॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
दक्षेण मुनिशार्दूलाः श्रुतं मुद्गलभाषितम् ।
प्रणिपत्य पुनः सोऽपि पप्रच्छ हितकारकम् ॥ १ ॥
शौनक उवाच ।
दक्षमुद्गलसंवादं श्रोतुमिच्छामहे वयम् ।
विस्तरेण समाचक्ष्व सूत सन्तोषकारक ॥ २ ॥
सूत उवाच ।
शृणुध्वं मुनयः सर्वे कथां लोकैकपावनीम् ।
यां श्रुत्वा पुरुषस्येह नान्यत्कृत्यं प्रविद्यते ॥ ३ ॥
दक्षमुद्गलसंवादं समासेन विवर्णये ।
सारं सर्वत्र सम्पूर्णं भवरोगविमोचनम् ॥ ४ ॥
मुद्गलोक्तं वचः श्रुत्वा दक्षः प्रोवाच धर्मवित् ।
प्राञ्जलिः प्रयतो भूत्वा हृष्टरोमा महायशाः ॥ ५ ॥
दक्ष उवाच ।
पुण्यं महन्मेऽस्ति पुरातनं यत्तेनैव जातं तव दर्शनं भोः ।
मोक्षप्रदं तत्परलोकदं च भोगप्रदं धर्म्यमनन्तपुण्यम् ॥ ६ ॥
शापेन नष्टो मम सर्वबोधः प्रजापतित्वं प्रगतं मदीयम् ।
यज्ञस्य भङ्गो विविधं हि कष्टं तत्रैव ते दर्शनमत्र चित्रम् ॥ ७ ॥
[[४]]
तव दर्शनमात्रेण किञ्चित् स्फूर्तिः समागता ।
धन्योऽसि योगिनां मध्ये पूतत्वं त्वीदृशं त्वयि ॥ ८ ॥
कोऽसौ विघ्नपतिः पूर्णः कीदृशः किंस्वभाववान् ।
कति तस्यावताराश्च कस्यांशो वाऽपि किंस्तवः ॥ ९ ॥
पूजितो विधिवत्कैश्च किं फलं दत्तवान् परम् ।
किंविहारश्च कस्मिन्वै लोके वसति स प्रभुः ॥ १० ॥
एतत्सर्वं सुविस्तार्य पृच्छते ब्रूहि सादरम् ।
ज्ञात्वा तं देवदेवेशं भविष्यामि हितावहम् ॥ ११ ॥
इत्येवं कथयन्तं तं मुनयो विस्मयान्विताः ।
पप्रच्छुः सकलं तद्वै दक्षचेष्टितमादरात् ॥ १२ ॥
शौनकाद्या ऊचुः ।
दक्षः प्रजापतिः साक्षात्कथं मूढत्वमागतः ।
प्रजापतित्वं तस्यापि कथं नष्टं महात्मनः ॥ १३ ॥
यज्ञध्वंसः कथं प्राप्तः शम्भुः प्रकुपितः कथम् ।
एतत्सर्वं सुविस्तार्य ब्रूहि सूत महामते ॥ १४ ॥
श्रुत्वा मुनिवचो रम्यं कृष्णद्वैपायनस्य च ।
शिष्यः प्रोवाच मधुरं वचनं सम्प्रहर्षयन् ॥ १५ ॥
सूत उवाच ।
शृणु शौनक यत्नेन कथां भुवनपावनीम् ।
कथयामि यथातथ्यं श्रुतां व्यासमुखेन याम् ॥ १६ ॥
ब्रह्मणो दश पुत्रा ये तत्र दक्षो महान्प्रभुः ।
अतः प्रजापतिस्त्राता कृतस्तेन स वेधसा ॥ १७ ॥
स राज्यं प्राप्य मत्तोऽभूद् गर्वेणैव परिप्लुतः ।
अहं प्रजापतीनां च श्रेष्ठो राजा न मत्समः ॥ १८ ॥
एकदा गिरिवर्ये तु कैलासे शङ्करस्य च ।
दर्शनार्थं गता देवा मुनयः सिद्धकिन्नराः ॥ १९ ॥
गन्धर्वा नागमुख्याश्च विद्याधर्यप्सरोगणाः ।
ब्रह्मा विष्णुर्महेन्द्रश्च सर्वे तेन सुसत्कृताः ॥ २० ॥
सभामध्ये समासीनाः शङ्करेण च पूजिताः ।
वामभागे स्थितो विष्णुदक्षिणाङ्गे पितामहः ॥ २१ ॥
क्रमेण सर्वे देवाश्च यथायोग्यं स्थिता मुने ।
गणा नन्दिमुखास्तत्र समीपे संस्थिता बभुः ॥ २२ ॥
तत्र ते मुनयो हृष्टा वसिष्ठाद्याः प्रतुष्टुवुः ।
नारदप्रमुखाः सर्वे गन्धर्वा ललितं जगुः ॥ २३ ॥
नृत्यमप्सरसश्चक्रुरेवं सर्वे पुपूजिरे ।
शङ्करं परिवाराढ्यमानन्दन समन्वितम् ॥ २४ ॥
कथा नानाविधास्तत्र तेऽकुर्वन् भावपूर्वकम् ।
तत्राजगाम दक्षः स प्रजापतिपतिः स्वयम् ॥ २५ ॥
शिवेन मानितस्तत्र वचसा चैव सत्कृतः ।
नमनं न कृतं तस्मा ईश्वरेण प्रभावतः ॥ २६ ॥
तेन सङ्कुपितोऽत्यन्तमृचिवान् गर्वमोहितः ।
शृणुध्वं ये सभाश्रेष्ठा याथातथ्यानुवर्तिनः ॥ २७ ॥
रुद्रस्य श्वशुरोऽहं वै पुत्रतुल्यो ममाप्ययम् ।
नमनं न कृतं कस्मात् तस्मात्त्याज्यो महेश्वरः ॥ २८ ॥
ऐश्वर्यगर्वयुक्तोऽयं स्वधर्मन्यूनतां गतः ।
देवपङ्क्तो कथं योग्यः पिशाचानामधीश्वरः ॥ २९ ॥
वर्णाश्रमविहीनोऽयं नग्नो भिक्षाशने रतः ।
सर्पभूषणसक्तश्च चिताभस्माङ्गलेपनः ॥ ३० ॥
व्याघ्राजिनपरीतश्च मुण्डमालाधरः सदा ।
इत्यादिदोषयुक्तत्वान्न स्पृश्योऽयं महात्मभिः ॥ ३१ ॥
अशिवः शिवनामा वै वृथेशित्वाभिमानवान् ।
अतो न भाषणीयोऽयं दोषकारी पिशाचराट् ॥ ३२ ॥
इति ब्रुवन्तमत्यन्तं स्वयम्भूस्तं निराकरोत् ।
न गृहीतं पितुर्वाक्यं क्रोधावेशेन तेन तत् ॥ ३३ ॥
[[५]]
नानानिन्दायुतं वीक्ष्य भगवान्नन्दिकेश्वरः ।
उवाच सर्वसान्निध्ये क्रोधेनारक्तलोचनः ॥ ३४ ॥
नन्दिकेश्वर उवाच ।
धिक्त्वां व्यर्थं प्रजापाल शिवनिन्दापरायण ।
शिवतत्त्वं न जानासि मदेनासिक्त दुर्मते ॥ ३५ ॥
मायाखेलनवानेष तथा तद्दोषवर्जितः ।
तेनायं शिवतां प्राप्तः कथं निन्दा करोषि रे ॥ ३६ ॥
शिवनिन्दाकराः शास्त्रे नारका ज्ञानवर्जिताः ।
अतस्त्वं ज्ञानहीनस्तु भवितास्यपवाक्यतः ॥ ३७ ॥
निन्दा येनैव वक्त्रेण कृता शम्भोर्महात्मनः ।
अजास्यो भवितासि त्वं भ्रष्टराज्यो भविष्यसि ॥ ३८ ॥
इति श्रुत्वा वचः सोऽपि तं पुनः प्रत्युवाच ह ।
न त्वं जानासि दुर्बुद्धे शङ्करं कर्मदूषितम् ॥ ३९ ॥
वर्णाश्रमविहीनश्च यस्तिष्ठेत्पुरुषः कदा ।
पदे पदे महापापो नारकी मरणे भवेत् ॥ ४० ॥
तस्माद्यूयं महापापाः शैवाः स्पृश्या न कुत्रचित् ।
भुवि ये शाङ्करा नित्यं ज्ञानहीना भवन्तु ते ॥ ४१ ॥
कलौ प्राप्ते च पाखण्डा भविष्यन्ति जटाधराः ।
शूद्रा नेदं पठिष्यन्ति नग्ना भस्माङ्गलेपनाः ॥ ४२ ॥
स्त्रीमांसमदिरासक्ता नानाभोगकरास्तथा ।
नरके वै पतिष्यन्ति शम्भुमार्गपरायणाः ॥ ४३ ॥
प्रजापतिं प्रभुः साक्षाद् ब्रह्मा तं निरभत्सर्यत् ।
ततो जगाम स्वगृहं दक्षः क्रोधपरिप्लुतः ॥ ४४ ॥
सर्वे ते स्वस्थलं जग्मुदुःखितास्तेन वै कृताः ।
शिवोऽपि दुःखसंयुक्तो म्लानतां परमां गतः ॥ ४५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेप्रथमे खण्डे वक्रतुण्डचरिते दक्षनन्दिविवादो नाम द्वितीयोऽध्यायः ॥