पञ्चपञ्चाशोऽध्यायः ५५
मार्कण्डेय उवाच
शैलेषु मन्दाराद्येषु चतुर्ष्वपि द्विजोत्तम ।
वाननि यानि चत्वारि सरांसि च निबोध मे ॥ ५५.१ ॥
पूर्वं चैत्ररथं नाम दक्षिणे नन्दनं वनम् ।
वैभ्राजं पश्चिमे शैले सावित्रं चोत्तराचले ॥ ५५.२ ॥
अरुणोदं सरः पूर्वं मानसं दक्षिणे तथा ।
शीतोदं पश्चिमे मेरोर्महाभद्रं तथोत्तरे ॥ ५५.३ ॥
शीतार्तश्चक्रमुञ्जश्च कुलीरोऽथ सुकङ्कवान् ।
मणिशैलोऽथ वृषवान्महानीलो भवाचलः ॥ ५५.४ ॥
सूबिन्दुर्मन्दरो वेणुस्तामसो निषधस्तथा ।
देवशैलश्च पूर्वेण मन्दरस्य महाचलः ॥ ५५.५ ॥
त्रिकटशिखराद्रिश्च कलिङ्गोऽथ पतङ्गकः ।
रुचकः सानुमांश्चाद्रिस्ताम्रकोऽथ विशाखवान् ॥ ५५.६ ॥
श्वेतोदरः समूलश्च वसुधारश्च रत्नवान् ।
एकशृङ्गो महाशैलो राजशालः पिपाठकः ॥ ५५.७ ॥
पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः ।
इत्येते दक्षिणे पार्श्वे मेरोः प्रोक्ता महाचलाः ॥ ५५.८ ॥
सुरक्षः शिशिराक्षश्च वैदुर्यः कपिलस्तथा ।
पिञ्जरोऽथ महाभद्रः सुरसः पिङ्गलो मधुः ॥ ५५.९ ॥
अञ्जनः कुक्कुटः कृष्णः पाण्डरश्चालोत्तमः ।
सहस्रशिखरश्चाद्रिः पारियात्रः सशृङ्गवान् ॥ ५५.१० ॥
पश्चिमेन तथा मेरोर्विस्कम्भात्पश्चिमाद्वहिः ।
एतेऽचलाः समाख्याताः शृणुष्वन्यांस्तथोत्तरान् ॥ ५५.११ ॥
शङ्खकूटोऽथ वृषभो हंसनाभस्तथाचलः ।
कपिलेन्द्रस्तथा शैलः सानुमान्नील एव च ॥ ५५.१२ ॥
स्वर्णशृङ्गी शातशृङ्गी पुष्पको मेघपर्वतः ।
विरजाक्षो वराहाद्रिर्मयूरो जारुधिस्तथा ॥ ५५.१३ ॥
इत्येते कथिता ब्रह्मन् ! मेरोरुत्तरतो नगाः ।
एतेषां पर्वतानान्तु द्रौण्योऽतीव मनोहराः ॥ ५५.१४ ॥
वनैरमलपानीयैः सरोभिरुपशोभिताः ।
तासु पुण्यकृतां जन्म मनुष्याणां द्विजोत्तम ॥ ५५.१५ ॥
एते भौमा द्विजश्रेष्ठ ! स्वर्गाः स्वर्गगुणाधिकाः ।
न तासु पुण्यपापानामपूर्वाणामुपार्जनम् ॥ ५५.१६ ॥
पुण्योपभोगा एवोक्ता देवानामपि तास्वपि ।
शीतान्ताद्येषु चैतषु शैलेषु द्विजसत्तम ॥ ५५.१७ ॥
विद्याधराणां यक्षाणां किन्नरोरगरक्षसाम् ।
देवानाञ्च महावासा गन्धर्वाणां च शोभनाः ॥ ५५.१८ ॥
महापुण्या मनोज्ञैश्च सदैवोपवनैर्युताः ।
सरांसि च मनोज्ञानि सर्वर्तुसुखदोऽनिलः ॥ ५५.१९ ॥
न चैतेषु मनुष्याणां वैमनस्यानि कुत्रचित् ।
तदेवं पार्थिवं पद्मं चतुष्पत्रं मयोदितम् ॥ ५५.२० ॥
भद्राश्चभारताद्यानि पत्राण्यस्य चतुर्दिशम् ।
भारतं नाम यद्वर्षं दक्षिणेन मयोदितम् ॥ ५५.२१ ॥
तत्कर्मभूमिर्नान्यत्र सम्प्राप्तिः पुण्यपापयोः ।
एतत्प्रधानं विज्ञेयं यत्र सर्वं प्रतिष्ठितम् ॥ ५५.२२ ॥
तस्मात्स्वर्गापवर्गौ च मानुष्यनारकावपि ।
तिर्यक्त्वमथवाप्यन्यत्नरः प्राप्नोति वै द्विज ॥ ५५.२३ ॥
इति श्रीमार्कण्डेयपुराणे भुवनकोशे पञ्चपञ्चाशोऽध्यायः