०१० मालानुतिः

ऐं ह्रीं अक्षमालायै नमः ।

महामाये महामाले
सर्वशक्तिस्वरूपिणि।
चतुर्वर्गस्त्वयि न्यस्तस्
तस्मान्मे सिद्धिदा भव ॥ १॥

अविघ्नं कुरु माले ! त्वं
गृह्णामि दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं
प्रसीद मम सिद्धये ॥ २॥

गुह्यातिगुह्यगोप्त्री त्वं
गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि !
त्वत्प्रासादात् सुरेश्वरि ॥