षट्पञ्चाशोऽध्यायः ५६
मार्कण्डेय उवाच
धराधरां जगद्योनेः पदं नारायणस्य च ।
ततः प्रवृत्ता या देवी गङ्गा त्रिपथगामिनी ॥ ५६.१ ॥
सा प्रविश्य सुधायोनिं सोममाधारमम्भसाम् ।
ततः सम्बध्यमानार्करश्मिसङ्गतिपावनी ॥ ५६.२ ॥
पपात मेरुपृष्ठे च सा चतुर्धा ततो ययौ ।
मेरुकूटतटान्तेभ्यो निपतन्ती ववर्तिता ॥ ५६.३ ॥
विकीर्यमाणसलिला निरालम्बा पपात सा ।
मन्दराद्येषु पादेषु प्रविभक्तोदका समम् ॥ ५६.४ ॥
चतुर्ष्वपि पपाताम्बुविभिन्नाङ्घ्रिशिलोच्चया ।
पूर्वा सीतेऽति विख्याता ययौ चैत्ररथं वनम् ॥ ५६.५ ॥
तत्प्लावयित्वा च ययौ वरुणोदं सरोवनम् ।
शीतान्तञ्च गिरिं तस्मात्ततश्चान्यान् गिरीन् क्रमात् ॥ ५६.६ ॥
गत्वा भुवं समासाद्य भद्राश्वाज्जलधिं गता ।
तथैवालकनन्दाख्या दक्षिणे गन्धमादने ॥ ५६.७ ॥
मेरुपादवनं गत्वा नन्दनं देवनन्दनम् ।
मानसञ्च महावेगात्प्लापयित्वा सरोवरम् ॥ ५६.८ ॥
आसाद्य शैलराजानं रम्यं हि शिखरन्तथा ।
तस्माच्च पर्वतान् सर्वान् दक्षिणोपक्रमोदितान् ॥ ५६.९ ॥
तान् प्लावयित्वा सम्प्राप्ता हिमवन्तं महागिरिम् ।
दधार तत्र तां शम्भुर्न मुमोच वृषध्वजः ॥ ५६.१० ॥
भघीरथेनोपवासैः स्तुत्या चाराधितो विभुः ।
तत्र मुक्ता च शर्वेण सप्तधा दक्षिणोदधिम् ॥ ५६.११ ॥
प्रविवेश त्रिधा प्राच्यां प्लावयन्ती महानदी ।
भगीरथरथस्यानु स्त्रोतसैकेन दक्षिणाम् ॥ ५६.१२ ॥
तथैव पश्चिमे पादे विपुले सा महानदी ।
सुचक्षुरिति विख्याता वैभ्राजं साचलं ययौ । ५६.१३।
शीतोदञ्च सरस्तस्मात्प्लावयन्ती महानदी ।
सुचक्षुः पर्वतं प्राप्ता ततश्च त्रिशिखं गता ॥ ५६.१४ ॥
तस्मात्क्रमेण चाद्रीणां शिखरेषु निपत्य सा ।
केतुमालं समासाद्य प्रविष्टा लवणोदधिम् ॥ ५६.१५ ॥
सुपार्श्वन्तु तथैवाद्रिं मेरुपादं हि सा गता ।
(भद्रसोमेति) तत्र सोमेति विख्याता सा ययौ सवितुर्वनम् ॥ ५६.१६ ॥
तत्पावयन्ती सम्प्राप्ता महाभद्रं सरोवरम् ।
ततश्च शङ्खकूटं सा प्रयाता वै महानदी ॥ ५६.१७ ॥
तस्माच्च वृषभादीन् सा क्रमात्प्राप्य शिलोच्चयान् ।
महार्णवमनुप्राप्ता प्लावयित्वोत्तरान् कुरून् ॥ ५६.१८ ॥
एवमेषा मया गङ्गां कथिता ते द्विजर्षभ ।
जम्बुद्वीपनिवेशश्च वर्षाणि च यथातथम् ॥ ५६.१९ ॥
वसन्ति तेषु सर्वेषु प्रजाः किम्पुरुषादिषु ।
सुखप्राया निरातङ्का न्यूनतोत्कर्षवर्जिताः ॥ ५६.२० ॥
नवस्वपि च वर्षेषु सप्त सप्त कुलाचलाः ।
एकैकस्मिंस्तथा देशे नद्यश्चाद्रिविनिः सृताः ॥ ५६.२१ ॥
यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तम ।
तेषूद्भिज्जानि तोयानि मेघवार्यत्र भारते ॥ ५६.२२ ॥
वार्क्षो स्वाभाविकी देश्या तोयोत्था मानसी तथा ।
कर्मजा च नृणां सिद्धर्वर्षेष्वेतेषु चाष्टसु ॥ ५६.२३ ॥
कामप्रदेभ्यो वृक्षेभ्यो वार्क्षो सिद्धिः स्वभावजा ।
स्वाभाविकी समाख्याता तृप्तिर्देश्या च दैशिकी ॥ ५६.२४ ॥
अपां शौक्ष्म्याच्च तोयोत्था ध्यानोपेता च मानसी ।
उपासनादिकार्यात्तु धर्मजा साप्युदाहृता ॥ ५६.२५ ॥
न चैतेषु युगावस्था नाध्यो व्याधयो न च ।
पुण्यापुण्यसमारम्भो नैव तेषु द्विजोत्तम ॥ ५६.२६ ॥
इति श्रीमार्कण्डेयपुराणे गङ्गावतारो नाम षट्पञ्चाशोऽध्यायः