॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
कैलासशिखरे रम्ये शिवश्चिन्तापरोऽभवत् ।
अनाहूता गता देवी द्विट्गृहे किं भविष्यति ॥ १ ॥
वटमूले समासीनो नन्दिकेशादिभिर्वृतः ।
योगिभिः सेवितस्तत्र कथा नाना प्रवर्तयन् ॥ २ ॥
नानाऽपशकुनं तत्र बभूवातिभयानकम् ।
स्तुतिभिस्तेन सर्वे ते उत्पाताशङ्कया भृशम् ॥ ३ ॥
एतस्मिन्नतरे तत्र नारदो मुनिराययौ ।
तं प्रणम्य स्थितो योगी शिवं कल्याणदं परम् ॥ ४ ॥
कथावसरमासाद्य प्रोवाच कठिनं वचः ।
धन्या सती त्रिभुवने न समा कामिनी तया ॥ ५ ॥
सतीत्येव च यन्नाम कृतं तत्सार्थकं परम् ।
शिवनिन्दां समाकर्ण्य तृणवज्ज्वलितं वपुः ॥ ६ ॥
नारदस्य वचः श्रुत्वा वज्रसारमयोपमम् ।
उवाच तमृषिं शम्भुः किं नु देवी मृता मुने ॥ ७ ॥
न किञ्चिदुक्तवांस्तत्र शम्भुक्रोधभयाकुलः ।
शोकाग्निर्मां दहेत्किं वा ततो देवोऽन्वबुध्यत ॥ ८ ॥
शोकसागरमग्नोऽभूत्किं मां त्यक्त्वा गता शिवा ।
शक्तिहीनः कृतोऽहं वै ह्यशक्त सर्वकर्मणि ॥ ९ ॥
निःश्वासपरमोप्यासीदर्धमङ्गं गतं त्विति ।
जीवितेन च किं कार्यं देहत्यागं करोम्यहम् ॥ १० ॥
योगिभि सान्त्वितो देवो न किञ्चित्सुखवानभूत् ।
शिवश्चिन्तापरो भूत्वा विचारं कृतवान् हृदि ॥ ११ ॥
अहो विघ्नाकुलोऽहं वै कृतो विघ्नकरेण च ।
गर्वितः परमैश्वर्यात्कृतं गर्वस्य खण्डनम् ॥ १२ ॥
अतुला शक्तिरर्धाङ्गे जगन्माताऽस्ति मे सदा ।
अर्धनारीश्वरोऽहं च न वियोगो मम क्वचित् ॥ १३ ॥
शक्तियुक्ततया नित्यं शक्तोऽहं प्रभुरीश्वरः ।
अखण्डैश्वर्यमोहेन विघ्नराजं च नामस्मरम् ॥ १४ ॥
[[९]]
इति गत्वा स्वयं शम्भुर्मनसा गणपं भजन् ।
भक्त्यैकचेतसा चैव ध्यात्वा रूपमनुत्तमम् ॥ १५ ॥
चतुर्भुजं महाकायं गजवक्त्रं महोदरम् ।
मुकुटेन विराजन्तं कर्णकुण्डलधारिणम् ॥ १६ ॥
रत्नमालाधरं पूर्णं नाभिशेषविभूषितम् ।
किङ्किणीकायुक्तपादं क्वणच्चरणनूपुरम् ॥ १७ ॥
सिद्धिबुद्धियुतं चिन्तामणिभूषितवक्षसम् ।
एकचित्तेन च ध्यात्वाऽसाधयत्तं समाधिना ॥ १८ ॥
तुष्टाव विविधैर्वाक्यैर्गणेशं ब्रह्मरूपिणम् ।
निराकारं च साकारं विघ्नराजं हृदि स्थितम् ॥ १९ ॥
शिव उवाच ।
नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे ।
विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥ २० ॥
लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे ।
त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥ २१ ॥
नैर्गुण्येन च वै साक्षाद् ब्रह्मरूपधराय च ।
नमो नमो बन्धहन्त्रे भक्तानां पालकाय ते ॥ २२ ॥
अभक्तेभ्यस्तमोदाय नानाभयकराय च ।
हेरम्बाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥ २३ ॥
अनन्ताननरूपायानन्तबाह्वङ्घ्रिकाय ते ।
अनन्तकरकर्णायानन्तोदरधराय ते ॥ २४ ॥
नमो नमस्ते गणनायकाय ते अनादिपूज्याय च सर्वरूपिणे ।
अखण्डलीलाकरपूर्णमूर्तये महोत्कटायास्तु नमो महात्मने ॥ २५ ॥
आदौ च निर्माय विधिं रजोमयं तेनैव सृष्टिं विदधासि देव ।
सत्त्वात्मकं विष्णुमथो हि मध्ये निर्माय पासि त्वमखण्डविक्रम ॥ २६ ॥
अन्ते तमोरूपिणमेव सृष्ट्वा शम्भु स्वशक्त्या हरसि त्वमाद्य ।
एवंविधं त्वां प्रवदन्ति वेदाः तं वै गणेशं शरणं प्रपद्ये ॥ २७ ॥
मायामयं वै गुणपं तु सृष्ट्वा तस्मात्पुरस्त्वं गणराज चादौ ।
स्वानन्दसञ्ज्ञे नगरे विभासि सिद्ध्या च बुद्ध्या सहितः परेश ॥ २८ ॥
तं त्वां गणेशं शरणं प्रपद्ये स्थितं सदा हृत्सु च योगिनां वै ।
वेदैर्न वेद्यं मनसा न लभ्यं तं वक्रतुण्डं हृदि चिन्तयामि ॥ २९ ॥
अर्धनारीश्वरत्वं यत्तद्गतं मेऽधुना प्रभो ।
शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतः ॥ ३० ॥
नानैश्वर्ययुता देवी सा गता गणप प्रभो ।
अनीश्वरपदं प्राप्तं मम वै देवदेव भोः ॥ ३१ ॥
निर्गुणोऽहं सदा शम्भुः सगुणः सर्वभाववित् ।
शक्त्या युक्तो यदा स्वामिन्नधुना किं करोम्यहम् ॥ ३२ ॥
शक्तिहीनः पदा गन्तुं न शक्नोमि गणेश्वर ।
अतस्त्वं कृपया देव शक्तं मां कुरु कर्मणि ॥ ३३ ॥
ततः प्रादुरभूत्तस्य पुरतः स गणाधिपः ।
उवाच शङ्करं तत्र हर्षयन् श्लक्ष्णया गिरा ॥ ३४ ॥
अहो पश्य च मां शम्भो किं शोचसि महेश्वर ।
भवितासि सशक्तिस्त्वं मद्वाक्यान्नात्र संशयः ॥ ३५ ॥
अहमेवेश्वरो देवो ह्येको ब्रह्माण्डमण्डले ।
तेन गर्वेण युक्तस्त्वं स विघ्नः सहसा कृतः ॥ ३६ ॥
अधुना ते गतो मोहो मदीया स्मृतिरागता ।
ध्यातस्तुतश्च तेनाऽहं प्रसन्नोऽस्मि न संशयः ॥ ३७ ॥
हिमाचलसुता देवी भविष्यति न संशयः ।
वृणोषि त्वं सतीं तां वै पार्वतीं च पुनः शिव ॥ ३८ ॥
[[१०]]
रमसे च तया सार्धं मद्भक्त्या भावितो दृढम् ।
ईश्वरः सहशक्तिस्त्वं मत्प्रसादात्सदा भव ॥ ३९ ॥
स्मृतमात्रस्तवाग्रेऽहं प्रत्यक्षः स्यां सदाशिव ।
इति दत्त्वा वरं देवस्तत्रैवान्तरधीयत ॥ ४० ॥
ततश्च शङ्करः क्षुब्धः शक्तो जातः स्वकर्मणि ।
जटामास्फालयामास गणेशं मनसा स्मरन् ॥ ४१ ॥
तस्माज्जातो महाबाहुर्वीरभद्रस्त्रिमस्तकः ।
त्रिपदः शूलवान् साक्षान्मृत्युरूपो महाद्युतिः ॥ ४२ ॥
शङ्कर प्रणनामाथ प्राञ्जलिः सन्पुरः स्थितः ।
आज्ञां कुरु महादेव दासोऽहं ते वशे स्थितः ॥ ४३ ॥
वचनं तस्य संश्रुत्य प्रहृष्टः शङ्करोऽब्रवीत् ।
सयज्ञस्य च दक्षस्य हरणं कुरु साम्प्रतम् ॥ ४४ ॥
तदाज्ञां शिरसा धृत्वा अट्टहासमथाकरोत् ।
तेन त्रिभुवनं सर्वं कम्पितं भयविह्वलम् ॥ ४५ ॥
ततो निर्गम्य वेगेन शरीरान्निर्ममे महान् ।
नानारुद्रानपारांश्च तैर्वृतः स गतो मखम् ॥ ४६ ॥
तमन्वयुर्गणाः शम्भोर्नन्दिकेशादयोऽपरे ।
क्षुभिताः क्रोधसंयुक्ता ब्रह्माण्डाशनसन्निभाः ॥ ४७ ॥
दुर्निमित्तानि सर्वाणि दक्षगेहेऽभवंस्तदा ।
शङ्किता मुनयो देवाः किं भवेदिति विह्वलाः ॥ ४८ ॥
एतस्मिन्नन्तरे तत्र दक्षयज्ञे महाबलः ।
आजगामावृतो रुद्रैर्वीरभद्रो भयानकः ॥ ४९ ॥
नन्दी भृङ्गरिटिर्भृङ्गी पुष्पदन्तमुखास्तथा ।
आगताः क्रोधदीप्तास्या भक्षयन्तो यथान्तकाः ॥ ५० ॥
सहसा वेगतः सर्वे मारयन्त इतस्ततः ।
पलायन्त च दिक्प्रान्ते दक्षस्यानुचरास्तदा ॥ ५१ ॥
यज्ञमण्डपमासाद्य बभञ्जुस्तत्क्षणेन च ।
देवान् सर्वान् मुनींश्चैव पीडयन्तः सुदारुणाः ॥ ५२ ॥
ऋषिपत्नीर्दधुस्तत्र देवपत्नीः सहस्रशः ।
अताडयन्महावीर्या हाहाकाराः प्रवर्तिताः ॥ ५३ ॥
कथं त्वसाधुपतयो भवतीभिर्वृताः खलु ।
शिवद्वेषकरा दुष्टास्तस्य प्राप्तं महत्फलम् ॥ ५४ ॥
एवमूचुर्हविद्रव्यं बभक्षुस्ते प्रहर्षिताः ।
वेदिकायां प्रचक्रुस्ते विट्सर्गं मूत्रणं तथा ॥ ५५ ॥
जगाम भगवांस्तत्र शङ्करः क्रोधसंयुतः ।
धनुर्बाणधरः साक्षात्प्रलयाग्निरिवोत्थितः ॥ ५६ ॥
तत्र युद्धमभूद् घोरं देवानां रुद्रचारिणाम् ।
स्वयं च युयुधे शम्भुः शस्त्रास्त्रैर्मर्मभेदिभिः ॥ ५७ ॥
पूष्णो दन्तांश्च नाराचैर्भेदयामास शङ्करः ।
भगस्य नेत्रमुन्मूल्य पाटयामास संयुगे ॥ ५८ ॥
धर्मं धृत्वा महावीरो नन्दिकेशोऽब्रवीत्तदा ।
को धर्मो वद रे दुष्ट शिवहीने मखे खल ॥ ५९ ॥
कश्यपं धृतवांस्तत्र भृङ्गी तेजस्विनां वरः ।
वरुणं ताडयामास पुष्पदन्तश्च वीर्यवान् ॥ ६० ॥
भैरवेण धृतस्तत्र देवेन्द्रो मूर्छितः कृतः ।
वीरभद्रो बलाद्दक्षं पातयामास भूतले ॥ ६१ ॥
एवं प्रमथिते यज्ञे शङ्खचक्रगदाधरः ।
युयुधे विष्णुरव्यग्रो महाबलसमन्वितः ॥ ६२ ॥
शस्त्रास्त्रैर्बहुभिस्तेन मर्दिता बलवत्तराः ।
रुद्रा भूतपिशाचाद्या हाहाकारं प्रचक्रिरे ॥ ६३ ॥
तं दृष्ट्वा सहसा शम्भुर्हृदि ध्यात्वा गणाधिपम् ।
बाणैस्तं हृदि संविध्य पातयामास भूतले ॥ ६४ ॥
पुनः सञ्ज्ञां समासाद्य स्वास्त्रं नारायणात्मकम् ।
मोचयामास गोविन्दो जगत्संहारकारकम् ॥ ६५ ॥
[[४]]
ततः शम्भुर्मुमोचापि स्वास्त्रं पाशुपतं महत् ।
ते उभे व्योम्नि चात्यन्तं युयुधाते परस्परम् ॥ ६६ ॥
तस्माज्जातो महानग्निर्ददाह पृथिवीमिमाम् ।
भयक्रान्तं त्रिभुवनं जातं तत्र मृतोपमम् ॥ ६७ ॥
एतस्मिन्समये तत्र वीरभद्रेण कल्पितम् ।
पशुरूपं शिरश्छित्वा दक्षस्याग्नौ हुतं ततः ॥ ६८ ॥
रुद्रैर्नानाविधैः कोलाहलस्तत्र प्रवर्तितः ।
छिन्नभिन्नाः सुरा जातास्त्रातारं लेभिरे न ते ॥ ६९ ॥
मुनयोऽपिभयोद्विग्ना व्यद्रवंस्तु दिशो दश ।
पिशाचादिभिराकृष्टाश्चक्रुशुश्चातिदारुणम् ॥ ७० ॥
विष्णुना तत्र चक्रं वै भ्रामितं क्रोधधारिणा ।
कृतान्तसदृशं मुक्तं शम्भोः सन्निधिमागतम् ॥ ७१ ॥
चक्रं तच्छङ्करं दृष्ट्वा तं नत्वा तत्र संस्थितम् ।
तेन क्रोधपरीताङ्गः शिवः शूलं समाददे ॥ ७२ ॥
शूलमुद्यम्य तं विष्णुं हन्तुं यावत्प्रवर्तते ।
तत्राकाशोद्भवा वाणी वारयामास शङ्करम् ॥ ७३ ॥
न हन्तव्यो हरिः शम्भो त्वया पाल्योऽयमप्युत ।
जहि कोपं महादेव शिवाय सततं नमः ॥ ७४ ॥
तत्राजगाम सहसा स्वयम्भूस्तं न्यषेधयत् ।
मा कुरुष्व वधं शम्भो विष्णोः संहारकारक ॥ ७५ ॥
नमः शिवाय शान्ताय शूलिने शम्भवे नमः ।
महादेवाय रुद्राय पशूनां पतये नमः ॥ ७६ ॥
संहाररूपी त्वं साक्षादकाले किं प्रवर्तसे ।
जहि कोपं महाबाहो नमस्ते परमेश्वर ॥ ७७ ॥
ब्रह्मणा संस्तुतो देवः प्रशान्तोऽभून्महामुने ।
तस्मिन्काले स्वयं विष्णुर्ब्रह्मणा ज्ञापितः प्रभुः ॥ ७८ ॥
शिवाय नमनं कृत्वा स्थितः संलज्जितो भृशम् ।
प्रोवाच मधुरं ब्रह्मा शङ्करं वृषभध्वजम् ॥ ७९ ॥
शान्त उर्वरितं यज्ञे हविर्द्रव्यं च यत्प्रभो ।
रुद्रभागः स विज्ञेयो गृहाण त्वं सदाशिव ॥ ८० ॥
विघ्नेशमायया भ्रान्ता दक्षाद्याः सततं शिव ।
मोहितानां विशेषेण द्रष्टव्यं न प्रचेष्टितम् ॥ ८१ ॥
अतस्त्वं कृपया देव प्रसन्नो भव शङ्कर ।
सर्वेभ्यः सुखदाता वै यज्ञं तं पुनरारभ ॥ ८२ ॥
देवानां च मुनीनां च स्त्रीणां दासादिजीविनाम् ।
यथापूर्वं स्थितं रूपं तादृशं कुरु शङ्कर ॥ ८३ ॥
भगः स नेत्रसंयुक्तः पूषा वै पिष्टभुक् कृतः ।
देवाश्च मुनयः सर्वे स्त्रियो दासादयस्तथा ॥ ८४ ॥
यथापूर्वं कृतास्तेन युक्ता रूपेण तेजसा ।
गतदुःखाश्च सर्वे ते ववन्दुः शङ्करं पुनः ॥ ८५ ॥
दक्षस्य मस्तकं तत्र दग्धं वै जातवेदसि ।
तज्ज्ञात्वा शङ्करो देवो भृङ्गिणं प्रत्युवाच ह ॥ ८६ ॥
गच्छ चानय तं हत्वा य आदौ दृश्यते त्वया ।
तस्य मस्तकमेतत्तु भवेद् दक्षस्य मस्तकम् ॥ ८७ ॥
तदा तेन पुरो दृष्टो ह्यजः परमशोभितः ।
तं हत्वा तच्छिरस्तत्र समानीतं च भृङ्गिणा ॥ ८८ ॥
तदेव योजयित्वा तमजीवयत शङ्करः ।
स सद्य उत्थितस्तत्र दक्षोऽजमुखतां गतः ॥ ८९ ॥
ब्रह्मणा प्रेरितो दक्षः पुनस्तुष्टाव शङ्करम् ।
गतमानो महाबाहुः भक्त्या सर्वेश्वरं ततः ॥ ९० ॥
[[१२]]
दक्ष उवाच ।
नमामि शङ्कर साक्षाद्यदाधारमिदं जगत् ।
कालरूपं यथाकालं बोधयामास तं शिवम् ॥ ९१ ॥
कालेन फलमूलानि जायन्तेऽन्नादिकानि च ।
शीतोष्णसमभावश्च सदा कालेन जायते ॥ ९२ ॥
सूर्यस्तपति कालेन ज्योतिषां गण एव च ।
कालेन जायते वृष्टिरनावृष्टिस्तथा विभो ॥ ९३ ॥
कालेन सृज्यते सृष्टिर्ब्रह्मणा वै पुनः पुनः ।
कालेन पालनं तत्र कुरुते विष्णुरव्ययः ॥ ९४ ॥
कालेन स्वेच्छया शम्भुः संहारं प्रकरोति च ।
यत्किञ्चिदिह तत्सर्वं कालाधीनं न संशयः ॥ ९५ ॥
स एव कालो भगवानीश्वरो ब्रह्मसञ्ज्ञितः ।
शिवः साक्षाच्च वेदेषु कथ्यते वेदवादिभिः ॥ ९६ ॥
क्षमस्व मेऽपराधं त्वं त्वन्मायागर्वितस्य च ।
यत्कृतं तद्दयासिन्धो नमस्ते परमेश्वर ॥ ९७ ॥
सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ।
सृष्टिकर्त्रे च संहर्त्रे पात्रे नानास्वरूपिणे ॥ ९८ ॥
अनन्तगुणराशिस्त्वं वर्णनीयं किमप्यहो ।
नान्तं ब्रह्मादयो जग्मुर्मादृशानां च का कथा ॥ ९९ ॥
नमो नमो ब्रह्ममयाय देवादये शिवायाथ च पूर्णमूर्ते ।
अनादिमध्यान्तविहीन भूम्ने नमो नमो भक्तभयापहन्त्रे ॥ १०० ॥
इत्येवं स्तुवतस्तत्र प्रेमगद्गदया गिरा ।
अजवत्तस्य सञ्जातं भाषणं लललल्ललम् ॥ १०१ ॥
तेन हृष्टो महादेवस्तं पुनर्नरमस्तकम् ।
भगवान् कारयामास यथापूर्वं मुनीश्वराः ॥ १०२ ॥
प्रोवाच मधुरं वाक्यं शिवस्तं सर्वसन्निधौ ।
प्रजापतिपतिर्दक्ष सर्वमान्यो भविष्यसि ॥ १०३ ॥
त्वया यद्रचितं स्तोत्रं मदीयं मत्प्रियं भवेत् ।
यस्तोष्यति प्रदास्यामि तस्मै काममनेन माम् ॥ १०४ ॥
इह भुक्त्वाऽखिलान्भोगानन्ते मल्लोकमाप्नुयात् ।
मम प्रीतिकरश्चासौ भविष्यति न संशयः ॥ १०५ ॥
त्वया यदजवद्वाक्यं कृतं मे खलु सन्निधौ ।
तद्वद्यो मत्समीपे वै करिष्यति नरः सकृत् ॥ १०६ ॥
तेन हृष्टो भविष्यामि वाञ्छितं पूरयामि च ।
एवं दत्त्वा वरं शम्भुस्तत्रैवान्तरधीयत ॥ १०७ ॥
सर्वे स्वस्वस्थलं जग्मुर्हर्षिता धर्षितास्तथा ।
दक्षश्च स्वगृहे विप्रा दुःखितः स्थितवान् स्वयम् ॥ १०८ ॥
तदादि शिवभक्ता ये ते कुर्वन्ति शिवालये ।
अजवन्निनदं तेन हृष्टो भवति शङ्करः ॥ १०९ ॥
इति सर्वं समाख्यातं दक्षशापादिकं च यत् ।
यज्ञभङ्गस्य हेतुं च पुनः किं श्रोतुमिच्छथ ॥ ११० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते दक्षचरितं नाम चतुर्थोऽध्यायः ॥
[[१३]]