७६

षट्सप्ततितमोऽध्यायः ७६

मार्कण्डेय उवाच

इत्येतत्कथितं तुभ्यं पञ्च मन्वन्तरं तव ।
चाक्षुषस्य मनोः षष्ठं श्रूयतामिदमन्तरम् ॥ ७६.१ ॥
अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।
चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज ॥ ७६.२ ॥
जातं माता निजोत्सङ्गे स्थितमुल्लाप्य तं पुनः ।
परिष्वजति हार्देन पुनरुल्लापयत्यथ ॥ ७६.३ ॥
जातिस्मरः स जातो वै मातुरुत्सङ्गमास्थितः ।
जहास तं तदा माता सङ्क्रुद्धा वाक्यमब्रवीत् ॥ ७६.४ ॥
भीतास्मि किमिदं वत्स ! हासो यद्वदने तव ।
अकालबोधः सञ्जातः कच्चित्पश्यसि शोभनम् ॥ ७६.५ ॥

पुत्र उवाच

मामत्तुमिच्छति पुरो मार्जारी किम न पश्यसि ।
अन्तर्धानगता चेयं द्वितीया जातहारिणी ॥ ७६.६ ॥
पुत्रप्रीत्या च भवती सहार्दा मामवेक्षती ।
उल्लाप्योल्लाप्य बहुशः परिष्वजति मां यतः ॥ ७६.७ ॥
उद्भूतपुलका स्नेहसम्भवास्त्राविलेक्षणा ।
ततो ममागतो हासः शृणु चाप्यत्र कारणम् ॥ ७६.८ ॥
स्वार्थे प्रसक्ता मार्जारी प्रसक्तं मामवेक्षते ।
तथान्तर्धानगा चैव द्वितीया जातहारिणी ॥ ७६.९ ॥
स्वार्थाय स्निग्धहृदया यथैवैते ममोपरि ।
प्रवृत्ते स्वार्थमास्थाय तथैव प्रतिभासि मे ॥ ७६.१० ॥
किन्तु मदुपभोगाय मार्जारी जातहारिणी ।
त्वन्तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि ॥ ७६.११ ॥
न मां जानासि कोऽप्येष न चैवापकृतं मया ।
सङ्गतं नातिकालीनं पञ्चसप्तदिनात्मकम् ॥ ७६.१२ ॥
तथापि स्त्रिह्यसे सास्त्रा परिष्वजसि चाप्यति ।
तातेति वत्स ! भद्रेति निर्व्यलीकं ब्रवीषि माम् ॥ ७६.१३ ॥

मातोवाच

न त्वाहमुपकारार्थं वत्स ! प्रीत्या परिष्वजे ।
न चेदेतद्भवत्प्रीत्यै परित्यक्तास्म्यहं त्वया ॥ ७६.१४ ॥
स्वार्थो मया परित्यक्तो यस्त्वत्तो मे भविष्यति ।
इत्युक्त्वा सा तमुत्सृज्य निष्क्रान्ता सूतिकागृहात् ॥ ७६.१५ ॥
जडाङ्गबाह्यकरणं शुद्धान्तः करणात्मकम् ।
जहार तं परित्यक्तं सा तदा जातहारिणी ॥ ७६.१६ ॥
सा हृत्वा तं तदा बालं विक्रान्तस्य महीभृतः ।
प्रसूतपत्नीशयने न्यस्य तस्याददे सुतम् ॥ ७६.१७ ॥
तमप्यन्यगृहे नीत्वा गृहीत्वा तस्य चात्मजम् ।
तृतीयं भक्षयामास सा क्रमाज्जातहारिणी ॥ ७६.१८ ॥
हृत्वा हृत्वा तृतीयन्तु भक्षयत्यतिनिर्घृणा ।
करोत्यनुदिनं सा नु परिवर्तन्तथान्ययोः ॥ ७६.१९ ॥
विक्रान्तोऽपि ततस्तस्य सुतस्यैव महीपतिः ।
कारयामास संस्कारान् राजन्यस्य भवन्ति ये ॥ ७६.२० ॥
आनन्देति च नामास्य पिता चक्रे विधानतः ।
मुदा परमया युक्तो विक्रान्तः स नराधिपः ॥ ७६.२१ ॥
कृतोपनयनं तन्तु गुरुराह कुमारकम् ।
जनन्याः प्रागुपस्थानं क्रियताञ्चाभिवादनम् ॥ ७६.२२ ॥
स गुरोस्तद्वचः श्रुत्वा विहस्यैवमथाब्रवीत् ।
वन्द्या मे कतमा माता जननी पालनी नु किम् ॥ ७६.२३ ॥

गुरुरुवाच

न त्वियं ते महाभाग ! जनयित्री रुथात्मजा ।
विक्रान्तस्याग्रमहिषी हैमिनी नाम नामतः ॥ ७६.२४ ॥

आनन्द उवाच

इयं जनित्री चैत्रस्य विशालग्रमवासिनः ।
विप्राग्र्यबोधपुत्रस्य योऽस्यां जातोऽन्यतो वचम् ॥ ७६.२५ ॥

गुरुरुवाच

कुतस्त्वं कथयानन्द ! चैत्रः को वा त्वयोच्यते ।
सङ्कटं महदाभाति क्व जातोऽत्र ब्रवीषि किम् ॥ ७६.२६ ॥

आनन्द उवाच

जातोऽहमवनीन्द्रस्य क्षत्रियस्य गृहे द्विज ।
तत्पत्न्यां गिरिभद्रायामाददे जातहारिणी ॥ ७६.२७ ॥
तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा ।
बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः ॥ ७६.२८ ॥
भक्षयामास च सुतं तस्य बोधद्विजन्मनः ।
स तत्र द्विजसंस्कारैः संस्कृतो हैमिनीसुतः ॥ ७६.२९ ॥
वयमत्र महाभाग ! संस्कृता गुरुणा त्वया ।
मया तव वचः कार्यमुपैमि कतमां गुरो ॥ ७६.३० ॥

गुरुरुवाच

अतीव गहनं वत्स ! सङ्कटं महदागतम् ।
न वेद्मि किञ्चिन्मोहेन भ्रमन्तीव हि बुद्धयः ॥ ७६.३१ ॥

आनन्द उवाच

मोहस्यावसरः कोऽत्र जगत्येवं व्यवस्थिते ।
कः कस्य पुत्रो विप्रर्षे ! को वा कस्य नु बान्धवः ॥ ७६.३२ ॥
आरभ्य जन्मनो नॄणां सम्बन्धित्वमुपैति यः ।
अन्ये सम्बन्धिनो विप्र ! मृत्युना सन्निवर्तिताः ॥ ७६.३३ ॥
अत्रापि जातस्य सतः सम्बन्धोयोऽस्य बान्धवैः ।
सोऽप्यस्तङ्गते देहे प्रयात्येषोऽखिलक्रमः ॥ ७६.३४ ॥
अतो ब्रवीमि संसारे वसतः को न बान्धवः ।
को वापि सततं बन्धुः किं वो विभ्राम्यते मतिः ॥ ७६.३५ ॥
पितृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि ।
मातृद्वयञ्च किञ्चित्रं यदन्यद्देहसम्भवे ॥ ७६.३६ ॥
सोऽहं तपः करिष्यामि त्वया यो ह्यस्य भूपतेः ।
विशालग्रामतः पुत्रश्चैत्र आनीयतामिह ॥ ७६.३७ ॥

मार्कण्डेय उवाच

ततः स विस्मितो राजा सभार्यः सह बन्धुभिः ।
तस्मान्निवर्त्य ममतामनुमेने वनाय तम् ॥ ७६.३८ ॥
चैत्रमानीय तनयं राज्ययोग्यं चकार सः ।
सम्मान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः ॥ ७६.३९ ॥
सोऽप्यानन्दस्तपस्तेपे बाल एव महावने ।
कर्मणां क्षुपणार्थाय विमुक्तेः परिपन्थिनाम् ॥ ७६.४० ॥
तपस्यन्तं ततस्तञ्च प्राह देवः प्रजापतिः ।
किमर्थं तप्यसे वत्स ! तपस्तीव्रं वदस्व तत् ॥ ७६.४१ ॥

आनन्द उवाच

आत्मनः शुद्धिकामोऽहं करोमि भगवंस्तपः ।
बन्धाय मम कर्माणि यानि तत्क्षपणोन्मुखः ॥ ७६.४२ ॥

ब्रह्मोवाच

क्षीणाधिकारो भवति मुक्तियोग्यो न कर्मवान् ।
सत्त्वाधिकारवान्मुक्तिमवाप्स्यति ततो भवान् ॥ ७६.४३ ॥
भवता मनुना भाव्यं षष्ठेन व्रज तत्कुरु ।
अलन्ते तपसा तस्मिन् कृते मुक्तिमवाप्स्यसि ॥ ७६.४४ ॥

मार्कण्डेय उवाच

इत्युक्तो ब्रह्मणा सोऽपि तथेत्युक्त्वा महामतिः ।
तत्कर्माभिमुखो यातस्तपसो विरराम ह ॥ ७६.४५ ॥
चाक्षुषेत्याह तं ब्रह्मा तपसो विनिवर्तयन् ।
पूर्वनाम्ना बभूवाथ प्रख्यातश्चाक्षुषो मनुः ॥ ७६.४६ ॥
उपयेमे विदर्भां स सुतामुग्रस्य भूभृतः ।
तस्याञ्चोत्पादयामास पुत्रान् प्रख्यातविक्रमान् ॥ ७६.४७ ॥
तस्य मन्वन्तरेशस्य येऽन्तरे त्रिदशा द्विज ।
ये चर्षयस्तथैवेन्द्रो ये सुताश्चास्य तान् शृणु ॥ ७६.४८ ॥
आप्या नाम सुरास्तत्र तेषामेकोऽष्टको गणः ।
प्रख्यातकर्मणां विप्र ! यज्ञे हव्यभुजामयम् ॥ ७६.४९ ॥
प्रख्यातबलवीर्याणां प्रभामण्डलदुर्दृशाम् ।
द्वितीयश्च प्रसूताख्यो देवानामष्टको गणः ॥ ७६.५० ॥
तथैवाष्टक एवान्यो भव्याख्यो देवतागणः ।
चतुर्थश्च गणस्तत्र यूथगाख्यस्तथाष्टकः ॥ ७६.५१ ॥
लेखसञ्ज्ञास्तथैवान्ये तत्र मन्वन्तरे द्विज ।
पञ्चमे च गणे देवास्तत्सञ्ज्ञा ह्यमृताशिनः ॥ ७६.५२ ॥
शतं क्रतूनामाहृत्य यस्तेषामधिपोऽभवत् ।
मनोजवस्तथैवेन्द्रः सङ्ख्यातो यज्ञभागभुक् ॥ ७६.५३ ॥
सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥ ७६.५४ ॥
ऊरुपुरुशतद्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥ ७६.५५ ॥
एतत्ते कथितं षष्ठं मया मन्वन्तरं द्विज ।
चाक्षुषस्य तथा जन्म चरितञ्च महात्मनः ॥ ७६.५६ ॥
साम्प्रतं वर्तते योऽयं नाम्ना वैवस्वतो मनुः ।
सप्तमीयेऽन्तरे तस्य देवाद्यास्तान् शृणुष्व मे ॥ ७६.५७ ॥
य इदं कीर्तयेद्धीमान् चाक्षुषस्यान्तरं भुवि ।
शृणुते च लभेत्पुत्रानारोग्यसुखसम्पदम् ॥ ७६.५८ ॥

इति श्रीमार्कण्डेयपुराणे षष्ठं मन्वन्तरं समाप्तम्,अध्यायः षट्सप्ततितमः