॥ श्रीगणेशाय नमः ।
श्रीशिव उवाच ।
वरदानप्रभावेण गुणेशो ज्ञानवानभूत् ।
समर्थो भगवान् साक्षात् स्रष्टुं तत्र मनो दधे ॥ १ ॥
तस्य निःश्वासतो वेदा निःमृता रूपधारिणः ।
सर्वज्ञानकराः साक्षाद्भास्वन्तो गुरवः सताम् ॥ २ ॥
पश्चात्तेन गुणेशेन समभूतात्मकं जगत् ।
सृष्टं सुषुप्तिसञ्ज्ञं च महत्तत्त्वादिभिः समैः ॥ ३ ॥
आनन्दव्यवहारत्वात् प्रधानमिति कथ्यते ।
कारण द्वन्द्वभावानां तेन कारणकं स्मृतम् ॥ ४ ॥
माया तमःकरी यस्मात्तेन तामसतां गतम् ।
समानव्यवहारं च प्रधानं मोहदं बभौ ॥ ५ ॥
स्वस्यापि जडभावश्च तेन न ज्ञायते सदा ।
किं कर्तव्यमकर्तव्यमिति तेन ततो महत् ॥ ६ ॥
तपः कृतं महोग्रं च दिव्यं वर्षसहस्रकम् ।
तेन प्रत्यक्षतां यातो गणेशो भक्तवत्सलः ॥ ७ ॥
स्तुतः प्रपूजितस्तेन कारणेन महायशाः ।
सामर्थ्यं योगरूपं च ददौ परमभावितः ॥ ८ ॥
वेदैश्चापि कृतं घोरं तपः परमदारुणम् ।
तेषां प्रत्यक्षतां यातो विघ्नेशो विघ्नवारणः ॥ ९ ॥
वेदैश्च संस्तुतो देवः स्तोत्रैः स्वस्वसमुद्भवैः ।
ब्राह्मणस्पत्यसूक्तेन बह्वृचः स्तुतवान् प्रभुम् ॥ १० ॥
गणेशशान्तिकेनैव यजुस्तं स्तुतवत्तथा ।
नामाष्टकार्थकृत्स्तोत्रं तेन साम्ना च संस्तुतः ॥ ११ ॥
अथर्वशीर्षकं नाम तेनैवाथर्वणास्तुतः ।
इत्यादि गाणपत्यश्च स्तोत्रैर्नानाविधैः स्तुतः ॥ १२ ॥
पूजितो मूलमन्त्रेण सन्तुष्टस्तेन विघ्नहा ।
सर्वेषां गुरुरूपा वै भविष्यथ वरं ददौ ॥ १३ ॥
सर्वमान्या जगत्पूज्या वेदास्तेन कृतास्तदा ।
साङ्गोपाङ्गसमाचारा गुरवस्ते मताः खलु ॥ १४ ॥
पार्वत्युवाच ।
तमोगुणमयं स्वामिन् प्रधानं समरूपकम् ।
वरं प्राप्य गणेशात्तु किं कृतं तेन तद्वद ॥ १५ ॥
[[९]]
मुद्गल उवाच ।
प्रियोक्तं वचनं श्रुत्वा हृष्टरोमा महेश्वरः ।
तां प्रत्युवाच भगवान् स्मयन्निव सुशान्तधीः ॥ १६ ॥
श्रीशिव उवाच ।
शृणु प्रिये प्रवक्ष्यामि गणेशप्रीतिवर्धने ।
विभूतिं तस्य देवस्य त्वं वै भाग्यवती शिवे ॥ १७ ॥
गणेशवरदानेन सृष्टं तेनापि सूक्ष्मकम् ।
हिरण्यगर्भमान्तर्यं सात्त्विकं स्वप्नरूपकम् ॥ १८ ॥
महदादिमहातत्त्वैः सूक्ष्मभूतैश्च संवृतम् ।
द्वन्द्वविज्ञानमूलं तदन्तरिक्षस्थितं बभौ ॥ १९ ॥
बोधहीनेन तेनैव तपस्तप्तं सुदुष्करम् ।
तेन तुष्टो गणेशानो वाञ्छितं प्रददौ वरम् ॥ २० ॥
वरदानप्रभावेण नानासामर्थ्यवानभूत् ।
हिरण्यगर्भो भगवान् स्वप्नमायाधरः प्रभुः ॥ २१ ॥
तेन स्थूलस्वरूपं यत्सृष्टं राजससञ्ज्ञकम् ।
जाग्रद्भोगकरं पूर्णं तत्त्वैश्च स्थूलरूपिभिः ॥ २२ ॥
ज्ञानहीनेन तेनाथ तपस्तप्तं सुदारुणम् ।
तपसा चैव सन्तुष्टो गणेशः करुणानिधिः ॥ २३ ॥
प्रत्यक्षतां ययौ तस्य जाग्रदन्नमयस्य च ।
तेनापि पूजितो देवः स्तुतस्तस्मै वरं ददौ ॥ २४ ॥
वरदानप्रभावेण नानासामर्थ्यवानभूत् ।
ईश्वरोन्नमयश्चासावेकोनेकमकल्पयत् ॥ २५ ॥
जाग्रत्स्वप्नसुषुप्त्याख्यत्र्यवस्थाप्रचुराणि च ।
भिन्नभिन्नानि जातानि कोटिशः कोटिशः खलु ॥ २६ ॥
गुणेशरोमकूपेभ्यो निःसृतानि महन्ति च ।
अण्डानि भिन्नभिन्नानि सर्वतः संस्थितानि वै ॥ २७ ॥
व्याप्यरूपाणि चाण्डानि व्यापकश्च गुणेश्वरः ।
तयोरभेदभावे सा प्रकृतिर्ब्रह्मबिन्दुकम् ॥ २८ ॥
जाग्रता सृष्टमाकाशं ब्रह्म सर्वप्रकाशम् ।
शब्दमात्रमयं भूतमादिरूपं सनातनम् ॥ २९ ॥
आकाशेन च संसृष्टो वायुः स्पर्शगुणात्मवान् ।
वायुना रूपतन्मात्रं तेजः सृष्टं प्रकाशवत् ॥ ३० ॥
तेजसा रससंयुक्ता आपः सृष्टाः प्रसारिणा ।
अद्भिर्गन्धगुणा पृथ्वी सृष्टा धारणधर्मिका ॥ ३१ ॥
तत्रैकैकप्रवेशेन पञ्चीकरणभागतः ।
पृथ्वी पञ्चगुणा जाता चतुर्भूतप्रवेशनात् ॥ ३२ ॥
आपश्चतुर्गुणा जातास्त्रयाणां सम्प्रवेशनात् ।
तेजस्त्रिगुणतां प्राप्तं भूतयोश्च प्रवेशनात् ॥ ३३ ॥
वायुर्द्विगुणवान् जात आकाशस्य प्रवेशनात् ।
आकाशमेकगुणभृद्भूतानां ब्रह्मसञ्ज्ञितम् ॥ ३४ ॥
पञ्च भूतानि जातानि व्यवस्थासंयुतानि च ।
अष्टधा प्रकृतिः प्रोक्ता कोशरूपा सुशोभना ॥ ३५ ॥
तत्र कोशीस्वरूपेण गुणेशो बिम्बितो यतः ।
तेन सामर्थ्यमाप्राप्ता प्रकृतिश्चाष्टरूपिणी ॥ ३६ ॥
अष्टावरणसंयुक्तमण्डं सृष्टं स्वभावतः ।
तत्रैव पुरुषो जज्ञे विराट् स भगवान् शिवे ॥ ३७ ॥
पञ्चाशत्कोटिविस्तारः पृथ्व्याः प्रोक्तो मया च ते ।
आपो दशाधिकास्तस्यास्तेजस्ताभ्यो दशाधिकम् ॥ ३८ ॥
तस्माद्दशाधिको वायुस्तस्मात्स्वं वै दशाधिकम् ।
तस्माद्दशाधिकं जाग्रदभिमानं प्रकथ्यते ॥ ३९ ॥
तस्माद्दशाधिकं स्वाप्नं महत्तत्वमिति स्मृतम् ।
द्वितीयं नाम तस्यापि कथ्यते मुनिभिः सदा ॥ ४० ॥
[[१०]]
तस्माद्दशगुणा माया ज्ञेया सौषुप्तिकाऽधिका ।
गुणेशः पुरुषो ज्ञेयोऽनन्तोऽपारश्चतुर्थकः ॥ ४१ ॥
विराडावरणं कृत्वा स्थिता पृथ्वी सनातना ।
अद्भिः समावृता पृथ्वी तेजसापः समावृताः ॥ ४२ ॥
वायुना चावृतं तेजः खेन वायुः समावृतः ।
अहङ्कारेण संवृत्तमाकाशं देवि सर्वतः ॥ ४३ ॥
अहङ्कारश्च महता संवृतो राजसः स्वयम् ।
मायया च महत्तत्त्वं संवृतं स्वप्नसञ्ज्ञितम् ॥ ४४ ॥
मायावरणमान्त्यं च ज्ञातव्यं विबुधैः परम् ।
अष्टावरणसंयुक्तमण्डं ते कथितं मया ॥ ४५ ॥
अण्डान्येतादृशान्येवासङ्ख्यातानि प्रिये बभुः ।
तिर्यगूर्ध्वमधस्तद्वद् गुणेशेन धृतानि च ॥ ४६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते अष्टधा प्रकृतिवर्णनं नाम नवमोऽध्यायः ॥