[Missing]
एष वेत्ति जगत्यत्र मत्प्रसादादनागतम्॥
यथाहं समतीतञ्च वर्तमानञ्च सर्वतः ॥ ६९.५३ ॥
आलोच्याज्ञापयेत्युक्ते ततो ज्ञातं मयापि तत् ।
ततो न दत्तवानर्घमहं तुभ्यं विधानतः ॥ ६९.५४ ॥
सत्यं राजन् ! त्वमर्घार्हः कुले स्वायम्भुवस्य च ।
तथापि नार्घयोग्यं त्वां मन्यामो वयमुत्तमम् ॥ ६९.५५ ॥
राजोवाच
किं कृतं हि मया ब्रह्मन् ! ज्ञानादज्ञानतोऽपि वा ।
येन त्वत्तोर्ऽघमर्हामि नाहमभ्यागतश्चिरात् ॥ ६९.५६ ॥
ऋषिरुवाच
किं विस्मृतन्ते यत्पत्नी त्वया त्यक्ता च कानने ।
परित्यक्तस्तया सार्धं त्वया धर्मो नृपाखिलः ॥ ६९.५७ ॥
पक्षेण कर्मणो हान्या प्रयात्यस्पर्शतां नरः ।
विण्मूत्रैर्वार्षिकी यस्य हानिस्ते नित्यकर्मणः ॥ ६९.५८ ॥
पत्न्यानुकूलया भाव्यं यथाशीलेऽपि भर्तरि ।
दुः शीलापि तथा भार्या पोषणीया नरेश्वर ॥ ६९.५९ ॥
प्रतिकूला हि सा पत्नी तस्य विप्रस्य या हृता ।
तथापि धर्मकामोऽसौ त्वामुद्योतितवान्नृप ॥ ६९.६० ॥
चलतः स्थापयस्यन्यान् स्वधर्मेषु महीपते ।
त्वां स्वधर्माद्विचलितं कोऽपरः स्थापयिष्यति ॥ ६९.६१ ॥
मार्कण्डेय उवाच
विलक्ष्यः स महीपाल इत्युक्तस्तेन धीमता ।
तथेत्युक्त्वा च पप्रच्छ हृतां पत्नीं द्विजन्मनः ॥ ६९.६२ ॥
भगवन् ! केन नीता सा पत्नी विप्रस्य कुत्र वा ।
अतीतानागतं वेत्ति जगत्यवितथं भवान् ॥ ६९.६३ ॥
ऋषिरुवाच
तां जहाराद्रितनयो बलाको नाम राक्षसः ।
द्रक्ष्यसे चाद्य तां भूप ! उत्पलावतके वने ॥ ६९.६४ ॥
गच्छ संयोजयाशु त्वं भार्यया हि द्विजात्तमम् ।
मा पापास्पदतां यातु त्वमिवासौ दिने दिने ॥ ६९.६५ ॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे एकोनसप्ततितमोऽध्यायः