त्रिपञ्चाशोऽध्यायः ५३
क्रौष्टुकिरुवाच
स्वायम्भुवं त्वयाख्यातमेतन्मन्वन्तरञ्च यत् ।
तदहं भगवन् ! सम्यक्श्रोतुमिच्छामि कथ्यताम् ॥ ५३.१ ॥
मन्वन्तरप्रमाणञ्च देवा देवर्षयस्तथा ।
ये च क्षितीशा भगवन् ! देवेन्द्रश्चैव यस्तथा ॥ ५३.२ ॥
मार्कण्डेय उवाच
मन्वन्तराणां सङ्ख्याता साधिका ह्येकसप्ततिः ।
मानुषेण प्रमाणेन शृणु मन्वन्तरञ्च मे ॥ ५३.३ ॥
त्रिंशत्कोट्यस्तु सङ्ख्याताः सहस्राणि च विंशतिः ।
सप्तषष्टिस्तथान्यानि नियुतानि च सङ्ख्यया ॥ ५३.४ ॥
मन्वन्तरप्रमाणञ्च इत्येतत्साधिकं विना ।
अष्टौ शतसहस्राणि दिव्यया सङ्ख्यया स्मृतम् ॥ ५३.५ ॥
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि च ।
स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ॥ ५३.६ ॥
औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ।
षडेते मनवोऽतीतास्तथा वैवस्वतोऽधुना ॥ ५३.७ ॥
सावर्णिः पञ्च रौच्याश्च भौत्याश्चागामिनस्त्वमी ।
एतेषां विस्तरं भूयो मन्वन्तरपरिग्रहे ॥ ५३.८ ॥
वक्ष्ये देवानृषींश्चैव यक्षेन्द्राः पितरश्च ये ।
उत्पत्तिं सङ्ग्रहं ब्रह्मन् ! श्रूयतामस्य सन्ततिः ॥ ५३.९ ॥
यच्च तेषामभूत्क्षेत्रं तत्पुत्राणां महात्मनाम् ।
मनोः स्वायम्भुवस्यासन् दश पुत्रास्तु तत्समाः ॥ ५३.१० ॥
यैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ।
ससमुद्राकरवती प्रतिवर्षं निवेशिता ॥ ५३.११ ॥
ससमुद्राकरवती प्रतिवर्षं त्रेतायुगे तथा ।
प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायम्भुवस्य च ॥ ५३.१२ ॥
प्रियव्रतात्प्रजावत्यां वीरात्कन्या व्यजायत ।
कन्या सा तु महाभागा कर्दमस्य प्रजापते ॥ ५३.१३ ॥
कन्ये द्वे दश पुत्रांश्च सम्राट्कुक्षी च ते उभे ।
तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश ॥ ५३.१४ ॥
आग्नीध्रो मेधातिथिश्च वपुष्मांश्च तथापरः ।
ज्योतिष्मान्द्युतिमान् भव्यः सवनः सप्त एव ते ॥ ५३.१५ ॥
प्रियव्रतोऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान् ।
द्वीपेषु तेन धर्मेण द्वीपांश्चैव निबोध मे ॥ ५३.१६ ॥
जम्बुद्वीपे तथाग्नीध्रं राजानं कृतवान् पिता ।
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥ ५३.१७ ॥
शाल्मलेस्तु वपुष्मन्तं ज्योतिष्मन्तं कुशाह्वये ।
क्रौञ्चद्वीपे द्युतिमन्तं भव्यं शाकाह्वयेश्वरम् ॥ ५३.१८ ॥
पुष्कराधिपतिञ्चापि सवनं कृतवान् सुतम् ।
महावीतो धातकिश्च पुष्कराधिपतेः सुतौ ॥ ५३.१९ ॥
द्विधा कृत्वा तयोर्वर्षं पुष्करे सन्न्यवेशयत् ।
भव्यस्य पुत्राः सप्तासन्नामतस्तान्निबोध मे ॥ ५३.२० ॥
जलदश्च कुमारश्च सुकुमारो मनीवकः ।
कुशोत्तरोऽथ मेधावी सप्तमस्तु महाद्रुमः ॥ ५३.२१ ॥
तन्नामकानि वर्षाणि शाकद्वीपे चकार सः ।
तथा द्युतिमतः सप्त पुत्रास्तांश्च निबोध मे ॥ ५३.२२ ॥
कुशलो मनुगश्चोष्णः प्राकरश्चार्थकारकः ।
मुनिश्च दुन्दुभिश्चैव सप्तमः परिकीर्तितः ॥ ५३.२३ ॥
तेषां स्वनामधेयानि क्रौञ्चद्वीपे तथाभवन् ।
ज्योतिष्मतः कुशद्वीपे पुत्रनामाङ्कितानि वै ॥ ५३.२४ ॥
तत्रापि सप्त वर्षापि तेषां नामानि मे शृणु ।
उद्भिदं वैष्णवञ्चैव सुरथं लम्बनं तथा ॥ ५३.२५ ॥
धृतिमत्प्राकरञ्चैव कापिलं चापि सप्तमम् ।
वपुष्मतः सुताः सप्त शाल्मलेशस्य चाभवन् ॥ ५३.२६ ॥
श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ।
वैद्युतो मानसश्चैव केतुमान् सप्तमस्तथा ॥ ५३.२७ ॥
तथैव शाल्मलेस्तेषां समनामानि सप्त वै ।
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ॥ ५३.२८ ॥
येषां नामाङ्गितैर्वर्षैः प्लक्षद्वीपस्तु सप्तधा ।
पूर्वं शाकभवं वर्षं शिशिरन्तु सुखोदयम् ॥ ५३.२९ ॥
आनन्दञ्च शिवञ्चैव क्षेमकञ्च ध्रुवन्तथा ।
प्लक्षद्वीपादिभूतेषु शाकद्वीपान्तिमेषु वै ॥ ५३.३० ॥
ज्ञेयः पञ्चसु धर्मश्च वर्णाश्रमविभागजः ।
नित्यः स्वाभाविकश्चैव अहिंसाविधिवर्धितः ॥ ५३.३१ ॥
पञ्चस्वेतेषु वर्षेषु सर्वसाधारणः स्मृतः ।
अग्नीध्राय पिता पूर्वं जम्बुद्वीपं ददौ द्विज ॥ ५३.३२ ॥
तस्य पुत्रा बभूवुर्हि प्रजापतिसमा नव ।
ज्येष्ठो नाबिरिति ख्यातस्तस्य किम्पुरुषोऽनुजः ॥ ५३.३३ ॥
हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः ।
वश्यश्च पञ्चमः पुत्रो हिरण्यः षष्ठ उच्यते ॥ ५३.३४ ॥
कुरुस्तु सप्तमस्तेषां भद्राश्वश्चाष्टमः स्मृतः ।
नवमः केतुमालश्च तन्नाम्ना वर्षसंस्थितिः ॥ ५३.३५ ॥
यानि किपुरुषाद्यानि वर्जयित्वा हिमाह्वयम् ।
तेषां स्वबावतः सिद्धिः सुखप्राया ह्यत्नतः ॥ ५३.३६ ॥
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ।
धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥ ५३.३७ ॥
न वै चतुर्युगावस्था नार्तवा ऋतवो न च ।
आग्नीध्रसूनोर्नाभेस्तु ऋषभोऽभूत्सुतो द्विज ॥ ५३.३८ ॥
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताद्वरः ।
सोऽभिषिच्यर्षभः पुत्रं महाप्रव्राज्यमास्थितः ॥ ५३.३९ ॥
तपस्तेपे महाभागः पुलहाश्रमसंश्रयः ।
हिमाह्विं दक्षिणं वर्षं भरताय पिता ददौ ॥ ५३.४० ॥
तस्मात्तु भारतं वर्षं तस्य नान्मा महात्मनः ।
भतस्याप्यभूत्पुत्रः सुमतिर्नाम धार्मिकः ॥ ५३.४१ ॥
तस्मिन् राज्यं समावेश्य भरतोऽपि वनं ययौ ।
एतेषां पुत्रपौत्रैस्तु सप्तद्वीपा वसुन्धरा ॥ ५३.४२ ॥
प्रियव्रतस्य पुत्रैस्तु भुक्त्वा स्वायम्भुवेऽन्तरे ।
एष स्वायम्भुवः सर्गः कथितस्ते द्विजोत्तम ॥ ५३.४३ ॥
पूर्वमन्वन्तरे सम्यक्किमन्यत्कथयामि ते ॥ ५३.४४ ॥
इति श्रीमार्कण्डेयपुराणेठमन्वन्तरकथनंऽ नाम त्रिपञ्चाशोऽध्यायः