अशीतितमोऽध्यायः ८०
क्रौष्टुकिरुवाच
स्वायम्भुवाद्याः कथिताः सप्तैते मनवो मम ।
तदन्तरेषु ये देवा राजानो मुनयस्तथा ॥ ८०.१ ॥
अस्मिन् कल्पे सप्त येऽन्ये भविष्यन्ति महामुने ।
मनवस्तान् समाचक्ष्व ये च देवादयश्च ये ॥ ८०.२ ॥
मार्कण्डेय उवाच
कथितस्तव सावर्णिश्छायासञ्ज्ञासुतश्च यः ।
पूर्वजस्य मनोस्तुल्यः स मनुर्भविताष्टमः ॥ ८०.३ ॥
रामो व्यासो गालवश्च दीप्तिमान् कृप एव च ।
ऋष्यशृङ्गस्तथा द्रोणस्तत्र सप्तर्षयोऽभवन् ॥ ८०.४ ॥
सुतपाश्चामिताभाश्च मुख्याश्चैव त्रिधा सुराः ।
विंशकः कथिताश्चैषां त्रयाणां त्रिगुणो गणः ॥ ८०.५ ॥
तपस्तप्तश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ।
प्रभासो दयितो धर्मस्तेजोरश्मिश्चिरक्रतुः ॥ ८०.६ ॥
इत्यादिकस्तु सुतपा देवानां विंशको गणः ।
प्रभुर्विभुर्विभासाद्यस्तथान्यो विंशको गणः ॥ ८०.७ ॥
सुराणाममिताभानां तृतीयमपि मे शृणु ।
दमो दान्तो ऋतः सोमो वित्ताद्याश्चैव विंशतिः ॥ ८०.८ ॥
मुख्या ह्येते समाख्याता देवा मन्वन्तराधिपाः ।
मारीचस्यैव ते पुत्राः कश्यपस्य प्रजापतेः ॥ ८०.९ ॥
भविष्याश्च भविष्यन्ति सावर्णस्यान्तरे मनोः ।
तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने ॥ ८०.१० ॥
पाताल आस्ते योऽद्यापि दैत्यः समयबन्धनः ।
विरजाश्चार्ववीरश्च निर्मोहः सत्यवाक्कृतिः ।
विष्ण्वाद्याश्चैव तनयाः सावर्णस्य मनोर्नृपाः ॥ ८०.११ ॥
इति श्रीमार्कण्डेयपुराणेऽशीतितमोऽध्यायः