७३

त्रिसप्ततितमोऽध्यायः ७३

मार्कण्डेय उवाच

मन्वन्तरे तृतीयेऽस्मिनौत्तमस्य प्रजापतेः ।
देवानिन्द्रमृषीन् भूपान्निबोध गदतो मम ॥ ७३.१ ॥
स्वधामानस्तथा देवा यथानामानुकारिणः ।
सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा गणः ॥ ७३.२ ॥
तृतीये तु गणे देवाः शिवाख्या मुनिसत्तम ।
शिवाः स्वरूपतस्ते तु श्रुताः पापप्रणाशनाः ॥ ७३.३ ॥
प्रतर्दनाख्यश्च गणो देवानां मुनिसत्तम ।
चतुर्थस्तत्र कथित औत्तमस्यान्तरे मनोः ॥ ७३.४ ॥
वशवर्तिनः पञ्चमेऽपि देवास्तत्र गणे द्विज ।
यथाख्यातस्वरूपास्तु सर्व एव महामुने ॥ ७३.५ ॥
एते देवगणाः पञ्च स्मृता यज्ञभुजस्तथा ।
मन्वन्तरे मनुश्रेष्ठे सर्वे द्वादशका गणाः ॥ ७३.६ ॥
तेषामिन्द्रो महाभागस्त्रैलोक्ये स गुरुर्भवेत् ।
शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः ॥ ७३.७ ॥
यस्योपसर्गनाशाय नामाक्षरविभूषिता ।
अद्यापि मानवैर्गाथा गीयते तु महीतले ॥ ७३.८ ॥
शुशान्तिर्देवराट्कान्तः शुशान्तिं स प्रयच्छति ।
सहितः शिवसत्याद्यैस्तथैव वशवर्तिभिः ॥ ७३.९ ॥
अजः परशुचिर्दिव्यो महाबलपराक्रमः ।
पुत्रस्तस्य मनोरासन् विख्यातास्त्रिदशोपमाः ॥ ७३.१० ॥
तत्सूतिसम्भवैर्भूमिः पालिताभून्नरेश्वरैः ।
यावन्मन्वन्तर तस्य मनोरुत्तमतेजसः ॥ ७३.११ ॥
चतुर्युगानां सङ्ख्याता साधिका ह्येकसप्ततिः ।
कृतत्रेतादिसञ्ज्ञानां यान्युक्तानि युगे मया ॥ ७३.१२ ॥
स्वतेजसा हि तपसो वरिष्ठस्य महात्मनः ।
तनयाश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन् ॥ ७३.१३ ॥
तृतीयमेतत्कथितं तव मन्वन्तरं मया ।
तामसस्य चतुर्थन्तु मनोरन्तरमुच्यते ॥ ७३.१४ ॥
वियोनिजन्मनो यस्य यशसा द्योतितं जगत् ।
जन्म तस्य मनोर्ब्रह्मन् ! श्रुयतां गदतो मम ॥ ७३.१५ ॥
अतीन्द्रियमशेषाणां मनूनाञ्चरितन्तथा ।
तथा जन्मापि विज्ञेयं प्रभावश्च महात्मनाम् ॥ ७३.१६ ॥

इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे त्रिसप्ततितमोऽध्यायः