
भवबन्धहरं पूर्णमिहाऽमुत्र सुखप्रदम् ॥ २५ ॥

चरितं गाणपत्यानां गणराट्सेवनात्मकम् ।
अहर्निशं प्रभवति चेष्टदं ढुण्ढिभक्तिदम् ॥ २६ ॥

तारितोऽहं त्वया देवि कथां पृच्छसि मां पुनः ।
गणेशभक्तिपूतां वा भक्तानां तस्य भावतः ॥ २७ ॥

प्रष्टुः श्रोतुश्च वक्तुर्या ब्रह्मभूयपदप्रदा ।
इह तां तु वदामि त्वां गाणेशीं सुखदायिनीम् ॥ २८ ॥

पञ्चदेवास्तथा जाता यथा गणपतिः स्वयम् ।
वरदः कथयामास ईश्वराज्ञानभाविताः ॥ २९ ॥

पञ्चलोकाः समुद्भता वरदानप्रभावतः ।
निराधारा अखण्डाश्चावसंस्तेषु विभागशः ॥ ३० ॥

कैलासे शङ्करश्चैव वैकुण्ठे विष्णुरेव च ।
सौरलोके रविः शक्तिलोके चैव जगन्मयि ॥ ३१ ॥

सत्यलोके तथा ब्रह्मा वसति स्म मुदान्वितः ।
ऐश्वर्यभोगभोक्तारः परस्परहिते रताः ॥ ३२ ॥

[[३२]]

सत्यसङ्कल्पवन्तस्त ईश्वरा ब्रह्ममानिनः ।
बहुकालेन तेषां वै मत्सरः समजायत ॥ ३३ ॥

अहं श्रेष्ठतमश्चैव सर्वेषां प्रभुरीश्वरः ।
हृदये मन्यमानास्ते विवादं चक्रुरञ्जसा ॥ ३४ ॥

आपश्च तत्र संसृष्टा विष्णुना स्वशरीरतः ।
तासु संसुप्तवान् देवो बहुकालं यथासुखम् ॥ ३५ ॥

जले शैवालवल्ली च समुत्पन्ना क्रमेण वै ।
बहुकालेन तन्मध्ये पृथ्वी जाता स्वभावतः ॥ ३६ ॥

लीलार्थे विष्णुना सृष्टं नाभ्यां कमलमुज्ज्वलम् ।
शतयोजनविस्तारं कर्णिकापत्रशोभितम् ॥ ३७ ॥

सुवासबहुलं वीक्ष्य तेन रेमे जनार्दनः ।
एककाले जगाम स्म तत्र ब्रह्मा पितामहः ॥ ३८ ॥

कमलं तेन सन्दृष्टं विस्मितो हृदये भृशम् ।
केन सृष्टमिदं दिव्यं पद्म परमशोभनम् ॥ ३९ ॥

तत्र नारायणं दृष्ट्वा प्रसुप्तं स महार्णव ।
प्रभुमुत्थापयामास ब्रह्मा तं स्नेहभावतः ॥ ४० ॥

ब्रह्मणो वचनेनैव समुत्तस्थौ जनार्दनः ।
ब्रह्माणं मानयामास स्वागतं भो पितामह ॥ ४१ ॥

तत्र ब्रह्मा महाविष्णुं प्रत्युवाच समत्सरः ।
किं मोहार्थं त्वया स्मृष्टं पद्मं परमशोभनम् ॥ ४२ ॥

अहं ब्रह्मा जगत्स्रष्टा सर्वादिः सर्वभावनः ।
मया प्रक्रियते सृष्टिः पश्चात्त्वं पालयिष्यसि ॥ ४३ ॥

सृजामि यदि नो तां चेत्किं पासि त्वं जनार्दन ।
मदधीनश्च सर्वेषां भावस्तेनाहमीश्वरः ॥ ४४ ॥

ब्रह्मणो वचनं श्रुत्वा विस्मितः स जनार्दनः ।
उवाच मधुरं वाक्यं ब्रह्माणं सान्त्वयन्निव ॥ ४५ ॥

विष्णुरुवाच ।
सृष्टवान् कमलं नाहं मोहितुं त्वां पितामह ।
लीलार्थं पद्ममेवेदं पश्य त्वं नात्र संशयः ॥ ४६ ॥

समत्सरमिदं वाक्यं त्वयोक्तं यत् पितामह ।
अहं त्वां पालयामीदं तेन स्रष्टा भवान् किल ॥ ४७ ॥

नान्यो पातास्ति मत्तस्ते सर्वेषां पातृभावतः ।
अहं स्थितो महाविष्णुर्मत्समो नैव विद्यते ॥ ४८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते ब्रह्मविष्णुविवादो नाम द्वादशोऽध्यायः ॥

[[३३]]