६०

षष्टितमोऽध्यायः ६०

मार्कण्डेय उवाच

यत्तु किम्पुरुषं वर्षं तत्प्रवक्ष्याम्यहं द्विज ।
यत्रायुर्दशसाहस्त्रं पुरुषाणां वपुष्मताम् ॥ ६०.१ ॥
अनामया ह्यशोकाश्च नरा यत्र तथा स्त्रियः ।
प्लक्षः षण्डश्च तत्रोक्तः सुमहान्नन्दनोपमः ॥ ६०.२ ॥
तस्य ते वै फलरसं पिबन्तः पुरुषाः सदा ।
स्थिरयौवननिष्पन्नाः स्त्रियश्चोत्पलगन्धिकाः ॥ ६०.३ ॥
अतः परं किम्पुरुषाद्धरिवर्षं प्रचक्ष्यते ।
महारजतसङ्काशा जायन्ते तत्र मानवाः ॥ ६०.४ ॥
देवलोकच्युताः सर्वे देवरूपाश्च सर्वशः ।
हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम् ॥ ६०.५ ॥
न जरा बाधते तत्र न जीर्यन्ते च कर्हिचित् ।
तावन्तमेव ते कालं जीवन्त्यथ निरामयाः ॥ ६०.६ ॥
मेरुवर्षं मया प्रोक्तं मध्यमं यदिलावृतम् ।
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः ॥ ६०.७ ॥
लभन्ते नात्मलाभञ्च रश्मयश्चन्द्रसूर्ययोः ।
नक्षत्राणां ग्रहाणाञ्च मेरोस्तत्र परा द्युतिः ॥ ६०.८ ॥
पद्मप्रभाः पद्मगन्धा जम्बूफलरसाशिनः ।
पद्मपत्रायताक्षास्तु जायन्ते तत्र मानवाः ॥ ६०.९ ॥
वर्षाणान्तु सहस्राणि तत्राप्यायुस्त्रयोदश ।
सरावाकारसंस्तारो मेरुमध्ये इलावृते ॥ ६०.१० ॥
मेरुस्तत्र महाशैलस्तदाख्यातमिलावृतम् ।
रम्यकं वर्षमस्माच्च कथयिष्ये निबोध तत् ॥ ६०.११ ॥
वृक्षस्तत्रापि चोत्तुङ्गो न्यग्रोधो हरितच्छदः ।
तस्यापि ते फलरसं पिबन्तो वर्तयन्ति वै ॥ ६०.१२ ॥
वर्षायुतायुषस्तत्र नरास्तत्फलभोगिनः ।
रतिप्रधानविमला जरादौर्गन्ध्यवर्जिताः ॥ ६०.१३ ॥
तस्मादथोत्तरं वर्षं नाम्ना ख्यातं हिरण्मयम् ।
हिरण्वती नदी यत्र प्रभूतकमलोज्ज्वला ॥ ६०.१४ ॥
महाबलाः सतेजस्का जायन्ते तत्र मानवाः ।
महाकाया महासत्त्वा धनिनः प्रियदर्शनाः ॥ ६०.१५ ॥

इति श्रीमार्कण्डेयपुराणेठकिम्पुरुषादिवर्षवर्णनम्ऽ नाम षष्टितमोऽध्यायः