+गोरक्षपुर-पाठः

Misc Detail

॥ श्रीदुर्गायैनमः॥
श्रीदुर्गासप्तशती
हिन्दी अनुवाद तथा पाठ विधि सहित

अनुवादक—पाण्डेय पं० श्रीरामनारायणदत्तजी शास्त्री ‘राम’

विश्वास-प्रस्तुतिः

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम्॥

मूलम्

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम्॥