१३ श्रीविन्ध्येश्वरीस्तोत्रम्

विश्वास-प्रस्तुतिः

निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डिनीं
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम्।
त्रिशूलमुण्डधारिणीं धराविघातहारिणीं
गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम्॥
दरिद्रदुःखहारिणीं सदा विभूतिकारिणीं
वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम्।
लसत्सुलोललोचनं लतासदम्बरप्रदां
कपालशूलधारिणीं भजामि विन्ध्यवासिनीम्॥
कराब्जदानदाधरां शिवाशिवां प्रदायिनीं
वरावराननां शुभां भजामि विन्ध्यवासिनीम्।
ऋषीन्द्रजामिनीप्रदं त्रिधा स्वरूपधारिणीं
जले थले निवासिनीं भजामि विन्ध्यवासिनीम्॥
विशिष्टसृष्टिकारिणीं विशालरूपधारिणीं
महोदरे विशालिनीं भजामि विन्ध्यवासिनीम्।
पुरन्दरादिसेवितां मुरादिवंशखंडिनीं
विशुद्धबुद्धिकारिणीं भजामि विन्ध्यवासिनीम्॥

मूलम्