त्रिषष्टितमोऽध्यायः ६३
मार्कण्डेय उवाच
ततः सह तथा सोऽथ रराम गिरिसानुषु ।
फुल्लकाननहृद्येषु मनोज्ञेषु सरः सु च ॥ ६३.१ ॥
कन्दरेषु च रम्येषु निम्नगापुलिनेषु च ।
मनोज्ञेषु तथान्येषु देशेषु मुदितो द्विज ॥ ६३.२ ॥
वह्निनाधिष्ठितस्यासीद्यद्रूपन्तस्य तेजसा ।
अचिन्तयद्भोगकाले निमीलितविलोचना ॥ ६३.३ ॥
ततः कालेन सा गर्भमवाप मुनिसत्तम ।
गन्धर्ववीर्यतो रूपचिन्तनाच्च द्विजन्मनः ॥ ६३.४ ॥
तां गर्भधारिणीं सोऽथ सान्त्वयित्वा वरूथिनीम् ।
विप्ररूपधरो यातस्तया प्रीत्या विसर्जितः ॥ ६३.५ ॥
जज्ञे स बालो द्युतिमान ज्वलन्निव विभावसुः ।
स्वरोचिभैर्यथा सूर्यो भासयन् सकला दिशः ॥ ६३.६ ॥
स्वरोचिभिर्यतो भाति भास्वानिव स बालकः ।
ततः स्वरोचिरित्येवं नाम्ना ख्यातो बभूत सः ॥ ६३.७ ॥
ववृधे च महाभागो वयसानुदिनन्तथा ।
गुणौघैश्च यथा बालः कलाभिः शशलाञ्छनः ॥ ६३.८ ॥
स जग्राह धनुर्वेदं वेदांश्चैव यथाक्रमम् ।
विद्याश्चैव महाभागस्तदा यौवनगोचरः ॥ ६३.९ ॥
मन्दराद्रौ कदाचित्स विचरंश्चारुचेष्टितः ।
ददर्शैकां तदा कन्यां गिरिप्रस्थे भयातुराम् ॥ ६३.१० ॥
त्रायस्वेति निरीक्ष्यैनं सा तदा वाक्यमब्रवीत् ।
मा भैषीरिति स प्राह भयविप्लुतलोचनाम् ॥ ६३.११ ॥
किमेतदिति तेनोक्ते वीरवाक्ये महात्मना ।
ततः सा कथयामास श्वासाक्षेपप्लुताक्षरम् ॥ ६३.१२ ॥
कन्योवाच
अहमिन्दीवराख्यस्य सुता विद्याधरस्य वै ।
नाम्ना मनोरमा जाता सुतायां मरुधन्वनः ॥ ६३.१३ ॥
मन्दारविद्याधरजा सखी मम विभावरी ।
कलावती चाप्यपरा सुता पारस्य वै मुनेः ॥ ६३.१४ ॥
ताभ्यां सह मया यातं कैलासतटमुत्तमम् ।
तत्र दृष्टो मुनिः कश्चित्तपसातिकृशाकृतिः ॥ ६३.१५ ॥
क्षुत्क्षामकण्ठो निस्तेजा दूरपाताक्षितारकः ।
मयावहसितः क्रुद्धः स तदा मां शशाप ह ॥ ६३.१६ ॥
क्षामक्षामस्वरः किञ्चित्कल्पिताधरपल्लवः ।
त्वयावहसितो यस्मादनार्ये दुष्टतापसि ॥ ६३.१७ ॥
तस्मात्त्वामचिरेणैव राक्षसोऽभिभविष्यसि ।
दत्ते शापे मत्सखीभ्यां स तु निर्भत्सितो मुनिः ॥ ६३.१८ ॥
धिक्ते ब्राह्मण्यमक्षान्त्या हृतन्ते निखिलन्तपः ।
अमर्षणैर्धर्षितोऽसि तपसा नातिकर्षितः ॥ ६३.१९ ॥
क्षान्त्यास्पदं वै ब्राह्मण्यं क्रोधसंयमनन्तपः ।
एतच्छ्रुत्वा ददौ शापं तयोरप्यमितद्युतिः ॥ ६३.२० ॥
एकस्याः कुष्ठमङ्गेषु भाव्यन्यस्यास्तथा क्षयः ।
तयोस्तथैव तज्जातं यथोक्तं तेन तत्क्षणात् ॥ ६३.२१ ॥
ममाप्येवं महद्रक्षः समुपैति पदानुगम् ।
न शृणोषि महानादं तस्यादूरेऽपि गर्जतः ॥ ६३.२२ ॥
तृतीयमद्य दिवसं यन्मे पृष्ठन्न मुञ्चति ।
अस्त्रग्रामस्य सर्वस्य हृदज्ञाहमद्य ते ॥ ६३.२३ ॥
ते प्रयच्छामि मां रक्ष रक्षसोऽस्मान्महामते ।
प्रादात्स्वायम्भुवस्यादौ स्वयं रुद्रः पिनाकधृक् ॥ ६३.२४ ॥
स्वायम्भुवो वसिष्ठाय सिद्धवर्याय दत्तवान् ।
तेनापि दत्तं मन्मातुः पित्रे चित्रायुधाय वै ॥ ६३.२५ ॥
प्रादादौद्वाहिकं सोऽपि मत्पित्रे श्वशुरः स्वयम् ।
मयापि शिक्षितं वीर ! सकाशाद्बालया पितुः ॥ ६३.२६ ॥
हृदयं सकलास्त्राणामशेषरिपुनाशनम् ।
तदिदं गृह्यतां शीघ्रमशेषास्त्रपरायणम् ॥ ६३.२७ ॥
ततो जहि दुरात्मानमेनं राक्षसमागतम् ॥ ६३.२८ ॥
मार्कण्डेय उवाच
तथैत्युक्ते ततस्तेन वार्युपस्पृश्य तस्य तत् ।
अस्त्राणां हृदयं प्रादात्सरहस्यनिवर्तनम् ॥ ६३.२९ ॥
एतस्मिन्नन्तरे रक्षस्तत्तदा भीषणाकृति ।
नर्दमानं महानादमाजगाम त्वरान्वितम् ॥ ६३.३० ॥
मयाभिभूता किं त्राणमुपैषि द्रुतमेहि मे ।
भक्षामि किञ्चिरेणेति ब्रुवाणं तं ददर्श सः ॥ ६३.३१ ॥
स्वरोचिश्चिन्तयामास दृष्ट्वा तं समुपागतम् ।
गृह्णात्वेष वचः सत्यं तस्यास्त्विति महामुनेः ॥ ६३.३२ ॥
जग्राह समुपेत्यैनां त्वरया सोऽपि राक्षसः ।
त्राहि त्राहीति करुणं विलपन्तीं सुमध्यमाम् ॥ ६३.३३ ॥
ततः स्वरोचिः सङ्क्रुद्धश्चण्डास्त्रमतिभैरवम् ।
दृष्ट्यां निवेश्य तद्रक्षो ददर्शानिमिषेक्षणः ॥ ६३.३४ ॥
तदाभिभूतः स तदा तामुत्सृज्य निशाचरः ।
प्रसीद शाम्यतामस्त्रं श्रूयताञ्चेत्यभाषत ॥ ६३.३५ ॥
मोक्षितोषऽहं त्वया शापादतिघोरान्महाद्युते ।
प्रदत्तादतितीव्रेण ब्रह्ममित्रेण धीमता ॥ ६३.३६ ॥
उपकारी न मे त्वत्तो महाभागाधिकोऽपरः ।
येनाहं सुमहाकष्टान्महाशापाद्विमोक्षितः ॥ ६३.३७ ॥
स्वरोचिरुवाच
ब्रह्ममित्रेण मुनिना किन्निमित्तं महात्मना ।
शप्तस्त्वं कीदृशश्चैव शापो दत्तोऽभवत्पुरा ॥ ६३.३८ ॥
राक्षसा उवाच
ब्रह्ममित्रोऽष्टधा भिन्नमायुर्वेदमधीतवान् ।
त्रयोदशाधिकारञ्च प्रगृह्याथर्वणो द्विजः ॥ ६३.३९ ॥
अहञ्चेन्दीवराख्येति ख्यातोऽस्या जनकोऽभवम् ।
विद्याधरपतेः पुत्रो नलनाभस्य खङ्गिनः ॥ ६३.४० ॥
मया च याचितः पुर्वं ब्रह्ममित्रोऽभवन्मुनिः ।
आयुर्वेदमशेषं मे भगवन् ! दातुमर्हसि ॥ ६३.४१ ॥
यदा तु बहुशो वीर ! प्रश्रयावनतस्य मे ।
न प्रादाद्याचितो विद्यामायुर्वेदात्मिकां मम ॥ ६३.४२ ॥
शिष्येभ्यो ददतस्तस्य मयान्तर्धानगेन हि ।
आयुर्वेदात्मिका विद्या गृहीताभूत्तदानघ ॥ ६३.४३ ॥
गृहीतायान्तु विद्यायां मासैरष्टाभिरन्तरात् ।
ममातिहर्षादभवद्धासोऽतीव पुनः पुनः ॥ ६३.४४ ॥
प्रत्यभिज्ञाय मां हासान्मुनिः कोपसमन्वितः ।
विकम्पिकन्धरः प्राह मामिदं परुषाक्षरम् ॥ ६३.४५ ॥
राक्षसेनैव यस्मान्मे त्वयादृश्येन दुर्मते ।
हृता विद्यावहासश्च मामवज्ञाय वै कृतः ॥ ६३.४६ ॥
तस्मात्त्वं राक्षसः पाप ! मच्छापेन निराकृतः ।
भविष्यसि न सन्देहः सप्तरात्रेण दारुणः ॥ ६३.४७ ॥
इत्युक्ते प्रणिपाताद्यैरुपचारैः प्रसादितः ।
स मामाह पुनर्विप्रस्तत्क्षणान्मृदुमानसः ॥ ६३.४८ ॥
यन्मयोक्तमवश्यन्तद्भावि गन्धर्व ! नान्यथा ।
किन्तु त्वं राक्षसो भूत्वा पुनः स्वं प्राप्स्यसे वपुः ॥ ६३.४९ ॥
नष्टस्मृतिर्यदा क्रुद्धः स्वमपत्यञ्चिखादिषुः ।
निशाचरत्वं गन्तासि तदस्त्रानलतापितः ॥ ६३.५० ॥
पुनः सञ्ज्ञामवाप्य स्वामवाप्स्यसि निजं वपुः ।
तथैव स्वमधिष्ठानं लोके गन्धर्वसञ्ज्ञिते ॥ ६३.५१ ॥
सोऽहं त्वया महाभाग ! मोक्षितोऽस्मान्महाभयात् ।
निशाचरत्वाद्यद्वीर ! तेन मे प्रार्थनां कुरु ॥ ६३.५२ ॥
इमान्ते तनयां भार्यां प्रयच्छामि प्रतीच्छ ताम् ।
आयुर्वेदश्च सकलस्त्वष्टाङ्गो यो मया ततः ।
मुनेः सकाशात्सम्प्राप्तस्तं गृह्णीष्व महामते ॥ ६३.५३ ॥
मार्कण्डेय उवाच
इत्युक्त्वा प्रददौ विद्यां स च दिव्याम्बरोज्जवलः ।
स्त्रग्भूषणधरो दिव्यं पुराणं वपुरास्थितः ॥ ६३.५४ ॥
दत्त्वा विद्यां ततः कन्यां स दातुमुपचक्रमे ।
तमाह सा तदा कन्या जनितारं स्वरूपिणम् ॥ ६३.५५ ॥
अनुरागो ममाप्यत्र तातातीव महात्मनि ।
दर्शनादेव सञ्जातो विशेषेणोपकारिणि ॥ ६३.५६ ॥
किन्त्वेषा मे सखी सा च मत्कृते दुः खपीडिते ।
अतो नाभिलषे भोगान् भोक्तुमेतेन वै समम् ॥ ६३.५७ ॥
पुरुषैरपि नो शक्या कर्तुमित्थं नृशंसता ।
स्वभावरुचिरैर्मादृक्कथं योषित्करिष्यति ॥ ६३.५८ ॥
साहं यथा ते दुः खार्ते मत्कृते कन्यके पितः ।
तथा स्थास्यामि तद्दुः खे तच्छोकानलतापिता ॥ ६३.५९ ॥
स्वरोचिरुवाच
आयुर्वेदप्रसादेन ते करिष्ये पुनर्नवे ।
सख्यौ तव महाशोकं समुत्सृज सुमध्यमे ॥ ६३.६० ॥
मार्कण्डेय उवाच
ततः पित्रा स्वयं दत्तां तां कन्यां स विधानतः ।
उपयेमे गिरौ तस्मिन् स्वरोचिश्चारुलोचवनाम् ॥ ६३.६१ ॥
दत्तान्तु तां तदा कन्यामभिशान्त्य च भामिनीम् ।
जगाम दिव्यया गत्यागन्धर्वः स्वपुरन्ततः ॥ ६३.६२ ॥
स चापि सहितस्तन्व्या सदुद्यानन्तदा ययौ ।
कन्यकायुगलं यत्र तच्छापोत्थगदातुरम् ॥ ६३.६३ ॥
ततस्तयोः स तत्त्वज्ञो रोगघ्नैरौषधै रसैः ।
चकार नीरुजौ देहौ स्वरोचिरपराजितः ॥ ६३.६४ ॥
ततोऽतिशोभने कन्ये विमुक्ते व्याधितः शुभे ।
स्वकान्त्योद्योति दिग्भागं चक्राते तन्महीधरम् ॥ ६३.६५ ॥
इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे त्रिषष्टितमोऽध्यायः