अष्टसप्ततितमोऽध्यायः ७८
मार्कण्डेय उवाच
ततस्तं तुष्टुवुर्देवास्तथा देवर्षयो रविम् ।
वाग्भिरोड्यमशेषस्य त्रैलोक्यस्य समागताः ॥ ७८.१ ॥
देवा ऊचुः
नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः ।
यजुः स्वरूपरूपाय साम्नान्धामवते नमः ॥ ७८.२ ॥
ज्ञानैकधामभूताय निर्धूततमसे नमः ।
शुद्धज्योतिः स्वरूपाय विशुद्धायामलात्मने ॥ ७८.३ ॥
वरिष्ठाय वरेण्याय परस्मै परमात्मने ।
नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये ॥ ७८.४ ॥
इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः ।
शिष्यो भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि ॥ ७८.५ ॥
न शून्यभूतैः श्रोतव्यमेतत्तु सफलं भवेत् ।
सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम् ॥ ७८.६ ॥
नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे ।
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥ ७८.७ ॥
शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः ।
त्वं सर्वमेतद्भगवन् जगदुद्भ्रमता त्वया ॥ ७८.८ ॥
भ्रमत्याविद्धमखिलं ब्रह्माण्डं सचराचरम् ।
त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि ॥ ७८.९ ॥
क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता ।
होमदानादिको धर्मो नोपकाराय जायते ॥ ७८.१० ॥
तावद्यावन्न संयोगि जगदेतत्त्वदंशुभिः ।
ऋचस्ते सकला ह्येता यजूंष्येतानि चान्यतः ॥ ७८.११ ॥
सकलानि च सामानि निपतन्ति त्वदड्गतः ।
ऋङ्मयस्त्वं जगन्नाथ ! त्वमेव च यजुर्मयः ॥ ७८.१२ ॥
यतः साममयश्चैव ततो नाथ ! त्रयीमयः ।
त्वमेव ब्रह्मणो रूपं परञ्चापरमेव च ॥ ७८.१३ ॥
मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः ।
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।
प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु ॥ ७८.१४ ॥
मार्कण्डेय उवाच
एवं संस्तूयमानस्तु देवैर्देवर्षिभिस्तथा ।
मुमोच स्वं तदा तेजस्तेजसां राशिरव्ययः ॥ ७८.१५ ॥
यत्तस्य ऋङ्मयं तेजो भविता तेन मेदिनी ।
यजुर्मयेनापि दिवं स्वर्गः साममयं रवेः ॥ ७८.१६ ॥
शातितास्तेजसो भागा ये त्वष्ट्रा दश पञ्च च ।
त्वष्ट्रैव तेन शर्वस्य कृतं शूलं महात्मना ॥ ७८.१७ ॥
चक्रं विष्णोर्वसूनाञ्च शङ्कवोऽथ सुदारुणाः ।
पावकस्य तथा शक्तिः शिबिका धनदस्य च ॥ ७८.१८ ॥
अन्येषामसुरारीणामस्त्राण्युग्राणि यानि वै ।
यक्षविद्याधराणाञ्च तानि चक्रे स विश्वकृत् ॥ ७८.१९ ॥
ततश्च षोडशं भागं बिभर्ति भगवान् विभुः ।
तत्तेजः पञ्चदशधा शातितं विश्वकर्मणा ॥ ७८.२० ॥
ततोऽश्वरूपधृग्भानुरुत्तरानगमत्कुरून् ।
तदृशे तत्र सञ्ज्ञाञ्च वडवारूपधारिणीम् ॥ ७८.२१ ॥
सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया ।
जगाम सम्मुखं तस्य पृष्ठरक्षणतत्परा ॥ ७८.२२ ॥
ततश्च नासिकायोगं तयोस्तत्र समेतयोः ।
नासत्यदस्त्रौ तनयावश्वीवक्त्रविनिर्गतौ ॥ ७८.२३ ॥
रेतसोऽन्ते च रेवन्तः खड्गी चर्मो तनुत्रधृक् ।
अश्वारूढः समुद्भूतो बाणतूणसमन्वितः ॥ ७८.२४ ॥
ततः स्वरूपमतुलं दर्शयामास भानुमान् ।
तस्यैषा च समालोक्य स्वरूपं मुदमाददे ॥ ७८.२५ ॥
स्वरूपधारिणीञ्चैमामानिनाय निजाश्रयम् ।
सञ्ज्ञां भार्यां प्रीतिमतीं भास्करो वारितस्करः ॥ ७८.२६ ॥
ततः पूर्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ।
द्वितीयश्च यमः शापाद्धर्मदृष्टिरभूत्सुतः ॥ ७८.२७ ॥
कृमयो मांसमादाय पादतोऽस्य महीतले ।
पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ॥ ७८.२८ ॥
धर्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते ।
ततो नियोगं तं याम्ये चकार तिमिरापहः ॥ ७८.२९ ॥
यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी ।
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना ॥ ७८.३० ॥
गुह्यकाधिपतित्वे च रेवन्तोऽपि नियोजितः ।
च्छायासञ्ज्ञासुतानाञ्च नियोगः श्रुयतां मम ॥ ७८.३१ ॥
पूर्वजस्य मनोस्तुल्यश्छायासञ्ज्ञासुतोऽग्रजः ।
ततः सावर्णिकीं सञ्ज्ञामवाप तनयो रवेः ॥ ७८.३२ ॥
भविष्यति मनुः सोऽपि बलिरिन्द्रो यदा तदा ।
शनैश्चरो ग्रहाणाञ्च मध्ये पित्रा नियोजितः ॥ ७८.३३ ॥
तयोस्तृतीया या कन्या तपती नाम सा कुरुम् ।
नृपात्संवरणात्पुत्रमवाप मनुजेश्वरम् ॥ ७८.३४ ॥
तस्य वैवस्वतस्याहं मनोः सप्तममन्तरम् ।
कथयामि सुतान् भूपानृषीन् देवान् सुराधिपम् ॥ ७८.३५ ॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतोत्पत्तिर्नामाष्टसप्ततितमोऽध्यायः