॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
शृणु देवि गणेशस्य चरितं पापनाशनम् ।
भुक्तिमुक्तिप्रदं चैव स्मरणेन सुसिद्धिदम् ॥ १ ॥
गजाननः प्रसन्नात्मा परमात्मा परात्परः ।
भक्तानन्दकरः साक्षादूचिवान् भक्तिभावितः ॥ २ ॥
श्रीगजानन उवाच ।
भो भोस्तत्त्वानि सर्वाणि वरं ब्रूत हृदीप्सितम् ।
तपसाऽहं प्रसन्तुष्टो भक्त्या स्तोत्रेण भावतः ॥ ३ ॥
भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम ।
सर्वसिद्धिप्रदं चैव पठते शृण्वते भवेत् ॥ ४ ॥
विद्याकामो लभेद्विदयां धनकामो धनं लभेत् ।
स्त्रीकामः स्त्रियमाप्नोति पुत्रकामः सुपुत्रकान् ॥ ५ ॥
मुक्तिकामो लभेन्मुक्तिं जयकामो जयं लभेत् ।
अस्य स्तोत्रस्य पठनात् वाञ्छितं लभते परम् ॥ ६ ॥
श्रीशिव उवाच ।
गणेशवचनं श्रुत्वा भक्तिनम्रात्मकन्धराः ।
ऋषयस्तं प्रणम्यादावूचुस्ते हृष्टमानसाः ॥ ७ ॥
आदिऋषय ऊचुः ।
प्रसन्नो भगवन्नद्य यदि देयो वरो महान् ।
त्वदीयामचलां भक्तिं देहि नो गणनायक ॥ ८ ॥
सृष्टिसामर्थ्यमत्यन्तमस्माकं त्वत्प्रसादतः ।
अस्तु वै भजतां सर्वसिद्धिदाश्च वयं तथा ॥ ९ ॥
यद्यत् हृदीप्सितं देव तत्तत् सिध्यतु सर्वदा ।
बन्धहीनत्वमनिशं देहि त्वं विघ्ननाशन ॥ १० ॥
तत्त्वानां वचनं सर्वे श्रुत्वा गणपतिः स्वयम् ।
ददौ तेषामभीष्टं स महादेवि महप्रदः ॥ ११ ॥
श्रीगजानन उवाच ।
दत्ता वरा मया देवा ये भवद्भिर्वृताः पराः ।
इत्युक्त्वान्तर्दधे ढुण्ढिः ऋषीणां पश्यतां खलु ॥ १२ ॥
स्वानन्दे च गते देवे गणेशे परमात्मनि ।
खिन्ना इवाऽभवन् देवाः परस्परमुखेक्षणाः ॥ १३ ॥
गणेशवरदानेन ज्ञानं प्राप्य महाद्भुतम् ।
बुद्धियुक्ता महादेवाः सृष्टिं चक्रुः प्रभावतः ॥ १४ ॥
परस्परप्रवेशं च चक्रुस्त ऋषयस्तदा ।
तेनैकभावतां प्राप्तास्तस्मादण्डं बभूव वै ॥ १५ ॥
तस्मिन्नण्डे पुमानादिरेकः सर्वात्मशक्तिमान् ।
जातो वै भगवान् साक्षाद् गुणेशो गुणवल्लभः ॥ १६ ॥
महता कालयोगेन देहात्तस्य विनिःसृताः ।
आपस्तत्र स्थितं ह्यण्डं तत्र वृद्धिं ययौ च सः ॥ १७ ॥
कालेनावयवी जातस्ततः सम्पूर्णदेहवान् ।
तस्य तेजःप्रभावेण तदण्डं स्फुटितं महत् ॥ १८ ॥
स एव निःसृतः साक्षादसङ्ख्यातार्कसन्निभः ।
अपारमहिमा यस्य सर्वादिः सर्वभावनः ॥ १९ ॥
सर्वतो हस्तपादो वै सर्वतो नासिकोदरः ।
सर्वतोऽक्षिमुखोऽनन्तः सर्वतः श्रुतिमान् बभौ ॥ २० ॥
असङ्ख्यावयवो देवो ह्यसङ्ख्योदारविक्रमः ।
असङ्ख्यलीलया युक्तः परमात्मस्वभाववान् ॥ २१ ॥
आदिमध्यान्तहीनः स सर्वत्र व्याप्य संस्थितः ।
महतां च महीयान् यो यस्य पारो न दृश्यते ॥ २२ ॥
अणुभ्योऽणुतरो देवो रोमरन्ध्रेषु यस्य वै ।
ब्रह्माण्डानि भ्रमन्ति स्म परागा इव चाम्बरे ॥ २३ ॥
महाकारणनामा वै तुरीयो देहधारकः ।
आत्मप्रतीतिरूपं यत्कथ्यतेऽसौ महाद्युतिः ॥ २४ ॥
गुणानामधिपोऽयं वै गुणेशस्तेन कथ्यते ।
सर्वात्मा सर्वरूपश्च नाददेहधरः प्रभुः ॥ २५ ॥
[[२१]]
गुणेशेन कृतं कर्म नानाचेष्टात्मकं ततः ।
तेन नामानि जातानि पश्चात्तस्य महात्मनः ॥ २६ ॥
आपः शरीरसंसृष्टास्तत्र सुप्तोऽयमीश्वरः ।
नारायण इति प्राप्तं नाम तस्य महात्मनः ॥ २७ ॥
आपो नरप्रसूताश्च तेन नाराः प्रकीर्तिताः ।
ता एवायतनं तस्य कर्मणा तेन स प्रभुः ॥ २८ ॥
भिन्नं भिन्नं सृजति च त्रिविधं त्रिविधं पृथक् ।
ब्रह्मेति तेन सम्प्राप्तं नाम तस्य प्रभावतः ॥ २९ ॥
वेदोपनिषदि प्रोक्तो ब्रह्मलोकः सनातनः ।
सर्वेभ्यो यः परः श्रेष्ठमेनं विद्धि सुनिश्चितम् ॥ ३० ॥
सर्वेषां यत्नदाता स कालरूपेण वर्तते ।
चालकस्तेन नामाभून् महादेव इति प्रभोः ॥ ३१ ॥
कर्मणामयमाधारो जातः सूर्य इति स्मृतः ।
मोहको वस्तुजातानामादिशक्तिश्च तेन सः ॥ ३२ ॥
इत्यादिनामतां प्राप्तो नानाभावेन कर्मणा ।
गुणेशस्तु तुरीयात्मा सर्वत्राऽसौ महान् प्रभुः ॥ ३३ ॥
कारणानां च सर्वेषां कारणं च न संशयः ।
महाकारणमेतच्च पुराणेषु प्रपठ्यते ॥ ३४ ॥
कर्तुः कर्ता स्वयं साक्षाद्धर्तुर्हर्ता न संशयः ।
पातुः पाता प्रकाशस्य प्रकाशोऽयं गुणेश्वरः ॥ ३५ ॥
त्रिदेहो गुणतश्चायं वामे राजसतां गतः ।
सात्त्विको मध्यभागे स दक्षिणे तामसो बभौ ॥ ३६ ॥
एतादृशो महात्मासावादिदेवो गुणेश्वरः ।
अज्ञानेनावृतो यस्मात्तेन वै तपसि स्थितः ॥ ३७ ॥
सोऽतपत्तप उग्रं तु हृदि ध्यात्वा गजाननम् ।
बहुकाले व्यतिक्रान्ते प्रसन्नोभूद्गजाननः ॥ ३८ ॥
आगतो देवदेवेशो धेनुर्वत्समिवादरात् ।
बोधयामास तं शीघ्रं गुणेशं भक्तवत्सलः ॥ ३९ ॥
श्रीगणेश उवाच ।
एकाक्षरस्य मन्त्रस्य जपेन तपसाऽपि ते ।
प्रसन्नोऽहं महाबाहो गुणेश वृणु वाञ्छितम् ॥ ४० ॥
इत्येवं बोधितो देवि गणेशेन कृपावता ।
गुणेश्वरःप्रतुष्टाव भक्तिभावसमन्वितः ॥ ४१ ॥
गुणेश उवाच ।
नमामि देवं गणनाथमीशं सदा सुशान्तं हृदि योगिनां वै ।
अपारयोगं दृढयोगनाथं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४२ ॥
अयोगरूपं कथितुं त्वशक्यं निवृत्तिमात्रं ह्यसमाधिसंस्थम् ।
अभेदभेदात्मकमूलहीनं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४३ ॥
सदा समाधिस्थमनन्तपारं प्रभुं स्वसंवेद्यमयं विभान्तम् ।
निजात्मयोगेन च लभ्यमेवं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४४ ॥
विदेहयोगेन च साङ्ख्यरूपं जनेन लभ्यं गणराजमीड्यम् ।
सदा ह्युपाधौ न हितं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४५ ॥
सुसंस्थितं सर्वविलासयुक्तं हृद्विज्ञबोधात्मकमादिदेवम् ।
अभेदमात्रं परमार्थरूपं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४६ ॥
अनादिमध्यान्तमनन्तपारं सुसंवृतं सन्ततमात्मरूपम् ।
गणेशमाद्यं पुरुषं पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४७ ॥
अनादिरूपं प्रकृतिप्रभेदं सदा सुबिन्द्वात्मकमप्रमेयम् ।
अमायिकं मोहकरं प्रसिद्धं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४८ ॥
गुणेषु रूपेण विराजमानमपारमव्यक्तमयं गणेशम् ।
गुणैर्विहीनं गुणचालकं च सुशान्तयोगेश्वरमानतोऽस्मि ॥ ४९ ॥
[[२२]]
समस्वरूपं जगदीशमेकं सुषुप्तिरूपं सकलावभासम् ।
अनादिमायामयमोहधारं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५० ॥
जगन्मयं सूक्ष्मविभूतिधारं हिरण्मयं स्वप्नगतं गणेशम् ।
जनस्य विज्ञानकर पुराणं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५१ ॥
स्तुतं सदा देवमुनीन्द्रसिद्वैः स्थितं जगन्मोहमयं प्रसिद्धम् ।
सदा परं स्थूलविहारयुक्तं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५२ ॥
असत्स्वरूपं विविधेष्वभेदं गणेशमायामयशक्तिरूपम् ।
मनोवचोहीनमहानुभावं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५३ ॥
रविस्वरूपं ह्यमृतं पुराणमभेदोकात्मकमात्मरूपम् ।
अखण्डमानन्दघनं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५४ ॥
समं सदा विष्णुमचिन्त्यभावमभेदभेदादिविवर्जितं च ।
सदा सुखानन्दमयं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५५ ॥
अचिन्त्यरूपं सकलैर्विहीनं सदाशिवं मोहविहीनमाद्यम् ।
अपारवेशं स्वसुखावभासं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५६ ॥
पदार्थरूपं विविधप्रभेदं विकारयुक्तं परमप्रमेयम् ।
बोधात्मकं त्वम्पदरूपमेव सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५७ ॥
अखण्डमेकात्मकविश्वरूपं विकारहीनं महदप्रमेयम् ।
गणेशमेकं हृदि तत्पदस्थं सुशान्तयोगेश्वरमानतोऽस्मि ॥ ५८ ॥
गणेश चैते विविधस्वरूपाः कलावतारा भवतो हि भव्याः ।
सुशान्तमेकं भवदीयरूपं कथं विभाव्यं मनसा न लभ्यम् ॥ ५९ ॥
यदा च सर्वात्ममयं वदामि तदा तु सोऽहं प्रकृतिस्वरूपम् ।
गकाररूपं जगदीशभेदं गकारमेकं शरणं प्रपदये ॥ ६० ॥
मनोवचोहीनमथो वदामि ह्ययोगसंयोगमयं णकारम् ।
निवृत्तिरूपं शरणं सदा वै नमामि तं सर्ववरिष्ठमाद्यम् ॥ ६१ ॥
न शक्यसे वक्तुमवक्तुमेवमतो भवन्तं प्रणमामि ढुण्ढे ।
गणेश विघ्नेश महानुभाव प्रसीद भो ब्रह्मपते महात्मन् ॥ ६२ ॥
जन्म धन्यं धन्यमक्षि विद्या ज्ञानं तपः फलम् ।
येन दृष्टो गणाधीशः कृतकृत्योऽस्मि साम्प्रतम् ॥ ६३ ॥
मह्यं यदि वरो देयस्तदा भक्तिं दृढां त्वयि ।
देहि मे परमेशान यया मोहो विनश्यति ॥ ६४ ॥
सृष्टिसर्जनसामर्थ्यं भजतां कामपूरणम् ।
निर्विघ्नं सर्वकार्येषु देहि विघ्नविनाशन ॥ ६५ ॥
गुणेशवचनं श्रुत्वा सुप्रसन्नो गजाननः ।
मेघगाम्भीर्यसादृश्यं वचनं त्विदमब्रवीत् ॥ ६६ ॥
श्रीगणेश उवाच ।
भविता मे महाभक्तिः सृष्टीनां रचनास्तथा ।
नानाविधा भविष्यन्ति निर्विघ्नं सर्वदा भवेत् ॥ ६७ ॥
भवद्भ्यः सर्वदातृत्वं भविष्यति तथाऽनघ ।
महाकार्ये समुत्पन्ने दास्येऽहं दर्शनं च ते ॥ ६८ ॥
स्तोत्रं त्वया कृतं यच्च सर्वमान्यं भविष्यति ।
पठतां शृण्वतां चैव ब्रह्मभूतकरं महत् ॥ ६९ ॥
[[२३]]
स्तोत्रं ब्रह्मपतेः साक्षान्नाम्ना वै स्तुतिसारकम् ।
भविष्यति महाभाग सर्वसिद्धिकरं परम् ॥ ७० ॥
सकामेभ्यो जनेभ्योऽपि कामदं चिन्तितप्रदम् ।
निष्कामेभ्यः स्वभक्तेभ्यो मुक्तिदं प्रभविष्यति ॥ ७१ ॥
मम प्रीतिकरं पूर्णं सारं सर्वत्र भाषितम् ।
त्रिकालपठनादस्य साध्योऽहं नात्र संशयः ॥ ७२ ॥
श्रीशिव उवाच ।
इत्युक्त्वान्तर्हितः साक्षाद्गणेशो भक्तवत्सलः ।
देवस्यापि वियोगेन गुणेशो विमना ह्यभूत् ॥ ७३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथम खण्डे वक्रतुण्डचरिते गुणेशवरप्रदानं नामाष्टमोऽध्यायः ॥ ८ ॥