॥ श्रीगणेशाय नमः ।
शौनक उवाच ।
श्रुतं दक्षस्य चरितं यज्ञध्वंसादिकं महत् ।
मुद्गलस्य च दक्षस्य संवादं कथयस्व भोः ॥ १ ॥
सूत उवाच ।
शृणु शौनक संवादं दक्षमुद्गलसम्भवम् ।
ब्रह्मभूयकरं पूर्णं भावेन च श्रुतं हृदि ॥ २ ॥
दक्षप्रश्नं परं धृत्वा मुद्गलो गणपप्रियः ।
तं प्रत्युवाच भावेन महर्षिर्योगिनां वरः ॥ ३ ॥
मुद्गल उवाच ।
सर्वेषां गणपो माता पिता चैव न संशयः ।
तेन सर्वादिपूज्योऽयं सर्वपूज्यः स देवराट् ॥ ४ ॥
ज्येष्ठराजेति यद्वाक्यं वेदेन प्रतिपादितम् ।
ज्येष्ठं भावाच्च तस्यापि ज्ञातव्यं सर्वसम्मतम् ॥ ५ ॥
तस्य सर्वे कलांशा वै कलांशांशाश्च केचन ।
न कला तस्य सम्पूर्णा जगत्यां कुत्र दृश्यते ॥ ६ ॥
विनायको नाम तेन जातोऽसौ भगवान् खलु ।
विशेषेण च सर्वेषां नायकोऽयं गणाधिपः ॥ ७ ॥
विगतो नायको यस्य स्वेच्छाचारी विनायकः ।
स्वानन्दलोकवासी च स्वसुखेन प्रभावतः ॥ ८ ॥
ब्रह्मविष्णुशिवाद्यैश्च वेदैर्योगिभिरेव च ।
सर्वैः सम्पूजितो देवो धर्मकामार्थमुक्तये ॥ ९ ॥
अहं ब्रह्मेति माहात्म्याद् गर्वो भवति शाश्वतः ।
शिवादीनां यदाधारादिदं सर्वं प्रवर्तते ॥ १० ॥
तदा मदहरोऽयं वै तेषां ज्ञानार्थसिद्धये ।
विघ्नकर्ता महाराजः स्वयं भवति विघ्नपः ॥ ११ ॥
पदभ्रष्टाः कृतास्तेन सर्वे देवादयो द्विजाः ।
किमाधारमिदं सर्वं विचिन्वन्ति समाधिना ॥ १२ ॥
तेन पश्यन्ति योगेन चेतसः पञ्चवृत्तिभिः ।
तासां प्रकाशकोऽयं वै चिन्तामणिरिति स्मृतः ॥ १३ ॥
वेदैः सम्पादितं ज्ञात्वा शरणं तं व्रजन्ति ते ।
ततो विघ्नहरो जातस्तेषां सर्वार्थदः स्मृतः ॥ १४ ॥
सर्वसत्तात्मकोऽयं वै विघ्नराजः प्रकीर्तितः ।
अत एव गणेशाद्धि परं किचिन्न विद्यते ॥ १५ ॥
सविघ्नस्त्वं प्रजातोऽसि तमेव शरणं व्रज ।
चिन्तामणिं विघ्नहरं गणेशं च विनायकम् ॥ १६ ॥
सूत उवाच ।
प्रजापतिरिति श्रुत्वा दक्षो हृष्टमनाः पुनः ।
पप्रच्छ विनयेनैव कथां पापप्रणाशिनीम् ॥ १७ ॥
दक्ष उवाच ।
कोऽयं स्वानन्दवासी वै कथं ज्ञेयो भवेन्मया ।
वद तत्र विभो मार्गं तेन तं सततं भजे ॥ १८ ॥
मुद्गल उवाच ।
अत्र ते कथयिष्यामि इतिहासं पुरातनम् ।
पार्वतीशिवसंवादं यथा जातं शृणुष्व भोः ॥ १९ ॥
कैलासे गिरिवर्ये तु सुखासीनं महेश्वरम् ।
पार्वती प्रणता भूत्वा पृच्छति स्म मुदायुता ॥ २० ॥
पार्वत्युवाच ।
शिव त्वं सर्वदेवानां नागानां रक्षसां तथा ।
मानवानां च सर्वेषां पूज्यः स्वामी न संशयः ॥ २१ ॥
तेभ्यः पदप्रदाता त्वं सर्वाधीशः पुरातनः ।
मायाविकारहीनश्च शिवस्तेन प्रकीर्तितः ॥ २२ ॥
त्वं किं समाधिना देव ध्यायसे मां वद प्रभो ।
त्वत्तः परतरं किञ्चिन्न दृष्टं नैव संश्रुतम् ॥ २३ ॥
इति पृष्टो महादेवस्तां प्रत्यूचे च सादरम् ।
सारं वेदादिमान्यं च ब्रह्मभूयकरं परम् ॥ २४ ॥
श्रीमहादेव उवाच ।
शृणु प्रिये प्रवक्ष्यामि यं ध्यायामि दिवानिशम् ।
गणेशं हृदि संस्थं मे स्वानन्दावासिनं परम् ॥ २५ ॥
[[१४]]
साकारं च निराकारं तस्मिन्देवि न विद्यते ।
मनोवाणीविहीनं न मनोवाणीमयं न वै ॥ २६ ॥
शिवस्य वचनं श्रुत्वा पार्वती प्रेमसंयुता ।
उवाच मधुरं वाक्यं वाक्यज्ञा भावपूर्वकम् ॥ २७ ॥
पार्वत्युवाच ।
कोऽसौ गणेशनामा वै कथं स हृदि तिष्ठति ।
स्वानन्दवसतिः का च यत्र तिष्ठति स प्रभुः ॥ २८ ॥
साकारो न निराकारो कथं स ज्ञायते जनैः ।
मनोवाणीमयो नैव हीनस्ताभ्यां न च क्वचित् ॥ २९ ॥
तस्य ध्यानं महेशापि कर्तुं नैव प्रशक्यते ।
ध्यायसे केन मार्गेण भव मे कथय प्रभो ॥ ३० ॥
अहं दासी त्वदीया वै शिष्यभावेन संस्थिता ।
कथयस्व महादेव ध्यानं गाणेशकं मम ॥ ३१ ॥
तमहं साधयिष्यामि साक्षात्कारेण वै यथा ।
कृतकृत्या भविष्यामि प्रसादात्ते न संशयः ॥ ३२ ॥
मुद्गल उवाच ।
इति पृष्टो महादेवो देव्या भक्त्यादरेण च ।
पात्रं गणेशमार्गस्य दृष्ट्वा प्रेमयुतोऽब्रवीत् ॥ ३३ ॥
तत्तेऽहं शृणु वक्ष्यामि गुह्याद् गुह्यतमं महत् ।
रहस्यं वेदशास्त्राणां यस्मात्परतरं न च ॥ ३४ ॥
दक्ष उवाच ।
तव वाक्यामृतेनाऽहं प्रीतो मुद्गल साम्प्रतम् ।
उमामहेशसंवादं योगीन्द्र कथयस्व मे ॥ ३५ ॥
सूत उवाच ।
दक्षस्य भावयुक्तं तद्वचनं मुद्गलेन वै ।
श्रुतं तेन सुसन्तुष्टो वक्तुं समुपचक्रमे ॥ ३६ ॥
मुद्गल उवाच ।
शम्भुः स्मृत्वा गणेशानं हृदि ध्यात्वा महायशाः ।
प्रत्युवाच महादेवीं गाणपत्यः प्रतापवान् ॥ ३७ ॥
श्रीशिव उवाच ।
सर्व मायामयं विद्धि जायते यच्च चेतसा ।
चित्तप्रवेशहीनं च मायातीतं निगद्यते ॥ ३८ ॥
रचितं द्विविधं येन स एव गणनायकः ।
स्वसंवेदं महः प्रोक्तं वेदयेत्तद्विशेषतः ॥ ३९ ॥
तत्रैव दृश्यते देवो योगिभिर्यागपारगैः ।
तेन स्वानन्दवासी स कथ्यते वेदवादिभिः ॥ ४० ॥
चित्तस्य पञ्चभूमीनां प्रकाशनकरः स्मृतः ।
चिन्तामणिरिति ख्यातो हृदि सन्तिष्ठति प्रभुः ॥ ४१ ॥
समूहे गणधातुश्च तेषां स्वामी गणेश्वरः ।
अभेदयोगमार्गेण सदा ध्यातुं स शक्यते ॥ ४२ ॥
मुद्गल उवाच ।
श्रुत्वा शिववचो रम्यं पार्वती विनयान्विता ।
चकिता प्रत्युवाचेदं वचनं हितकारकम् ॥ ४३ ॥
पार्वत्युवाच ।
भगवन्कथितं कूटवचनं योगभावितम् ।
न बुद्धं तन्मया स्वामिंस्तस्माच्च सुलभं वद ॥ ४४ ॥
ब्रह्म मायामयं प्रोक्तं कीदृशं कथय प्रभो ।
मायाहीनं कथं ज्ञेयं विस्तरेण वदस्व मे ॥ ४५ ॥
मुद्गल उवाच ।
शक्तिप्रश्नं च संश्रुत्य हृष्टः शम्भुः सुयोगवित् ।
साश्रुनेत्रः सरोमाञ्चो भक्त्या जातो महायशाः ॥ ४६ ॥
आदिमायां प्रशंसन् सन् वक्तुं तामुपचक्रमे ।
योगमार्गस्य सिद्धयर्थं विस्तरेण महेश्वरः ॥ ४७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते पार्वतीप्रश्नविचारो नाम पञ्चमोऽध्यायः ॥
[[१५]]