७४

चतुः सप्ततितमोऽध्यायः ७४

मार्कण्डेय उवाच

राजाभूद्विख्यातः स्वराष्ट्रो नाम वीर्यवान् ।
अनेकयज्ञकृत्प्राज्ञः सङ्ग्रामेष्वपराजितः ॥ ७४.१ ॥
तस्यायुः सुमहत्प्रादात्मन्त्रिणाराधितो रविः ।
पत्नीनाञ्च शतन्तस्य धन्यानामभवद्द्विज ॥ ७४.२ ॥
तस्य दीर्घायुषः पत्न्यो नातिदीर्घायुषो मुने ।
कालेन जग्मुर्निधनं भृत्यमन्त्रिजनास्तथा ॥ ७४.३ ॥
स भार्याभिस्तथायुक्तो भृत्यैश्च सहजन्मभिः ।
उद्विग्नचेताः सम्प्राप वीर्यहानिमहर्निशम् ॥ ७४.४ ॥
तं वीर्यहीनं निभृतैर्भृत्यैस्त्यक्तं सुदुः खितम् ।
अनन्तरो विमर्दाख्यो राज्याच्च्यावितवांस्तदा ॥ ७४.५ ॥
राज्याच्च्युतः सोऽपि वनं गत्वा निर्विण्णमानसः ।
तपस्तेपे महाभागे वितस्तापुलिने स्थितः ॥ ७४.६ ॥
ग्रीष्मे पञ्चतमा भूत्वा वर्षास्वभ्रावकाशिकः ।
जलशायी च शिशिरे निराहारो यतव्रतः ॥ ७४.७ ॥
ततस्तपस्यतस्तस्य प्रावृट्काले महाप्लवः ।
बभूवानुदिनं मेघैर्वर्षद्भिरनुसन्ततम् ॥ ७४.८ ॥
न दिग्विज्ञायते पूर्वा दक्षिणा वा न पश्चिमा ।
नोत्तरा तमसा सर्वमनुलिप्तमिवाभवत् ॥ ७४.९ ॥
ततोऽतिपूरेण नृपः स नद्याः प्रेरितस्तटम् ।
प्रार्थयन्नापि नावाप ह्रियमाणो महीपतिः ॥ ७४.१० ॥
अथ दूरे जलौघेन ह्रियमाणो महीपतिः ।
आससाद जले रौहीं स पुच्छे जगृहे च ताम् ॥ ७४.११ ॥
तेन प्लवेन स ययावूह्यमानो महीतले ।
इतश्चेतश्चान्धकारे आससाद तटन्ततः ॥ ७४.१२ ॥
विस्तारि पङ्कमत्यर्थं दुस्तरं स नृपस्तरन् ।
तथैव कृष्यमाणोऽन्यद्रम्यं वनमवाप सः ॥ ७४.१३ ॥
तत्रान्धकारे सा रौही चकर्ष वसुधाधिपम् ।
पुच्छे लग्नं महाभागं कृशं धमनिसन्ततौ ॥ ७४.१४ ॥
तस्याश्च स्पर्शसम्भूतामवापमुदमुत्तमाम् ।
सोऽन्धकारे भ्रमन् भूयो मदनाकृष्टमानसः ॥ ७४.१५ ॥
विज्ञाय सानुरागं तं पृष्ठस्पर्शनतत्परम् ।
नरेन्द्रं तद्वनस्यान्तः सा मृगी तमुवाच ह ॥ ७४.१६ ॥
किं पृष्ठं वेपथुमता करेण स्पृशसे मम ।
अन्यथैवास्य कार्यस्य सञ्जाता नृपते गतिः ॥ ७४.१७ ॥
नास्थाने वो मनो यातं नागम्याहं तवेश्वर ।
किन्तु त्वत्सङ्गमे विघ्नमेष लोलः करोति मे ॥ ७४.१८ ॥

मार्कण्डेय उवाच

इति श्रुत्वा वचस्तस्या मृग्याश्च जगतीपतिः ।
जातकौतूहलो रौहीमिदं वचनमब्रवीत् ॥ ७४.१९ ॥
का त्वं ब्रूहि मृगी वाक्यं कथं मानुषवद्वदेत् ।
कश्चैव लोलो यो विघ्नं त्वत्सङ्गे कुरुते मम ॥ ७४.२० ॥

मृग्युवाच

अहन्ते दयिता भूप ! प्रागासमुत्पलावती ।
भर्या शताग्रमहिषी दुहिता दृढधन्वनः ॥ ७४.२१ ॥

राजोवाच

किन्तु यावत्कृतं कर्म येनेमां योनिमागता ।
पतिव्रता धर्मपरा सा चेत्थं सथमीदृशी ॥ ७४.२२ ॥

मृग्युवाच

अहं पितृगृहे बाला सखीभिः सहिता वनम् ।
रन्तुं गता ददर्शैकं मृगं मृग्या समागतम् ॥ ७४.२३ ॥
ततः समीपवर्तिन्या मया सा ताडिता मृगी ।
मया त्रस्ता गतान्यत्र क्रुद्धः प्राह ततो मृगः ॥ ७४.२४ ॥
मूढे किमेवं मत्तासि धिक्ते दौः शील्यमीदृशम् ।
आधानकालो येनायं त्वया मे विफलीकृतः ॥ ७४.२५ ॥
वाचं श्रुत्वा ततस्तस्य मानुषस्येव भाषतः ।
भीता तमब्रुवं कोऽसीत्येतां योनिमुपागतः ॥ ७४.२६ ॥
ततः स प्राह पुत्रोऽहमृषेर्निर्वृतिचक्षुषः ।
सुतपा नाम मृग्यान्तु साभिलाषो मृगोऽभवम् ॥ ७४.२७ ॥
इमाञ्चानुगतः प्रेम्णा वाञ्छितश्चानया वने ।
त्वया वियोजिता दुष्टे तस्माच्छापं ददामि ते ॥ ७४.२८ ॥
मया चोक्तं तवाज्ञानादपराधः कृतो मुने ।
प्रसादं कुरु शापं मे न भवान् दातुमर्हति ॥ ७४.२९ ॥
इत्युक्तः प्राह मां सोऽपि मुनिरित्थं महीपते ।
न प्रयच्छामि शापं ते यद्यात्मानं ददासि मे ॥ ७४.३० ॥
मया चोक्तं मृगी नाहं मृगरूपधरा वने ।
लप्स्यसेऽन्यां मृगीन्तावन्मयि भावो निवर्त्यताम् ॥ ७४.३१ ॥
इत्युक्तः कोपरक्ताक्षः स प्राह स्फुरिताधरः ।
नाहं मृगी त्वयेत्युक्तं मृगी मूढे भविष्यसि ॥ ७४.३२ ॥
ततो भृशं प्रव्यथिता प्रणम्य मुनिमब्रुवम् ।
स्वरूपस्थमतिक्रुद्धं प्रसीदेति पुनः पुनः ॥ ७४.३३ ॥
बालानभैज्ञा वाक्यानां ततः प्रोक्तमिदं मया ।
पितर्यसति नारीभिर्व्रियते हि पतिः स्वयम् ॥ ७४.३४ ॥
सति ताते कथञ्चाहं वृणोमि मुनिसत्तम ।
सापराधाथवा पादौ प्रसीदेश नमाम्यहम् ॥ ७४.३५ ॥
प्रसीदेति प्रसीदेति प्रणताया महामते ।
इत्थं लालप्यमानायाः स प्राह मुनिपुङ्गवः ॥ ७४.३६ ॥
न भवत्यन्यथा प्रोक्तं मम वाक्यं कदाचन ।
मृगी भविष्यसि मृता वनेऽस्मिन्नेव जन्मनि ॥ ७४.३७ ॥
मृगत्वे च महाबाहुस्तव गर्भमुपैष्यति ।
लोलो नाम मुनेः पुत्रः सिद्धवीर्यस्य भामिनि ॥ ७४.३८ ॥
जीतिस्मरा भवित्री त्वं तस्मिन् गर्भमुपागते ।
स्मृतिं प्राप्य तथा वाचं मानुषीमीरयिष्यसि ॥ ७४.३९ ॥
त्समिन् जाते मृगीत्वात्त्वं विमुक्ता पतिनार्चिता ।
लोकानवाप्स्यसि प्राप्या ये न दुष्कृतकर्मभिः ॥ ७४.४० ॥
सोऽपि लोलो महावीर्यः पितृशत्रून्निपात्य वै ।
जित्वा वसुन्दरां कृत्स्त्रां भविष्यति ततो मनुः ॥ ७४.४१ ॥
एवं शापमहं लब्ध्वा मृता तिर्यक्त्वमागता ।
त्वत्संस्पर्शाच्च गर्भोऽसौ सम्भूतो जठरे मम ॥ ७४.४२ ॥
अतो ब्रवीमि नास्थाने तव यातं मनो मयि ।
न चाप्यगम्या गर्भस्थो लोलो विघ्नं करोत्यसौ ॥ ७४.४३ ॥

मार्कण्डेय उवाच

एवमुक्तस्ततः सोऽपि राजा प्राप्य परां मुदम् ।
पुत्रो ममारीञ्जित्वेति पृथिव्यां भविता मनुः ॥ ७४.४४ ॥
ततस्तं सुषुवे पुत्रं सा मृगी लक्षणान्वितम् ।
तस्मिन् जाते च भूतानि सर्वाणि प्रययुर्मुदम् ॥ ७४.४५ ॥
विशेषतश्च राजासौ पुत्रे जाते महाबले ।
सा विमुक्ता मृगी शापात्प्राप लोकाननुत्तमान् ॥ ७४.४६ ॥
ततस्तस्यर्षयः सर्वे समेत्य मुनिसत्तम ।
अवेक्ष्य भाविनीमृद्धिं नाम चक्रुर्महात्मनः ॥ ७४.४७ ॥
तामसीं भजमानायां योनिं मातर्यजायत ।
तमसा चावृते लोके तामसोऽयं भविष्यति ॥ ७४.४८ ॥
ततः स तामसस्तेन पित्रा संवर्धितो वने ।
जातबुद्धिरुवाचेदं पितरं मुनिसत्तम ॥ ७४.४९ ॥
कस्त्वं तात कथं वाहं पुत्रो माता च का मम ।
किमर्थमागतश्च त्वमेतत्सत्यं ब्रवीहि मे ॥ ७४.५० ॥

मार्कण्डेय उवाच

ततः पिता यथावृत्तं स्वराज्यच्यावनादिकम् ।
तस्याचष्टे महाबहुः पुत्रस्य जगतीपतिः ॥ ७४.५१ ॥
श्रुत्वा तत्सकलं सोऽपि समाराध्य च भारस्करम् ।
अवाच दिव्यान्यस्त्राणि ससंहाराण्यशेषतः ॥ ७४.५२ ॥
कृतास्त्रस्तानरीन् जित्वा पितुरानीय चान्तिकम् ।
अनुज्ञातान्मुनोचाथ तेन स्वं धर्ममास्थितः ॥ ७४.५३ ॥
पितापि तस्य स्वान् लोकांस्तपोयज्ञसमार्जितान् ।
विसृष्टदेहः सम्प्राप्तो दृष्ट्वा पुत्रमुखं सुखम् ॥ ७४.५४ ॥
जित्वा समस्तां पृथिवीं तामसाख्यः स पार्थिवः ।
तामसाख्यो मनुरभुत्तस्य मन्वन्तरं शृणु ॥ ७४.५५ ॥
ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः ।
ये पुत्राश्च मनोस्तस्य पृथिवीपरिपालकाः ॥ ७४.५६ ॥
सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा ।
एते देवगणास्तत्र सप्तविंशतिका मुने ॥ ७४.५७ ॥
महाबलो महावीर्यः शतयज्ञोपलक्षितः ।
शिखिरिन्द्रस्तथा तेषां देवानामभवद्विभुः ॥ ७४.५८ ॥
ज्योतिर्धर्मा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा ।
पीवरश्च तथा ब्रह्मन् ! सप्त गप्तर्षयोऽभवन् ॥ ७४.५९ ॥
नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा ।
पुत्रास्तु तामसस्यासन् राजानः सुमहाबलाः ॥ ७४.६० ॥
इत्येतत्तामसं विप्र मन्वन्तरमुदाहृतम् ।
यः पठेत्शृणुयाद्वापि तमसा सन बाध्यते ॥ ७४.६१ ॥

इति श्रीमार्कण्डेयपुराणेठतामसमन्वन्तरेऽ चतुः सप्ततितमोऽध्यायः.