०३ पार्वतीदेहत्यागः

॥ श्रीगणेशाय नमः ॥

सूत उवाच।

शृणुध्वं मुनयः सर्वे स्थिरीकृत्य मनश्चलम् ।
विघ्नेशभक्तिहीना ये विघ्नाक्रान्ता भवन्ति ते ॥ १ ॥

दक्षोऽभूत् स्वगृहं गत्वा क्रोधामर्षसमन्वितः ।
न किञ्चित् सुखवान् विप्राः शूलयुक्तो यथा नरः ॥ २ ॥

शिक्षां शिवस्य कर्तुं स हृदि व्यवसितोऽभवत् ।
न किञ्चित्प्राप्तवांस्तत्र विचारं भृशदुःखितः ॥ ३ ॥

एतस्मिन्नन्तरे तत्र नारदो दिव्यदर्शनः ।
आजगाम महातेजा दक्षेणैव सुसत्कृतः ॥ ४ ॥

आसनं पाद्यमर्घ्यं च दत्वा सम्यक् प्रपूजितः ।
पृष्टः स कुशलं प्रश्नैःप्रसन्नो नारदोऽब्रवीत् ॥ ५ ॥

नारद उवाच ।

दक्ष किं दुःखितस्त्वं ते मुखं म्लानतया युतम् ।
कथयस्व महातेजाः प्रजापतिपतिर्भवान् ॥ ६ ॥

दक्ष उवाच ।

शृणु नारद येनाहं दुःखितो म्लानतां गतः ।
शिवेनासत्कृतस्तत्र सभायां सर्वसन्निधौ ॥ ७ ॥

[[३]]

दर्पणैवावृतः शम्भुस्तस्य दर्पहृतिः कथम् ।
तादृशं ब्रूहि मे शीघ्रं सर्वार्थज्ञ विचक्षण ॥ ८ ॥

नारद उवाच ।

बृहस्पतिसवं दक्ष कुरु त्वं सर्वभावनः ।
यज्ञभागविहीनं तं तत्र शम्भुं कुरुष्व भोः ॥ ९ ॥

यज्ञभागेन हीनोऽयं देवपङ्क्तिबहिष्कृतः ।
पिशाचेशो भवेच्छम्भुर्देवत्वं तत्र संहृतम् ॥ १० ॥

प्रजापतिपतिः साक्षाद्भवान्सर्वत्र सम्मतः ।
करिष्यसि यथा पूर्वं पश्चाद्वै तादृशं भवेत् ॥ ११ ॥

एवं परम्पराप्राप्तं तस्यैश्वर्य प्रकाशितम् ।
इति मे मनसि प्राप्तं यथेच्छसि तथा कुरु ॥ १२ ॥

इत्युक्त्वा नारदस्तस्माद् गतो ब्रह्माण्डमण्डले ।
वीणागानरतो भूत्वा योगी ब्रह्मणि तत्परः ॥ १३ ॥

दक्षोऽपि हर्षितो जातः सत्यं मानितवानभूत् ।
बृहस्पतिसवं कर्तुं समारेभे स तत्क्षणात् ॥ १४ ॥

तत्राजगाम भगवान् विष्णुर्देववरः प्रभुः ।
आजग्मुर्देवगन्धर्वा नानावाहनशोभिताः ॥ १५ ॥

तत्राजग्मुर्द्विजाः सर्वे नानातत्त्वार्थकोविदाः ।
जामातरः सपत्नीकाः कश्यपप्रमुखास्तथा ॥ १६ ॥

यथोद्दिष्टं चकारासौ दक्षः परमहर्षितः ।
गणनाथविहीनं तं यज्ञं शङ्करवर्जितम् ॥ १७ ॥

गणेशस्यास्मृतिर्जाता सर्वेषां भाविगौरवात् ।
दधीचिप्रमुखास्तत्र शैवाः क्रोधेन पूरिताः ॥ १८ ॥

दधीचिस्तत्र तूवाच क्रोधावेशसमन्वितः ।
शृणु दक्ष महाप्राज्ञ हितं वचनमुत्तमम् ॥ १९ ॥

शङ्करेण विहीनोऽयं यज्ञो नैव प्रशोभते ।
प्राणहीनो यथा देहस्तथैवासौ न राजते ॥ २० ॥

इति श्रुत्वा वचस्तस्य दक्षो रोषसमन्वितः ।
उवाच गर्वमोहेन शापेनैव विमोहितः ॥ २१ ॥

शिवोऽशिवरूपश्च पिशाचानामधीश्वरः ।
वर्णाश्रमविहीनत्वान्न योग्यो यज्ञ कर्मणि ॥ २२ ॥

यत्र लक्ष्मीपतिः साक्षाद् भगवान्मङ्गलालयः ।
तत्र किं न्यूनतां याति मिथ्यावाचं तु मा वद ॥ २३ ॥

श्रुत्वा तस्य वचः क्रूरं दधीचिः पुनरब्रवीत् ।
शिवनिन्दां करोषि त्वमज्ञानेन विमोहितः ॥ २४ ॥

यज्ञनाशो भवेद् दक्ष शङ्करद्वेषतस्तव ।
न सिद्धिं लभसे त्वं तु नष्टभाग्यो न संशयः ॥ २५ ॥

अत्र ये ब्राह्मणाद्या वै वर्णा नाना समागताः ।
सर्वे कलियुगे पापाः पाखण्डाश्च भवन्तु ते ॥ २६ ॥

स्वधर्महीनतां प्राप्य नरकेऽन्ते पचन्तु वै ।
विष्णुः प्रमोदयुक्तोऽत्र स वै पाखण्ड कारकः ॥ २७ ॥

कलौ देवो भवेन्नित्यं पाखण्डानां सहायवान् ।
पाखण्डप्रियवज्जन्तुः कलौ मलकरः सदा ॥ २८ ॥

शिवहीने तथा यज्ञे मुख्यो जातो हि केशवः ।
वेदबाह्यं स्वयं कर्म कुरुते तेन शापितः ॥ २९ ॥

सर्वे देवाश्च शीघ्रं हि भवितारः पराजिताः ।
मुनयो दुःखसंयुक्ता एवं शप्त्वा गतो मुनिः ॥ ३० ॥

तमनुप्रययुः सर्वे शैवाः परमधार्मिकाः ।
गौतमो गालवश्चैव वामदेवो द्वितस्त्रितः ॥ ३१ ॥

मार्कण्डेयो ह्यगस्त्याद्याः क्रोधयुक्ता महर्षयः ।
यज्ञोऽयं नावलोक्यो वै वेदबाह्यक्रियात्मकः ॥ ३२ ॥

[[७]]

विष्णुनान्ये ततः सर्वे सान्त्विताः संस्थिताः पदे ।
देवता मुनयो वर्णा द्रष्टुं यज्ञं प्रहर्षिताः ॥ ३३ ॥

भृग्वादिमुनिभिस्तत्र यज्ञारम्भः कृतोऽभवत् ।
यथाविधि यथाभागं देवास्तत्राश्रिता मखे ॥ ३४ ॥

दक्षो हृष्टोऽभवत् तत्र यजमानः सुमन्दधीः ।
वेदकल्पानुसारेण मुनयस्तन्विरे मखम् ॥ ३५ ॥

एतस्मिन्नन्तरे तत्र कैलासे नारदो गतः ।
शिवया सह शम्भुं च प्रणतोऽभूत्स भाविकः ॥ ३६ ॥

सतीं प्रति प्रहस्याह नारदः कलहप्रियः ।
देवि दक्षाध्वरे कस्माद् गमनं न कृतं त्वया ॥ ३७ ॥

हृष्टपुष्टजनाः सर्वे महोत्सवसुमोदिताः ।
भगिन्यस्तत्र ते रेजुः पतिभिः सह मोदिताः ॥ ३८ ॥

पितृभर्तृगृहे स्त्रीणां मानामानं न विद्यते ।
इत्युक्त्वा नारदस्तस्मात्प्रययौ कौतुकी मुनिः ॥ ३९ ॥

गते मुनौ सती तत्र मानसे दुःखिता भृशम् ।
शङ्करं प्रणिपत्याह हृदयेन विदूयता ॥ ४० ॥

नीलकण्ठ नमस्तुभ्यं शङ्कराय शिवाय च ।
सगुणाय मृडायैव निर्गुणाय नमो नमः ॥ ४१ ॥

गन्तुमिच्छा त्वया सार्धमस्ति मे दक्षमन्दिरे ।
तत्र यज्ञोत्सवो नाथ प्रसीद प्रार्थये विभो ॥ ४२ ॥

एवं श्रुत्वा भारतीं तां सती शम्भुः सुबोधयन् ।
स्मयमानश्च तामूचे किमिदं भाषसे प्रिये ॥ ४३ ॥

मद्द्वेषी जनको दक्षस्तव तेन निमन्त्रितः ।
नाहं तस्मान्न गन्तव्यं विपरीतं भविष्यति ॥ ४४ ॥

भवती च महामाया मायिकोऽहं न संशयः ।
सृज त्वं मुनिदेवादीनत्र यज्ञं करोम्यहम् ॥ ४५ ॥

श्रुत्वा शम्भुवचो रम्यं हृदयेन विदूयता ।
उवाच दुःखिता देवी ममाज्ञां देहि शङ्कर ॥ ४६ ॥

न किञ्चिदुक्तवान् शम्भुस्तदा देवी पितुर्गृहे ।
न प्रयोजनमाज्ञाया विचार्यैवं जगाम च ॥ ४७ ॥

एतज्ज्ञात्वा महाऽऽश्चर्यं विस्मितेन शिवेन च ।
भावि यद्भविता तद्वै विमानं प्रेषितं वरम् ॥ ४८ ॥

विमानमास्थाय शक्तिराजगाम विहायसा ।
पितुर्गृहं महाभागा मानिता सर्वबन्धुभिः ॥ ४९ ॥

मात्रा पित्रा स्वसृभिस्तु सत्कृता हर्षितात्मभिः ।
दक्षस्तत्र प्रमोदेन जगाद तनयां प्रति ॥ ५० ॥

आगता त्वं महाभागे यज्ञोऽयं शोभितस्त्वया ।
श्रुत्वा पितृवचो रम्यं तं सा प्रोवाच दुःखिता ॥ ५१ ॥

सत्युवाच ।
शोभयामि कथं यज्ञं नाहूता भवतात्र भोः ।
अनाहूताऽगता चाहं त्वदीये यजनालये ॥ ५२ ॥

ततः स कुपितो दक्ष उवाच शृणु पुत्रिके ।
मदीयो बहुलो दोषस्तेन त्वां दत्तवान्भ्रमात् ॥ ५३ ॥

पिशाचभूतराजाय पित्रा मे कथितं कृतम् ।
वर्णाश्रमविहीनाय वृथेश्वरपदाय च ॥ ५४ ॥

तस्य दोषेण देवि त्वं नाहूता यज्ञकर्मणि ।
स्वागतं ते तथाप्यद्य तिष्ठ त्वं मत्समीपगा ॥ ५५ ॥

सूत उवाच ।

पितुर्वचनमाकर्ण्य शिवनिन्दायुतं महत् ।
क्रोधसन्तप्तगात्रा सा पश्यन्ती यज्ञमन्दिरम् ॥ ५६ ॥

अरुद्रभागसंयुक्तं यज्ञं दृष्ट्वा चुकोप ह ।
उवाच किं कृतं तात वेदबाह्यक्रियात्मकः ॥ ५७ ॥

रुद्रभागविहीनोऽयं यज्ञो नैव फलप्रदः ।
शिवनिन्दां करोषि त्वं ह्यशिवोऽसि न संशयः ॥ ५८ ॥

[[८]]

शिवेति द्व्यक्षरं ब्रह्म निगुर्णं गुणधारणम् ।
न जानासि यतस्त्वं भोस्तेनाहं दुःखिता भृशम् ॥ ५९ ॥

तव देहात समुद्भूतो मम देहस्त्वयं पितः ।
न योग्यः शिवनिन्दायाः कारणात् तं त्यजाम्यहम् ॥ ६० ॥

इत्युक्त्वा सा हृदि ध्याने नीत्वा तं शङ्करं प्रभुम् ।
योगाग्निना समुज्ज्वाल्य देहं धाम्नि गताऽभवत् ॥ ६१ ॥

पुनः स्वमायया देवी हिमाचलसुताऽभवत् ।
शिवध्यानपरा साक्षात्तं लेभे सा पुनः पतिम् ॥ ६२ ॥

तपस्तप्तं सुतीव्रं यत्तेन चात्मवशेन सा ।
लेभे मुदं शिवेनापि पार्वती प्रेमविह्वला ॥ ६३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते पार्वतीदेहत्यागो नाम तृतीयोऽध्यायः ॥