एकषष्टितमोऽध्यायः ६१
क्रौष्टुकिरुवाच
कथितं भवता सम्यग्यत्पृष्टोऽसि महामुने ।
भूसमुद्रादिसंस्थानं प्रमाणानि तथा ग्रहाः ॥ ६१.१ ॥
तेषाञ्चैव प्रमाणञ्च नक्षत्राणाञ्च संस्थितिः ।
भूरादयस्तथा लोकाः पातालान्यखिलान्यपि ॥ ६१.२ ॥
स्वायम्भुवं तथा ख्यातं मुने ! मन्वन्तरं मम ।
तदन्तराण्यहं श्रोतुमिच्छे मन्वन्तराणि वै ।
मन्वन्तराधिपान् देवानृषींस्तत्तनयान्नृपान् ॥ ६१.३ ॥
मार्कण्डेय उवाच
मन्वन्तरं मयाख्यातं तव स्वायम्भुवं च यत् ।
स्वारोचिषाख्यमन्यत्तु शृणु तस्मादनन्तरम् ॥ ६१.४ ॥
कश्चिद्द्विजातिप्रवरः पुरेऽभूदरुणास्पदे ।
वरुणायास्तटे विप्रो रूपेणात्यश्विनावपि ॥ ६१.५ ॥
मृदुस्वभावः सद्वृत्तो वेदवेदाङ्गपारगः ।
सदातिथिप्रियो रात्रावागतानां समाश्रयः ॥ ६१.६ ॥
तस्य बुद्धिरियं त्वासीदहं पश्ये वसुन्धराम् ।
अतिरम्यवनोद्यानां नानानगरशोभिताम् ॥ ६१.७ ॥
अथागतो।ञतिथिः कश्चित्कदाचित्तस्य वेश्मनि ।
नानौषधिप्रभावज्ञो मन्त्रविद्याविशारदः ॥ ६१.८ ॥
अभ्यर्थितस्तु तेनासौ श्रद्धापूतेन चेतसा ।
तस्याचख्यौ स देशांश्च रम्याणि नगराणि च ॥ ६१.९ ॥
वनानि नद्यः शैलांश्च पुण्यान्यायतनानि च ।
स ततो विस्मयाविष्टः प्राह तं द्विजसत्तमम् ॥ ६१.१० ॥
अनेकदेशदर्शित्वेनातिश्रमसमन्वितः ।
त्वं नातिवृद्धो वयसा नातिवृत्तश्च यौवनात् ।
कथमल्पेन कालेन पृथिवीमटसि द्विज ॥ ६१.११ ॥
ब्राह्मण उवाच
मन्त्रौषधिप्रभावेण विप्राप्रतिहता गतिः ।
योजनानां सहस्रं हि दिनार्धेन व्रजाम्यम् ॥ ६१.१२ ॥
मार्कण्डेय उवाच
ततः स विप्रस्तं भूयः प्रत्युवाचेदमादरात् ।
श्रद्धधानो वचस्तस्य ब्राह्मणस्य विपश्चितः ॥ ६१.१३ ॥
मम प्रसादं भगवन् ! कुरु मन्त्रप्रभावजम् ।
द्रष्टुमेतां मम महीमतीवेच्छा प्रवर्तते ॥ ६१.१४ ॥
प्रादात्स ब्राह्मणश्चास्मै पादलेपमुदारधीः ।
अभिमन्त्रयामास दिशं तेनाख्याताञ्च यत्नतः ॥ ६१.१५ ॥
तेनानुलिप्तपादोऽथ स द्विजो द्विजसत्तम ।
हिमवन्तमगाद्द्रष्टुं नानाप्रस्त्रवणान्वितम् ॥ ६१.१६ ॥
सहस्रं योजनानां हि दिनार्धेन व्रजामि यत् ।
आयास्यामीति सञ्चिन्त्य तदर्धेनापरेण हि ॥ ६१.१७ ॥
सम्प्राप्तो हिमवत्पृष्ठं नातिश्रान्ततनुर्द्विज ।
विचचार ततस्तत्र तुहिनाचलभूतले ॥ ६१.१८ ॥
पादाक्रान्तेन तस्याथ तुहिनेन विलीयता ।
प्रक्षालितः पादलेपः परमौषधिसम्भः ॥ ६१.१९ ॥
ततो जडगतिः सोऽथ इतश्चेतश्च पर्यटन् ।
ददर्शातिमनोज्ञानि सानूनि हिमभूभृतः ॥ ६१.२० ॥
सिद्धगन्धर्वजुष्टानि किन्नराभिरतानि च ।
क्रीडाविहाररम्याणि देवादीनामितस्ततः ॥ ६१.२१ ॥
दिव्याप्सरोगणशतैराकीर्णान्यवलोकयन् ।
नातृप्यत द्विजश्रेष्ठः प्रोद्भूतपुलको मुने ॥ ६१.२२ ॥
क्वचित्प्रस्त्रवणाद्भ्रष्टजलपातमनोरमम् ।
प्रनृत्यच्छिखिकेकाभिरन्यतश्च निनादितम् ॥ ६१.२३ ॥
दात्यूहकोयष्टिकाद्यैः क्वचिच्चातिमनोहरैः ।
पुंस्कोकिलकलालापैः श्रुतिहारिभिरन्वितम् ॥ ६१.२४ ॥
प्रफुल्लतरुगन्धेन वासितानिलवीजितम् ।
मुदा युक्तः स ददृशे हिमवन्तं महागिरिम् ॥ ६१.२५ ॥
दृष्ट्वा चैतं द्विजसुतो हिमवन्तं महाचलम् ।
श्वो द्रक्ष्यामीति सञ्चिन्त्य मतिञ्चक्रे गृहं प्रति ॥ ६१.२६ ॥
विभ्रष्टपादलेपोऽथ चिरेण जडितक्रमः ।
चिन्तयामास किमिदं मयाज्ञानादनुष्ठितम् ॥ ६१.२७ ॥
यदि प्रलेपो नष्टो मे विलीनो हिमवारिणा ।
शैलोऽतिदुर्गमश्चायं दूरञ्चाहमिहागतः ॥ ६१.२८ ॥
प्रयास्यामि क्रियाहानिमग्निशुश्रूषणादिकम् ।
कथमत्र करिष्यामि सङ्कटं महदागतम् ॥ ६१.२९ ॥
इदं रम्यमिदं रम्यमित्यस्मिन् वरपर्वते ।
शक्तदृष्टिरहं तृप्तिं न यास्येऽब्दशतैरपि ॥ ६१.३० ॥
किन्नराणां कलालापाः समन्ताच्छ्रोत्रहारिणः ।
प्रफुल्लतरुगन्धांश्च घ्राणमत्यन्तमृच्छति ॥ ६१.३१ ॥
सुखस्पर्शस्तथा वायुः फलानि रसवन्ति च ।
हरन्ति प्रसभं चेतो मनोज्ञानि सरांसि च ॥ ६१.३२ ॥
एवं गते तु पश्येयं यदि कञ्चित्तपोनिधिम् ।
स ममोपदिशेन्मार्गं गमनाय गृहं प्रति ॥ ६१.३३ ॥
मार्कण्डेय उवाच
स एवं चिन्तयन् विप्रो बभ्राम च हिमाचले ।
भ्रष्टपादौषधिबलो वैक्लवं परमं गतः ॥ ६१.३४ ॥
तं ददर्श भ्रमन्तञ्च मुनिश्रेष्ठं वरूथिनी ।
वराप्सरा महाभागा मौलेया रूपशालिनी ॥ ६१.३५ ॥
तस्मिन् दृष्टे ततः साभूद्द्विजवर्ये वरूथिनी ।
मदनाकृष्टहृदया सानुरागा हि तत्क्षणात् ॥ ६१.३६ ॥
चिन्तयामास को न्वेष रमणीयतमाकृतिः ।
सफलं मे भवेज्जन्म यदि मां नावमन्यते ॥ ६१.३७ ॥
अहोऽस्य रूपमाधुर्यमहोऽस्य ललिता गतिः ।
अहो गम्भीरता दृष्टेः कुतोऽस्य सदृशो भुवि ॥ ६१.३८ ॥
दृष्टा देवास्तथा दैत्याः सिद्धगन्धर्वपन्नगाः ।
कथमेकोऽपि नास्त्यस्य तुल्यरूपो महात्मनः ॥ ६१.३९ ॥
यथाहमस्मिन्मय्येष सानुरागस्तथा यदि ।
भवेदत्र मया कार्यस्तत्कृतः पुण्यसञ्चयः ॥ ६१.४० ॥
यद्येष मयि सुस्त्रिग्धां दृष्टिमद्य निपातयेत् ।
कृतपुण्या न मत्तोऽन्या त्रैलोक्ये वनिता ततः ॥ ६१.४१ ॥
मार्कण्डेय उवाच
एवं सञ्चिन्तयन्ती सा दिव्ययोषित्स्मरातुरा ।
आत्मानं दर्शयामास कमनीयतराकृतिम् ॥ ६१.४२ ॥
तान्तु दृष्ट्वा द्विजसुतश्चारुरूपां वरूथिनीम् ।
सोपचारं समागम्य वाक्यमेतदुवाच ह ॥ ६१.४३ ॥
का त्वं कमलगर्भाभे कस्य किं वानुतिष्ठसि ।
ब्राह्मणोऽहमिहायातो नगरादरुणास्पदात् ॥ ६१.४४ ॥
पादलेपोऽत्र मे ध्वस्तो विलीनो हिमवारिणा ।
यस्यानुभावादत्राहमागतो मदिरेक्षणे ॥ ६१.४५ ॥
वरूथिन्युवाच
मौलेयाहं महाभागा नाम्ना ख्याता वरूथिनी ।
विचरामि सदैवात्र रमणीये महाचले ॥ ६१.४६ ॥
साहं त्वद्दर्शनाद्विप्र ! कामवक्तव्यताङ्गता ।
प्रशाधि यन्मया कार्यं त्वदधीनास्मि साम्प्रतम् ॥ ६१.४७ ॥
ब्राह्मण उवाच
येनोपायेन गच्छेयं निजगेहं शुचिस्मिते ।
तन्ममाचक्ष्व कल्याणि हानिर्नोऽखिलकर्मणाम् ॥ ६१.४८ ॥
नित्यनैमित्तिकानान्तु महाहानिर्द्विजन्मनः ।
भवत्यतस्त्वं हे भद्रे ! मामुद्धर हिमालयात् ॥ ६१.४९ ॥
प्रशस्यते न प्रवासो ब्राह्मणानां कदाचम ।
अपराद्धं न मे भीरु देशदर्शनकौतुकम् ॥ ६१.५० ॥
सतो गृहे द्विजाग्र्यस्य निष्पत्तिः सर्वकर्मणाम् ।
नित्यनैमित्तिकानाञ्च हानिरेवं प्रवासिनः ॥ ६१.५१ ॥
सा त्वं किं बहुनोक्तेन तथा कुरु यशस्विनि ।
यथा नास्तं गेत सूर्ये पश्यामि निजमालयम् ॥ ६१.५२ ॥
वरूथिन्युवाच
मैवं ब्रूहि महाभाग ! मा भूत्स दिवसो मम ।
मां परित्यज्य यत्र त्वं निजगेहमुपैष्यसि ॥ ६१.५३ ॥
अहो रम्यतरः स्वर्गो न यतो द्विजनन्दन ।
अतो वयं परित्यज्य तिष्ठामोऽत्र सुरालयम् ॥ ६१.५४ ॥
स त्वं सह मया कान्त ! कान्तेऽत्र तुहिनाचले ।
रममाणो न मर्त्यानां बान्धवानां स्मरिष्यसि ॥ ६१.५५ ॥
स्त्रजो वस्त्राण्यलङ्कारान् भोगभोज्यानुलेपनम् ।
दास्याम्यत्र तथाहन्ते स्मरेण वशगा हृता ॥ ६१.५६ ॥
वीणावेणुस्वनं गीतं किन्नराणां मनोरमम् ।
अङ्गाह्लादकरो वायुरुष्णान्नमुदकं शुचि ॥ ६१.५७ ॥
मनोभिलषिता शय्या सुगन्धमनुलेपनम् ।
इहासतो महाभाग गृहे किन्ते निजेऽधिकम् ॥ ६१.५८ ॥
इहासतो नैव जरा कदाचित्ते भविष्यति ।
त्रिदशानामियं भूमिर्यौवनोपचयप्रदा ॥ ६१.५९ ॥
इत्युक्त्वा सानुरागा सा सहसा कमलेक्षणा ।
आलिलिङ्ग प्रसीदेति वदन्ती कलमुन्मनाः ॥ ६१.६० ॥
ब्राह्मण उवाच
मा मां स्प्राक्षीर्व्रजान्यत्र दुष्टे यः सदृशस्तव ।
मयान्यथा याचिता त्वमन्यथैवाप्युपैषि माम् ॥ ६१.६१ ॥
सायं प्रातर्हुतं हव्यं लोकान् यच्छति शाश्वतान् ।
त्रैलोक्यमेतदखिलं मूढे इव्ये प्रतिष्ठितम् ॥ ६१.६२ ॥
वरूथिन्युवाच
किं ते नाहं प्रिया विप्र ! रमणीयो न किं गिरिः ।
गन्धर्वान् किन्नरादींश्च त्यक्त्वाभीष्टो हि कस्तव ॥ ६१.६३ ॥
निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् ।
स्वल्पकालं मया सार्धं भुङ्क्षव भोगान् सुदुर्लभान् ॥ ६१.६४ ॥
ब्राह्मण उवाच
अष्टावात्मगुणा ये हि तेषामादौ दया द्विज ।
तां करोषि कथं न त्वं मयि सद्धर्मपालक ॥ ६१.६६ ॥
त्वद्विमुक्ता न जीवामि तथा प्रीतिमती त्वयि ।
नैतद्वदाम्यहं मिथ्या प्रसीद कुलनन्दन ॥ ६१.६७ ॥
ब्राह्मण उवाच
यदि प्रीतिमती सत्यं नोपचाराद्ब्रवीषि माम् ।
तदुपायं समाचक्ष्व येन यामि स्वमालयम् ॥ ६१.६८ ॥
वरूथिन्युवाच
निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् ।
स्वल्पकालं मया सार्धं भुङ्क्ष्व भोगान् सुदुर्लभान् ॥ ६१.६९ ॥
ब्राह्मण उवाच
न भोगार्थाय विप्राणां शस्यते हि वरूथिनी ।
इह क्लेशाय विप्राणां चेष्टा प्रेत्याफलप्रदा ॥ ६१.७० ॥
वरूथिन्युवाच
सन्त्राणं म्रियमाणाया मम कृत्वा परत्र ते ।
पुण्यस्यैव फलं भावि भोगाश्चान्यत्र जन्मनि ॥ ६१.७१ ॥
एवं च द्वयमप्यत्र तवोपचयकारणम् ।
प्रत्याख्यानादहं मृत्युं त्वञ्च पापमवाप्स्यसि ॥ ६१.७२ ॥
ब्राह्मण उवाच
परस्त्रियं नाभिलषेदित्युचुर्गुरवो मम ।
तेन त्वां नाभिवाञ्छामि कामं विलप शुष्य वा ॥ ६१.७३ ॥
मार्कण्डेय उवाच
इत्युक्त्वा स महाभागः स्पृष्ट्वापः प्रयतः शुचिः ।
प्राहेदं प्रणिपत्याग्निं गार्हपत्यमुपांशुना ॥ ६१.७४ ॥
भगवन् ! गार्हपत्याग्ने योनिस्त्वं सर्वकर्मणाम् ।
त्वत्त आहवनीयोऽग्निर्दक्षिणाग्निश्च नान्यतः ॥ ६१.७५ ॥
युष्मदाप्यायनाद्देवा वृष्टिशस्यादिहेतवः ।
भवन्ति शस्यादखिलं जगद्भवति नान्यतः ॥ ६१.७६ ॥
एवं त्वत्तो भवत्येतद्येन सत्येन वै जगत् ।
तथाहमद्य स्वं गेहं पश्येयं सति भास्करे ॥ ६१.७७ ॥
यथा वै वैदिकं कर्म स्वकाले नोज्झितं मया ।
तेन सत्येन पश्येयं गृहस्थोऽद्य दिवाकरम् ॥ ६१.७८ ॥
यथा च न परद्रव्ये परदारे च मे मतिः ।
कदाचित्साभिलाषाभूत्तथैतत्सिद्धिमेतु मे ॥ ६१.७९ ॥
इति श्रीमार्कण्डेयपुराणेठब्राह्मणवाक्यम्ऽ नामैकषष्टितमोऽध्यायः