॥ श्रीगणेशाय नमः ॥
पार्वत्युवाच ।
श्रुत्वेदं त्वन्मुखाम्भोजाद्धर्षश्चेतस्यजायत ।
पुनर्वदस्व मे स्वामिन् गणराजकथामृतम् ॥ १ ॥
कथानां च रहस्यं यत्तदेवैतन्न संशयः ।
पुनाति प्राश्निकं श्रोतॄन् वक्तारं भक्तितः श्रुतम् ॥ २ ॥
प्रकृतिः पुरुषश्चोभौ कथं सृष्टिं प्रचक्रतुः ।
अन्तर्हिते निजानन्दे गणेशे स्वेच्छया विभौ ॥ ३ ॥
मुद्गल उवाच ।
पार्वतीवचनं श्रुत्वा प्रहृष्टः शङ्करोऽब्रवीत् ।
कथां रसयुतां रम्यां पावनानां च पावनीम् ॥ ४ ॥
शङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि गणनाथकथां शुभाम् ।
धन्यासि सादरा जाता सप्रेमा विघ्ननाशिनी ॥ ५ ॥
अन्तर्हिते गणेशे च प्रकृतिः पुरुषस्तथा ।
सामर्थ्येन युतौ जातौ परस्परमनोनुगौ ॥ ६ ॥
तपसा वरदानेन मोहयामास तत्क्षणात् ।
पुरुषं प्रकृतिः सा वै नानाभावार्थदर्शिनी ॥ ७ ॥
नानाविभवयुक्तां तां दृष्ट्वा पुरुषसत्तमः ।
मोहितः पूर्णभावेन तदधीनोऽभवत्सदा ॥ ८ ॥
[[१८]]
संवीक्षिता महामाया पुरुषेण महात्मना ।
हावभावयुता तत्र संस्थिता भक्तिभावतः ॥ ९ ॥
तस्यां सत्तात्मकं वीर्यं पुरुषेण प्रकाशकम् ।
निक्षिप्तं सहसा देवि तेन सा गर्भवत्यभूत् ॥ १० ॥
स गर्भो ववृधे तत्र तेजसा स्वेन संवृतः ।
महता कालयोगेन पूर्णो जातः प्रतापवान् ॥ ११ ॥
समये सुषुवे सा तं पुत्रं तेजोमयं परम् ।
तस्य नामाऽभवल्लोके महानित्यभिविश्रुतम् ॥ १२ ॥
अन्तस्तु यत्स्थितं देवि सर्वान्तर्यामि तत्परम् ।
लोकेषु च महत्तत्वं ज्ञातव्यं तत्समाधिना ॥ १३ ॥
सर्वेषामादिभूतोऽयं महानात्माऽभवत्प्रभुः ।
ज्येष्ठोऽयं तत्त्वजातीनां हृदि तेषां समास्थितः ॥ १४ ॥
महता च ततः सृष्टं यदहङ्काररूपकम् ।
स एव त्रिविधो जातो भिन्नमूर्तिः प्रतापवान् ॥ १५ ॥
अहं सर्वत्र तिष्ठामि मदाधारमिदं स्मृतम् ।
तेनाहङ्कारनामा स सदाहङ्करणात् शिवे ॥ १६ ॥
स एव बाह्यभावेन स्थितः सर्वत्र सर्वराट् ।
इच्छितं महता यद्वै तत् कर्तुं सुसमाहितः ॥ १७ ॥
त्रिविधोऽसौ गुणैस्तत्र तन्निबोध जगन्मयि ।
सात्त्विको राजसश्चैव तामसः कथ्यते बुधैः ॥ १८ ॥
तेनाहङ्करणस्यापि त्रिशक्तित्वं समागतम् ।
सात्त्विकी ज्ञानशक्तिश्च तया भावः प्रबुध्यते ॥ १९ ॥
राजसी या क्रियाशक्तिस्तया कार्यं प्रवर्तते ।
तामसी द्रव्यशक्तिर्या देहरूपा प्रकथ्यते ॥ २० ॥
तत्रादौ तामसी शक्तिः प्रेरिता विश्वयोनिना ।
निर्ममे शब्दरूपं सा तेनाकाशं विनिर्मितम् ॥ २१ ॥
आकाशेन स्पर्श एवं निर्मितः सर्वसिद्धये ।
स्पर्शेन निर्मितो वायुर्महाबलयुतः प्रभुः ॥ २२ ॥
वायुना निर्मितं रूपं तेजोरूपेण निर्मितम् ।
तेजसश्च रसोत्पत्ती रसादापो विनिःसृताः ॥ २३ ॥
अद्भिश्च निर्मितो गन्धो गन्धाद्भूमिरजायत ।
तमोगुणमयी सृष्टिरेषा जाता महाद्भुता ॥ २४ ॥
तन्मात्रा भूतसर्गश्च पञ्चपञ्चात्मकः स्वराट् ।
पञ्चभूतात्मको देहः सर्वत्रैव प्रदृश्यते ॥ २५ ॥
ततो राजसशक्त्या च पञ्चभूतमयानि वै ।
इन्द्रियाणि प्रसृष्टानि क्रियारूपाणि तानि वै ॥ २६ ॥
पञ्च ज्ञानेन्द्रियाण्याहुर्ज्ञानरूपधराणि च ।
जिह्वा चक्षुस्त्वचा नासा कर्णश्चैवाऽत्र पञ्चमः ॥ २७ ॥
कर्मेन्द्रियाणि पञ्चैव हस्तौ पादौ गुदं च वाक् ।
लिङ्गं पञ्चममत्रैव एभिः सञ्जायते क्रिया ॥ २८ ॥
पञ्च प्राणास्तथा ज्ञेयाः प्राणो व्यानस्त्वपानकः ।
उदानश्च समानो वै राजसाः पञ्च वायवः ॥ २९ ॥
सप्तधातुविभागार्थं क्रियारूपा उदाहृताः ।
एषां क्रियात्मिका सृष्टी राजसी कथिता प्रिये ॥ ३० ॥
सात्त्विक्या मायया देवा इन्द्रियाणां विनिर्मिताः ।
दिशो वायुश्च वरुणोऽश्विनौ सूर्यः प्रकीर्तितः ॥ ३१ ॥
एता ज्ञानेन्द्रियाणां च देवताः परिकीर्तिताः ।
अग्निर्विष्णुः प्रजापाल इन्द्रो मित्रश्च पञ्चमः ॥ ३२ ॥
एताः कर्मेन्द्रियाणां वै देवताः परिकीर्तिताः ।
सात्त्विकी सृष्टिरित्युक्ता दशदेवस्वरूपिणी ॥ ३३ ॥
[[१९]]
एते तत्त्वस्वरूपाख्या आदिदेवाः प्रकीर्तिताः ।
यथाविधि तथा जाता ज्ञानहीना बभूविरे ॥ ३४ ॥
ज्ञानहीनत्वदोषेण सृष्टिं कर्तुं न च क्षमाः ।
तेभ्यो ज्ञानप्रदानार्थमुपदेशं प्रचक्रतुः ॥ ३५ ॥
प्रकृतिः पुरुषश्चोभौ मन्त्रमेकाक्षरं परम् ।
अनुष्ठानविधायुक्तं ददतुर्गणपस्य तौ ॥ ३६ ॥
ते तत्रैव स्थिताः सर्वे तपश्चक्रुर्महद् भृशम् ।
तेन सन्तुष्टतां यातो गणेशो गणवल्लभः ॥ ३७ ॥
प्रत्यक्षतां ययौ तेषां समीपे संस्थितो महान् ।
तं दृष्ट्वा हर्षिताः सर्वे देवाः स्तोत्रं प्रचक्रिरे ॥ ३८ ॥
तत्त्वान्यूचुः ।
नमस्ते वक्रतुण्डाय भक्तसंरक्षकाय च ।
सर्वाधीशाय सर्वाय गणानां पतये नमः ॥ ३९ ॥
अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः ।
समाय विषमायैव विघ्नेशाय नमो नमः ॥ ४० ॥
आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने ।
नामरूपधरायैव द्वाभ्यां हीनाय ते नमः ॥ ४१ ॥
अनन्तोदरसंस्थाय नानाभोगकराय च ।
भोगहीनाय सर्वत्र स्वानन्दपतये नमः ॥ ४२ ॥
मायाधाराय वै तुभ्यं मायाहीनाय ते नमः ।
मायिनां मोहकाराय सर्वज्ञाय च ते नमः ॥ ४३ ॥
सर्वसिद्धिधरायैव सिद्धीनां पतये नमः ।
सिद्धिहीनाय सिद्धाय सिद्धानां पतये नमः ॥ ४४ ॥
जगन्मयाय वै तुभ्यं जगद्धीनाय ते नमः ।
कर्मणां फलदात्रे च कर्मरूपाय ते नमः ॥ ४५ ॥
कर्महीनाय तेऽज्ञानज्ञानदात्रे नमो नमः ।
ज्ञानिनां ज्ञानकर्त्रे च ज्ञानहीनाय ते नमः ॥ ४६ ॥
चतुर्विधधरायैव चतुर्विधमयाय च ।
चतुर्विधविहीनाय स्वसंवेद्याय ते नमः ॥ ४७ ॥
पाशाङ्कुशधरायैव दन्ताभयधराय च ।
चतुर्भुजाय वै शूर्पश्रुतये तुन्दिलाय च ॥ ४८ ॥
महते चैकदन्ताय महतां च महीयसे ।
लघवे लघुरूपाय लघूनां लाघवे नमः ॥ ४९ ॥
गजवक्त्राय देवाय ब्रह्मणे ब्रह्मरूपिणे ।
ब्रह्मणस्पतये चैव ब्रह्मदात्रे नमो नमः ॥ ५० ॥
किमस्माभिः स्तुतिः कार्या ह्यपारगुणराशये ।
नमो नमो गणेशाय त्वं तुष्टो भव सर्वदा ॥ ५१ ॥
कृताञ्जलिपुटाः सर्वे ऋषयश्च स्थिताः पुरः ।
तान् दृष्ट्वा गणराजस्तु हृष्टः सन् प्रत्युवाच ह ॥ ५२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते तत्त्वकृतस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥
[[२०]]