०६ प्रकृतिपुरुषवरप्रदानम्

॥ श्रीगणेशाय नमः ॥

शौनक उवाच ।

पार्वतीशिवसंवादं कथयस्व महामते ।
पाराशर्यस्य सर्वज्ञ शिष्य सर्वार्थतत्त्ववित् ॥ १ ॥

सूत उवाच ।

मुद्गलेन यथा प्रोक्तं दक्षे वै शान्तिकारकम् ।
शिवयोस्तं च सञ्जातं संवादं कथयामि भोः ॥ २ ॥

श्रीशिव उवाच ।

धन्या देवि महाभागे त्वत्समान्या न विद्यते ।
महापुण्येन ते बुद्धिगणेशज्ञानलालसा ॥ ३ ॥

कारितोऽहं त्वया शक्ते सत् स्त्रिया नात्र संशयः ।
ममैवेदं महद्भाग्यं गाणपत्यप्रिया गृहे ॥ ४ ॥

गणेशाय नमः कृत्वा कथयामि कथानकम् ।
आदौ मायामयं विद्धि मायातीतं ततः परम् ॥ ५ ॥

स्वस्वरूपमयं सर्वं ज्ञातव्यं योगिना सदा ।
द्विविधं योगमार्गेण साधनेन विशेषतः ॥ ६ ॥

आदौ ब्रह्म स्थितं देवि एकानेकादिवर्जितम् ।
स्वतः परत उत्थानात्तदेव द्विविधं बभौ ॥ ७ ॥

स्वत उत्थानके नैव विकल्पः सदृशः कृतः ।
अहमस्मीति भावेन बिम्बं भिन्नं विनिःसृतम् ॥ ८ ॥

सकलाभेदरूपं यन्निराकारं स्वभावतः ।
अहमस्मि सदा प्रोक्तं ब्रह्मरूपं च शाश्वतम् ॥ ९ ॥

तेनापि स्वस्वरूपं तद् दृष्टमात्मात्मकं परम् ।
कीदृशोऽहं विकल्पश्च कृतो मोहेन तत्क्षणात् ॥ १० ॥

चतुश्चतुः पदार्था ये योगरूपेण संस्थिताः ।
तेषामभेदरूपं च दृष्टं सर्वात्मकं परम् ॥ ११ ॥

मायया बिम्बरूपोऽयं जातः सद्यश्च नामतः ।
माया बिम्बं द्वितीयं तत्तत्र मोहप्रधारणात् ॥ १२ ॥

मोहधारणमात्रेण विस्मृतं स्वस्वरूपकम् ।
मायासुखेप्सुना जाता तस्य देवस्य तत्क्षणात् ॥ १३ ॥

सर्वाकारा निराकारा माया जाता द्विधापरा ।
बुद्धिरूपा महाभागा तया सर्वं प्रबुध्यते ॥ १४ ॥

निराकारं च साकारं बुद्धया सम्बुध्यते जनैः ।
बुद्धया यद्बुध्यते क्षेत्र बुद्धिरूपं तदेव च ॥ १५ ॥

तत्र मोहो च साकारो निराकारः स्वयं प्रभुः ।
मोहहीन इति भ्रान्तिर्द्विधा गुणसमुत्थिता ॥ १६ ॥

सा सिद्धिर्मोहकर्त्री वै नानाभ्रान्तिप्रकाशिका ।
एका बुद्धिश्च सर्वत्र तथा द्वैधे प्रवर्तिता ॥ १७ ॥

सिध्या सम्मोहिता बुद्धिर्भ्रान्ता जाता च पार्वती ।
साकारमोहसंयुक्ता निराकारविमोहिता ॥ १८ ॥

मोहधारकबुद्धिश्च सिद्धिर्मोहप्रदायिनी ।
तयोः प्रकाशदाता स गणेशानोऽभवत् स्वयम् ॥ १९ ॥

स एव नामतस्तत्र न गतो निजरूपधृक् ।
बिम्बबिम्बिप्रभावत्वाद्भासते तादृशो वृथा ॥ २० ॥

सर्वात्मकं च बिम्बं यत्परं तत्रैव बिम्बितम् ।
आत्मरूपं निराकारं तयोः संयोगितां गतः ॥ २१ ॥

स एव गणराजोऽयं मायाखेलकरः प्रभुः ।
तस्येच्छया तद् द्विविधं चलति प्रतिसूत्रवत् ॥ २२ ॥

त्रिविधं चैकभावं च जातं मोहेन पार्वती ।
विकल्पः प्रकृतस्तेन एकोऽहं स्यां बहुस्त्विति ॥ २३ ॥

विकल्पेन द्विधा भूतं देहदेहिस्वरूपकम् ।
सोऽहं ब्रह्मेति यत्प्रोक्तं वेद वै वेदवादिभिः ॥ २४ ॥

तदेव देहि रूपं च देहमोहप्रवारणात् ।
देहरूपं तथा तत्र बिन्दुमात्रं प्रकीर्तितम् ॥ २५ ॥

चतुर्विधानां देहानां ब्रह्मरूपं पुरातनम् ।
बहुरूपं च तद्विद्धि देहकैवल्यसञ्ज्ञितम् ॥ २६ ॥

[[१६]]

सोऽहं ब्रह्मैकरूपं यद्बहुरूपं च बिन्दुमत् ।
स्वस्वकार्येषु नो शक्तं सत्ताहीनतया शिवे ॥ २७ ॥

ताभ्यां तपः कृतं घोरं स्वस्वरूपस्य सुन्दरि ।
दिव्यवर्षसहस्रान्ते प्रसन्नोऽभूद् गजाननः ॥ २८ ॥

प्रत्यक्षतां ययौ तत्र शुण्डादण्डविराजितः ।
लम्बोदरो महाकर्णश्चतुर्बाहुस्त्रिनेत्रभृत् ॥ २९ ॥

तस्य दर्शनमात्रेण स्फूर्तिर्जाता तयोस्तदा ।
तया तं तौ समाबुध्य नतौ स्तोत्रं प्रचक्रतुः ॥ ३० ॥

प्रकृतिपुरुषावूचतुः ।
नमस्ते गणनाथाय स्वसंवेद्यमयाय ते ।
निराकारस्वरूपा वै शुण्डा यस्य विराजते ॥ ३१ ॥

यस्य देहश्च साकारः कण्ठाधः परिकथ्यते ।
अभेद एतयोर्जातस्तेन त्वं वै गजानन ॥ ३२ ॥

चतुर्विधं निजानन्दाद्वेदेषु कथितं भवेत् ।
एकमव्यक्तरूपं च द्वितीय समरूपकम् ॥ ३३ ॥

तृतीयं सत्स्वरूपं च चतुर्थं यत्सदा ह्यसत् ।
चतुर्हस्तस्वरूपं ते तेन त्वं वै चतुर्भुजः ॥ ३४ ॥

तवोदरे स्थितं सर्वं तेन लम्बोदरः स्मृतः ।
मायामायिकरूपं च द्वौ पादौ द्विविधं च ते ॥ ३५ ॥

एते सर्वे गणा ढुण्ढे त्वदीया नात्र संशयः ।
गणनाथोऽसि तेन त्वं नाम्ना ख्यातश्च सर्वदा ॥ ३६ ॥

एतादृशो निजात्मासावावयोर्ध्यान आबभौ ।
स्वसंवेद्यतया ध्यातो भक्तानुग्रहकारकः ॥ ३७ ॥

भक्ताभिमानभावेन देहधारी स्वयं ह्यभूत् ।
एतैश्च लक्षणैर्युक्तो गणेशो नामधारकः ॥ ३८ ॥

धन्यं सर्वं कृतं स्वामिन् येन त्वं देहवानभूः ।
स्वानन्दवासभृत् साक्षाद् हृदि नित्यं स्थिरो भव ॥ ३९ ॥

नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे ।
भक्तानां वै ह्यभक्तानां विघ्नकर्त्रे नमोऽस्तु ते ॥ ४० ॥

कर्मणां फलदात्रे च ज्ञानानां सिद्धिदायिने ।
अमेयशक्तये तुभ्यं सर्वाधाराय ते नमः ॥ ४१ ॥

किं कर्तव्यं दयासिन्धो तदेवाज्ञापय प्रभो ।
तव भक्तिं महातीव्रां देहि नौ गणनायक ॥ ४२ ॥

एवं स्तुतिं समाकर्ण्य परितुष्टो गणाधिपः ।
मेघगम्भीरया वाचा हर्षयन्नब्रवीत्तदा ॥ ४३ ॥

श्रीगणेश उवाच ।

साधु साधु महाभागौ यदुक्तं स्तोत्रमुत्तमम् ।
मम प्रीतिकरं सर्वकामदं प्रभविष्यति ॥ ४४ ॥

धमार्थकाममोक्षाणा दायकं पुष्टिवर्धनम् ।
कारागृहस्थितानां च मोचकं लक्षपाठतः ॥ ४५ ॥

मारणोच्चाटनादीनां नाशकं तत्तथैव च ।
एकविंशतिवारं यः एकविंशद्दिनावधि ॥ ४६ ॥

पठेत्तु यदि वै भत्त्या स ईप्सितफलं लभेत् ।
ब्रह्मभूयकरं चैतन्निष्कामपठनाद्भवेत् ॥ ४७ ॥

भवतोस्तपसा तुष्टः स्तोत्रेणानेन भावतः ।
प्रीतो दास्यामि सम्पूर्णं भवद्भ्यामीप्सितं च यत् ॥ ४८ ॥

बिन्दुमात्रस्वरूपेण यत्स्थितं ब्रह्म शाश्वतम् ।
तस्माच्चतुर्विधं विश्वं प्रकटं सम्भविष्यति ॥ ४९ ॥

प्रकर्षेण च सर्वेषां कृतिस्तस्माद्विनिःसृता ।
प्रकृतिस्तेन ते नाम भविष्यति जनेष्विदम् ॥ ५० ॥

सृष्ट्वा चतुर्विधं विश्वं बन्धहीना भविष्यसि ।
मदीयां भक्तिमचलां प्रकृते प्राप्स्यसि ध्रुवम् ॥ ५१ ॥

जनास्त्वदीयभक्तिं ये करिष्यन्ति सकामतः ।
निष्कामतश्च तेभ्यस्त्वं सर्वं दास्यसि शोभने ॥ ५२ ॥

[[१]]

चतुर्विधेप्ययं शेते पुरे तेनैव पूरुषः ।
सोऽहम्मात्रात्मको भावी नाम्ना सर्वत्र तिष्ठतु ॥ ५३ ॥

सर्वाकारविहीनोऽयं तत्र भ्रान्तो भविष्यति ।
बिम्बबिम्बित भावेन प्रकृतौ मोहितः सदा ॥ ५४ ॥

स्वयं मोहविहीनः स सोऽहम्मात्रात्मकः सदा ।
मत्प्रसादाद्भवेन्नित्यं ब्रह्म सोऽहं सुखात्मकः ॥ ५५ ॥

मदीया भक्तिरचला भविष्यति तवापि च ।
तया बन्धविहीनस्त्वं तथा मान्यो भविष्यसि ॥ ५६ ॥

तव भक्तिं करिष्यन्ति जना भावेन संयुताः ।
तेभ्यस्तदीप्सितं सर्वं दास्यसि त्वं न संशयः ॥ ५७ ॥

ब्रह्मभूयपदं चैव दास्यसे योगसेवया ।
साक्षात्पुरुषरूपस्त्वं सर्वसत्तात्मको भव ॥ ५८ ॥

प्रकृतौ वीर्यमाधत्स्व सर्वसत्तात्मकं विभो ।
तेनेयं सर्वसूर्विश्वं सृजिष्यति न संशयः ॥ ५९ ॥

सृष्ट्वा चतुर्विधं सर्वं पालनं हरणं तथा ।
कर्तव्यं कालयोगेन करणीयमिदं स्मृतम् ॥ ६० ॥

सर्वेषां प्रकृतिर्माता पिता पुरुष उच्यते ।
नानारूपाणि नामानि कल्पयिष्यन्ति वै जनाः ॥ ६१ ॥

इत्युक्त्वा गणराजस्तु तत्रैवान्तरधीयत ।
प्रकृतिः पुरुषश्चैव यथाज्ञप्तौ प्रचक्रतुः ॥ ६२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते प्रकृतिपुरुषवरप्रदानं नाम षष्ठोऽध्यायः ॥