॥ श्रीगणेशाय नमः ॥
पार्वत्युवाच ।
श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम् ।
कीदृशोऽयं महाभाग तन्मे कथय शङ्कर ॥ १ ॥
शिव उवाच ।
पञ्चकोटिप्रविस्तारे योजनानां समन्ततः ।
तस्य देहे च भूतानि स्थावराणि चराणि च ॥ २ ॥
संस्थितानि च सर्वाणि भुवनानि चतुर्दश ।
तत्तेऽहं सम्प्रवक्ष्यामि समाहितमनाः शृणु ॥ ३ ॥
पादयोस्तस्य पातालं गुल्फे तस्य रसातलम् ।
पार्ष्ण्योर्महातलं तस्य जङ्घयोश्च तलातलम् ॥ ४ ॥
सुतलं जानुभागेऽस्य वितलं तूरुमण्डले ।
अतलं कटिसन्धौ च कट्यां भूलोकसंस्थितिः ॥ ५ ॥
नाभौ तस्य भुवर्लोकः स्वर्लोकश्च हृदि स्थितः ।
महर्लोकश्व कण्ठे वै जनो लोको मुखे स्थितः ॥ ६ ॥
तपो लोको ललाटे च सत्यलोकः शिरःस्थितः ।
एतावद्देहरूपो वै विराट् स पुरुषो महान् ॥ ७ ॥
सहस्रशीर्षशोभाढ्यः सहस्राननपादवान् ।
सहस्रहस्तकर्णः स सहस्रोदरवान् प्रभुः ॥ ८ ॥
सर्वत्र व्याप्यभावेन स्थितोऽसौ परमेश्वरः ।
मर्त्येष्वमृतभोक्ता च स्वप्रकाशेन वर्तते ॥ ९ ॥
तस्यान्तरे स्थितं रूपं नाम्ना हैरण्यगर्भकम् ।
एतादृशं तथा स्वप्नं विश्वरूपं विराजति ॥ १० ॥
बहिर्वैश्वानरश्चायं जाग्रद्वैराटसञ्ज्ञितः ।
हिरण्यगर्भकोशस्थः स्वप्नवैराटधारकः ॥ ११ ॥
उभयोः समभावेन बाह्यान्तरसरूपतः ।
ईश्वरो नाम वैराटः सुषुप्तेर्धारको बभौ ॥ १२ ॥
त्रिविधं यद्विराड् रूपं कथितं ते तु पार्वति ।
तुरीयमात्मरूपं यत् त्रिविधेषु प्रवर्तते ॥ १३ ॥
[[२६]]
अथ शृणु विभिन्नानामुत्पत्तिं त्वल्पभावनाम् ।
नानाभावधरां तां वै चराचरमयीं पराम् ॥ १४ ॥
विराडज्ञानभावेनावृतस्तेन तपः कृतम् ।
एकाक्षरविधानेन गणेशं सन्दधौ हृदि ॥ १५ ॥
सोऽतपत्तप उग्रं च दिव्यवर्षसहस्रकम् ।
तपसा ध्यानभावेन प्रत्यक्षो गणपोऽभवत् ॥ १६ ॥
बोधयामास तं देवो वरं ब्रूहीति सोऽब्रवीत् ।
गणेशं सहसा दृष्ट्वा पादयोः प्रणनाम तम् ॥ १७ ॥
धन्यं जन्म तपो मेऽद्य धन्यं ज्ञानं वपुश्च दृक् ।
धन्या मे सम्पदो देव त्वदङ्घ्रियुगदर्शनात् ॥ १८ ॥
इत्युक्त्वा स्तोतुमारेभे गणेशं ब्रह्मनायकम् ।
वाचा संस्पष्टया हृष्टो भगवान् विश्वधारकः ॥ १९ ॥
विराडुवाच ।
नमस्ते गणनाथाय गणानां पतये नमः ।
विघ्नेशाय परेशाय विघ्नहर्त्रे नमो नमः ॥ २० ॥
सिद्धिबुद्धिपते तुभ्यं नानासिद्धिप्रदायिने ।
नानाज्ञानप्रदात्रे च ब्रह्मणे ब्रह्मरूपिणे ॥ २१ ॥
मनोवागतिभूताय योगिनां हृदि वासिने ।
नानावतारकर्त्रे च भक्तसंरक्षकाय ते ॥ २२ ॥
नमो नमो महेशाय शिवाय शिवदायिने ।
सर्वत्र समभावाय विष्णवे प्रभविष्णवे ॥ २३ ॥
तेजोराशिपते तुभ्यं भानवे ते नमो नमः ।
नानामायाप्रभेदात्मशक्तये शक्तिरूपिणे ॥ २४ ॥
स्रष्ट्रे पात्रे च संहर्त्रे चराचरमयाय च ।
सर्वेभ्यो ज्ञानदात्रे च निर्मलाय नमो नमः ॥ २५ ॥
सर्वेभ्यो भिन्नरूपाय मायाहीनाय ते नमः ।
मायिभ्यो मोहदात्रे च मायाधाराय ते नमः ॥ २६ ॥
गुणान्तं न ययुर्यस्य नानाब्रह्माणि ते नमः ।
अतो मयि गणेशान कृपयाऽनुग्रहं कुरु ॥ २७ ॥
इति स्तुत्वा गणेशानं मौनवानभवत्स्वयम् ।
वैराटः पुरुषस्तत्र कृताञ्जलिपुटः स्थितः ॥ २८ ॥
भगवांस्तं गणेशान ऊचिवान् भक्तिभावितः ।
वरं वरय दास्यामि शङ्कां मा कुरु विश्वप ॥ २९ ॥
इदं त्वया कृतं स्तोत्रं मम प्रीतिकरं भवेत् ।
यः पठेद्भावपूर्वं तु सिद्धिस्तस्य भविष्यति ॥ ३० ॥
यं यं चिन्तयते कामं तं तं दास्यामि वाञ्छितम् ।
भुक्तिमुक्तिप्रदं भावि पठनाच्छ्रवणादपि ॥ ३१ ॥
इत्युक्तवन्तं गणनाथमाद्यं वैराटदेवः प्रणनाम तं वै ।
भावेन युक्तो वचनं जगाद हृष्टः स्वयं विघ्नहरं प्रभुं च ॥ ३२ ॥
वैराट उवाच ।
यदि तुष्टोऽसि देवेश यदि देयो वरो महान् ।
तव भक्तिं दृढां देहि यया मोहो विनश्यति ॥ ३३ ॥
अतुलं सर्जनं सृष्टेः पालनं हरणं तथा ।
करोमि त्वत्प्रसादेन भक्तेभ्यो भुक्तिमुक्तिद ॥ ३४ ॥
ऐश्वर्यमतुलं देहि गजानन महाप्रभो ।
यं यमिच्छामि तत्सर्वं सिध्यतु त्वत्प्रसादतः ॥ ३५ ॥
शिव उवाच ।
तथेति वचनं चोक्त्वा गणेशोन्तरधीयत ।
विराट् हर्षेण संयुक्तो गणेशं हृद्यभावयत् ॥ ३६ ॥
एवं देवि च सर्वत्र नानाण्डेषु स्थितैः परैः ।
वैराटैस्तैः कृतं पूर्णं गणेशतप उत्तमम् ॥ ३७ ॥
तेन सर्वे महात्मानः स्वस्वकर्मणि संस्थिताः ।
निर्विघ्ना वरदानेन भगवन्तः सनातनाः ॥ ३८ ॥
अनन्तानि प्रजानीहि ब्रह्माण्डानि न शक्यते ।
वक्तुं केनापि हेरम्बं विना तानि यथायथम् ॥ ३९ ॥
सततं गणनाथोऽपि न सङ्ख्यातुं प्रवर्तते ।
गणना शब्दशास्त्रेषु यावती ह्यधिकं ततः ॥ ४० ॥
अतः केनापि सङ्ख्यानं न कृतं वेदवादिना ।
अनन्तानि महाण्डानि ज्ञातव्यानि जगन्मयि ॥ ४१ ॥
एवं प्रभावयुक्तोऽसौ हृदये मे प्रवर्तते ।
गणेशो ध्यानलोभी च भक्तेशो भक्तवत्सलः ॥ ४२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते नानाब्रह्माण्डवर्णनं नाम दशमोऽध्यायः ॥