॥ श्रीगणेशाय नमः ॥
पार्वत्युवाच ।
भगवन् देवदेवेश कृपां कृत्वा वदस्व मे ।
वैराटेन कथं सृष्टं जगत्स्थावरजङ्गमम् ॥ १ ॥
अन्यच्च ब्रुहि मे नाथ ध्यानमार्गं पुरातनम् ।
येन साक्षात्करिष्यामि गणेशं नाऽत्र संशयः ॥ २ ॥
मुद्गल उवाच ।
इति पृष्टो महादेव्या महादेवः प्रहृष्टवान् ।
कथां परमपुण्यां च कथयामास तां शृणु ॥ ३ ॥
दक्ष उवाच ।
गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते ।
कथयस्व महाभाग शिवेन कथितं तु यत् ॥ ४ ॥
मुद्गल उवाच ।
धन्योऽसि दक्ष लोकेषु येन सादरता च ते ।
गणेशेऽमृतधारायां कथायां नाऽत्र संशयः ॥ ५ ॥
प्रहृष्टां गिरिजां दृष्ट्वा शिवो वचनमब्रवीत् ।
धन्या धन्या महाभागे शृणु सादरमादितः ॥ ६ ॥
शिव उवाच ।
गणेशं मनसा ध्यात्वा वैराटः स्रष्टुमारभत् ।
तस्य नाभेः समुत्पन्नो ब्रह्मा लोकपितामहः ॥ ७ ॥
मुखाद्विष्णुर्जगत्पाता नेत्राच्चाऽहं हरोऽभवम् ।
सृष्टिस्थितिलयाधारास्त्रिरूपगुणधारकाः ॥ ८ ॥
वामाङ्गाच्छक्तिरुत्पन्ना त्वं वै पार्वति मोहिनी ।
दक्षिणाङ्गाद्रविः साक्षात्कर्माधारः समाभवत् ॥ ९ ॥
पञ्च देवाः समुत्पन्ना भिन्ना जाताः स्वभावतः ।
न विदुः किञ्चिदात्मानं वैराटं चापि शोभने ॥ १० ॥
अन्धे तमसि सर्वत्र बभ्रमुर्बहुकालतः ।
न किञ्चित्प्रापुरायासात् स्थिताः परमदुःखिताः ॥ ११ ॥
किं कर्तव्यं क्व गन्तव्यमज्ञानेनावृता भृशम् ।
कस्माद्वयं समुत्पन्ना न जानीमो महाप्रभुम् ॥ १२ ॥
अथ चिन्तयतां तेषां बुद्धिर्जाता सुनिश्चिता ।
तपः कर्तुं समारब्धं यस्मै कस्मै नमोस्त्विति ॥ १३ ॥
सर्वेषां मूलभूतं यद्यादृशं तादृशं खलु ।
स्वधीस्थं तत्समाचिन्त्य तपस्तप्तं सुदारुणम् ॥ १४ ॥
[[२८]]
तपसा गणनाथस्तु प्रसन्नोऽन्तरमाश्रितः ।
तत्र दृष्टिः समुत्पन्ना तेषां वै भावितात्मनाम् ॥ १५ ॥
हृदये बीजरूपं यत्स्फुरत्तद् दृष्टमद्भुतम् ।
एकाक्षरं महामन्त्रं प्राप्य तं हर्षमाययुः ॥ १६ ॥
तं मन्त्रं जपमानैस्तैस्तदारभ्य जगन्मयि ।
तेन मन्त्रप्रभावेण ज्ञानं प्राप्तं सुनिर्मलम् ॥ १७ ॥
दिव्यवर्षसहस्रेण प्रत्यक्षः समजायत ।
गणेशो भक्तिभावेन पुरस्तेषां समुत्थितः ॥ १८ ॥
अनन्तकोटिसूर्यौजाः शुण्डादण्डविराजितः ।
चतुर्बाहुधरो लम्बोदरः साक्षात् विभूषितः ॥ १९ ॥
भूषणैरायुधैश्चैव सिद्धिबुद्धिसमन्वितः ।
भक्तानन्दकरः श्रीमानाखुवाहो महाद्युतिः ॥ २० ॥
तं दृष्ट्वा भयभीतास्ते देवाः शम्भुपुरोगमाः ।
किमिदं तेज आयाति प्रलयाग्निसमं महत् ॥ २१ ॥
अस्मान् धक्ष्यति किं देवः विघ्नेश करुणानिधे ।
तव भक्ता वयं स्वामिन् कथं विघ्नेन भाविताः ॥ २२ ॥
इति तेषां वचः श्रुत्वा त्वभवत्सौम्यरूपवान् ।
तं दृष्ट्वा हर्षिताः सर्वे प्रणेमुर्भावपूर्वकम् ॥ २३ ॥
गणेशदर्शनेनैव स्फूर्तिः प्राप्ता महाद्भुता ।
तया सर्वे यथातथ्यं ज्ञातं तैः पञ्चभिः पुरः ॥ २४ ॥
ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ।
हृष्टरोमाण एवं ते स्रवदश्रुजलाविलाः ॥ २५ ॥
पञ्चदेवा ऊचुः ।
नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।
विघ्नकर्त्रे ह्यभक्तानां गणेशाय नमो नमः ॥ २६ ॥
हेरम्बाय नमस्तुभ्यं दुढिराजाय ते नमः ।
विनायकाय देवाय ब्रह्मणां नायकाय च ॥ २७ ॥
लम्बोदराय सिद्धेश गजाननधराय च ।
शूर्पकर्णाय गूढाय चतुर्हस्त नमोऽस्तु ते ॥ २८ ॥
लम्बोष्ठायैकदन्ताय सर्वेशाय गणाधिप ।
अनन्तमहिमाधार धरणीधर ते नमः ॥ २९ ॥
नमो मायामयायैव मायाहीनाय ते नमः ।
मोहदाय नमस्तुभ्यं मोहहन्त्रे नमो नमः ॥ ३० ॥
पञ्चभूतमयायैव पञ्चभूतधराय च ।
इन्द्रियाणां चाधिपायेन्द्रियज्ञानप्रकारिणे ॥ ३१ ॥
अध्यात्मनेऽधिभूतायाधिदैवाय च ते नमः ।
अन्नायान्नपते तुभ्यमन्नान्नाय नमो नमः ॥ ३२ ॥
प्राणाय प्राणनाथाय प्राणानां प्राणरूपिणे ।
चित्ताय चित्तहीनाय चित्तेभ्यश्चित्तदायिने ॥ ३२ ॥
विज्ञानाय च विज्ञानपतये द्वन्द्वधारिणे ।
विज्ञानेभ्यः स्वविज्ञानदायिने ते नमो नमः ॥ ३४ ॥
आनन्दाय नमस्तुभ्यमानन्दपतये नमः ।
आनन्दानन्ददात्रे च कारणाय नमो नमः ॥ ३५ ॥
चैतन्याय च यत्नाय चेतनाधारिणे नमः ।
चैतन्येभ्यः स्वचैतन्यदायिने नादरूपिणे ॥ ३६ ॥
बिन्दुमात्राय बिन्दूनां पतये प्राकृताय च ।
भेदाभेदमयायैव ज्योतीरूपाय ते नमः ॥ ३७ ॥
सोऽहम्मात्राय शून्याय शून्याधाराय देहिने ।
शून्यानां शून्यरूपाय पुरुषाय नमो नमः ॥ ३८ ॥
ज्ञानाय बोधनाथाय बोधानां बोधकारिणे ।
मनोवाणीविहीनाय सर्वात्मक नमो नमः ॥ ३९ ॥
विदेहाय नमस्तुभ्यं विदेहाधारकाय च ।
विदेहानां विदेहाय साङ्ख्यरूपाय ते नमः ॥ ४० ॥
[[२९]]
नानाभेदधरायैव चैकानेकादिमूर्तये ।
असत्स्वानन्दरूपाय शक्तिरूपाय ते नमः ॥ ४१ ॥
अमृताय सदाखण्डभेदाभेदविवर्जित ।
सदात्मरूपिणे सूर्यरूपाधाराय ते नमः ॥ ४२ ॥
सत्यासत्यविहीनाय समस्वानन्दमूर्तये ।
आनन्दानन्दकन्दाय विष्णवे ते नमो नमः ॥ ४३ ॥
अव्यक्ताय परेशाय नेतिनेतिमयाय च ।
शिवाय शाश्वतायैव मोहहीनाय ते नमः ॥ ४४ ॥
संयोगेन च सर्वत्र समाधौ रूपधारिणे ।
स्वानन्दाय नमस्तुभ्यं मौनभावप्रदायिने ॥ ४५ ॥
अयोगाय नमस्तुभ्यं निरालम्बस्वरूपिणे ।
मायाहीनाय देवाय नमस्ते ह्यसमाधये ॥ ४६ ॥
शान्तिदाय नमस्तुभ्यं पूर्णशान्तिप्रदाय ते ।
योगानां पतये चैव योगरूपाय ते नमः ॥ ४७ ॥
गणेशाय परेशाय ह्यपारगुणकीर्तये ।
योगशान्तिप्रदात्रे च महायोगाय ते नमः ॥ ४८ ॥
गुणान्तं न ययुर्यस्य वेदाद्या वेदकारकाः ।
स कस्य स्तवनीयः स्याद्यथामति तथा स्तुतः ॥ ४९ ॥
तेन वै भगवान् साक्षाच्चिन्तामणिगजाननः ।
प्रसन्नो भवतु त्राताऽस्माकं त्वं परमा गतिः ॥ ५० ॥
इत्येवमुक्त्वा देवेशास्तूष्णीं भूतास्तथा शिवे ।
गणेशोऽपि प्रसन्नात्मा हृष्टः सन् प्रत्युवाच तान् ॥ ५१ ॥
श्रीगणेश उवाच ।
पञ्चदेवा महाभागाः प्रसन्नो भवतां स्तवैः ।
तपसा च तथा भक्त्या वाञ्छितं ब्रूत वै वरम् ॥ ५२ ॥
भवत्कृतमिदं स्तोत्रं परमाल्हादवर्धनम् ।
मम प्रीतिकरं भक्त्या सर्वदं प्रभविष्यति ॥ ५३ ॥
यः पठेद्भावपूर्वं स धर्मकामार्थमोक्षभाक् ।
पुत्रपौत्रयुतः श्रीमानन्ते स्वानन्दमाप्नुयात् ॥ ५४ ॥
सप्तवारं पठेन्नित्यमेकविंशतिवासरम् ।
कारागृहगतो वाऽपि मुच्यते बन्धनात् स्वयम् ॥ ५५ ॥
एककालं द्विकालं वा त्रिकालमपि यः पठेत् ।
स वै देवादिकैर्वन्द्यो भविष्यति न संशयः ॥ ५६ ॥
मारणोच्चाटनादिभ्य एकविंशतिवारतः ।
तावद्दिनानि पाठेन तस्य नैव भयं भवेत् ॥ ५७ ॥
धनधान्यादिकं सर्वम्मारोग्यं पशुवर्धनम् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ ५८ ॥
शिव उवाच ।
गणेशवचनं श्रुत्वा हृष्टा विष्ण्वादयः सुराः ।
प्रणिपत्य गणाधीशं कृताञ्जलिपुटा जगुः ॥ ५९ ॥
पञ्चदेवा ऊचुः ।
सनाथा हि वयं जाताः सर्वे त्वय्यागते प्रभो ।
वरं देहि गणाधीश तव भक्तिं दृढां तथा ॥ ६० ॥
तेन माया न बाधेत नरान् देवानपि प्रभो ।
किमस्माभिः प्रकर्तव्यं तदाज्ञापय सर्वदा ॥ ६१ ॥
सामर्थ्यं विविधं देहि भजतां कामपूरणम् ।
स्थानं सदानन्दनाम देहि नाथ नमोऽस्तु ते ॥ ६२ ॥
गणेश उवाच ।
चतुर्मुख महाबाहो रजोगुणसमुद्भव ।
सृष्टिकर्ता भव त्वं वै ब्रह्मा नाम्ना महाद्युते ॥ ६३ ॥
सत्यलोकनिवासी तु हंसवाहनवान् भव ।
वेदादिज्ञानयुक्तश्च सर्वेषां त्वं पितामहः ॥ ६४ ॥
चतुर्भुजोऽसि देवेश त्वं वै सत्त्वसमुद्भवः ।
पालकः सर्वलोकानां विष्णुनामा भविष्यसि ॥ ६५ ॥
वैकुण्ठे वसतिस्ते स्यात् वाहनं गरुडस्तव ।
खं १ अध्याय ११ Page नानावतारवांश्चापि भविष्यसि महाबलः ॥ ६६ ॥
पञ्चवक्त्र महातेजस्तमोगुणसमुद्भव ।
संहारकारको नित्यं हरनामा भविष्यसि ॥ ६७ ॥
कैलासे वसतिस्तेऽस्तु वाहनं वृषभस्तथा ।
तृतीयेन स्वनेत्रेण सर्वं भस्मीकरिष्यसि ॥ ६८ ॥
सहस्रकिरण त्वं वै सूर्यनामा भविष्यसि ।
कर्मणां चालकत्वात् षडृतुधर्मप्रकाशकः ॥ ६९ ॥
त्रिगुणानामहम्भावात्त्वं जातोऽसि प्रकाशकः ।
रथोश्वालङ्कृतश्चापि वाहनं ते भविष्यति ॥ ७० ॥
सौरलोके निवासश्च ग्रहराजो भविष्यसि ।
वृष्टिमूलं त्वमेऽवासि तेजोराशिः प्रतापवान् ॥ ७१ ॥
चतुर्भुजे महाशक्ते त्वं जाताऽसि त्रिदेहतः ।
नानाविषयभोगार्थं सदेहा मोहकारिणी ॥ ७२ ॥
शक्तिनाम्नी महामाया भविष्यसि न संशयः ।
द्विधा मोहप्रदात्री त्वं भुक्तिमुक्तिभ्रमात्मिका ॥ ७३ ॥
सिंहवाहनगा नित्यं शक्तिलोकनिवासिनी ।
नानाभोगविमोहेन जगत्त्वं मोहयिष्यसि ॥ ७४ ॥
महाकार्ये समुत्पन्ने प्रत्यक्षोऽहं भवामि वै ।
मत्तुल्याः सर्वभावेन कृता देवा न संशयः ॥ ७५ ॥
आयुधं भूषणं श्रेष्ठं नानासामर्थ्यमद्भुतम् ।
सङ्कल्पसिद्धतां चैव ददौ तेभ्यो गणाधिपः ॥ ७६ ॥
शिव उवाच ।
इति दत्त्वा वरान् देवो गणेशोऽन्तर्दधे स्वयम् ।
तेऽपि हृष्टा निजात्मानं कृतकृत्यं च मेनिरे ॥ ७७ ॥
भजतां भक्तिभावेन कामपूराः कृता वयम् ।
परमेश्वरतां प्राप्ताः प्रसादाद्गणपस्य च ॥ ७८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते पञ्चदेववरप्रदानं नामैकादशोऽध्यायः ॥