त्रिचत्वारिंशोऽध्यायः
दत्तात्रेय उवाच
अरिष्टानि महाराज ! शृणु वक्ष्यामि तानि ते ।
येषामालोकनान्मृत्युं निजं जानाति योगवित् ॥ ४३.१ ॥
देवमार्गं ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् ।
यो न पश्येन्न जीवेत्स नरः संवत्सरात्परम् ॥ ४३.२ ॥
अरश्मिबिम्बं सूर्यस्य वह्निं चैवांशुमालिनम् ।
दृष्ट्वै कादशमासात्तु नरो नोर्धन्तु जीवति ॥ ४३.३ ॥
वान्ते मूत्रपूरीषे च यः स्वर्णं रजतं तथा ।
प्रत्यक्षं कुरुते स्वप्ने जीवेत्स दशमासिकम् ॥ ४३.४ ॥
दृष्ट्वा प्रेतपिशाचादीन् गन्धर्वनगराणि च ।
सुवर्णवर्णान् वृक्षांश्च नव मासान् स जीवति ॥ ४३.५ ॥
स्थूलः कृशः कृशः स्थूलो योऽकस्मादेव जायते ।
प्रकृतेश्च निवर्तेत तस्यायुश्चाष्टमासिकम् ॥ ४३.६ ॥
खण्डं यस्य पदं पार्ष्णयां पादस्याग्रे च वा भवेत् ।
पांशुकर्दमयोर्मध्ये सप्त मासान् स जीवति ॥ ४३.७ ॥
गृध्रः कपोतः काकालो वायसो वापि मूर्धनि ।
क्रव्यादो वा खगो नीलः षण्मासायुः प्रदर्शकः ॥ ४३.८ ॥
हन्यते काकपङ्क्तीभिः पांशुवर्षेण वा नरः ।
स्वां च्छायामन्यथा दृष्ट्वा चतुः पञ्च स जीवति ॥ ४३.९ ॥
अनभ्रे विद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् ।
रात्राविन्द्रधनुश्चापि जीवितं द्वित्रिमासिकम् ॥ ४३.१० ॥
घृते तैले तथादर्शे तोये वा नात्मनस्तनुम् ।
यः पश्येदशिरस्कां वा मासादूर्ध्वं न जीवति ॥ ४३.११ ॥
यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा ।
तस्यार्धमासिकं ज्ञेयं योगिनो नृप ! जीवितम् ॥ ४३.१२ ॥
यस्य वै स्त्रमात्रस्य हृत्पादमवशुष्यते ।
पिबतश्च जलं शोषो दशाहं सोऽपि जीवति ॥ ४३.१३ ॥
सम्भिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति ।
हृष्यते नाम्बुसंस्पर्शात्तस्य मृत्युरुपस्थितः ॥ ४३.१४ ॥
ऋक्षवानरयानस्थो गायन् यो दक्षिणां दिशम् ।
स्वप्ने प्रयाति तस्यापि न मृत्युः कालमिच्छति ॥ ४३.१५ ॥
रक्तकृष्णाम्बरधरा गायन्ती हसती च यम् ।
दक्षिणाशान्नयेन्नारी स्वप्ने सोऽपि न जीवति ॥ ४३.१६ ॥
नग्नं क्षपणकं स्वप्ने हसमानं महाबलम् ।
एकं संवीक्ष्य वल्गन्तं विद्यान्मृत्युमुपस्थितम् ॥ ४३.१७ ॥
आमस्तकतलाद्यस्तु निमग्नं पङ्कसागरे ।
स्वप्ने पश्यत्यथात्मानं स सद्यो म्रियते नरः ॥ ४३.१८ ॥
केशाङ्गारांस्तथा भस्म भुजङ्गान्निर्जलां नदीम् ।
दृष्ट्वा स्वप्ने दशाहात्तु मृत्युरेकादशे दिने ॥ ४३.१९ ॥
करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः ।
पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन्नरः ॥ ४३.२० ॥
सूर्योदये यस्य शिवा क्रोशन्ती याति सम्मुखम् ।
विपरीतं परीतं वा स सद्यो मृत्युमृच्छति ॥ ४३.२१ ॥
यस्य वै भुक्तमात्रस्य हृदयं बाधते क्षुधा ।
जायते दन्तघर्षश्च स गतायुर्न संशयम् ॥ ४३.२२ ॥
दीपगन्धं न यो वेत्ति त्रस्यत्यह्नि तथा निशि ।
नात्मानं परनेत्रस्थं वीक्षते न स जीवति ॥ ४३.२३ ॥
शक्रायुधं चार्धरात्रे दिवा ग्रहगणन्तथा ।
दृष्ट्वा मन्येत सङ्क्षीणमात्मजीवितमात्मवित् ॥ ४३.२४ ॥
नासिका वक्रतामेति कर्णयोर्नमनोन्नती ।
नेत्रञ्च वामं स्त्रवति यस्य तस्यायुरुद्गतम् ॥ ४३.२५ ॥
आरक्ततामेति मुखं जिह्वा वा श्यामतां यदा ।
तदा प्राज्ञो विजानीयान्मृत्युमासन्नमात्मनः ॥ ४३.२६ ॥
उष्ट्ररासभयानेन यः स्वप्ने दक्षिणां दिशम् ।
प्रयाति तञ्च जानीयात्सद्योमृत्युं न संशयः ॥ ४३.२७ ॥
पिधाय कर्णौ निर्घोषं न शृणोत्यात्मसम्भवम् ।
नश्यते चक्षुषोर्ज्योतिर्यस्य सोऽपि न जीवति ॥ ४३.२८ ॥
पततो यस्य वै गर्ते स्वप्ने द्वारं पिधीयते ।
न चोत्तिष्ठति यः श्वभ्रात्तदन्तं तस्य जीवितम् ॥ ४३.२९ ॥
ऊर्ध्वा च दृष्टिर्न च सम्प्रतिष्ठा
रक्ता पुनः सम्परिवर्तमाना ।
मुखस्य चोष्मा शुषिरञ्च नाभेः
शंसन्ति पुंसामपरं शरीरम् ॥ ४३.३० ॥
स्वप्नेऽग्निं प्रविशेद्यस्तु न च निष्क्रमते पुनः ।
जलप्रवेशादपि वा तदन्तं तस्य जीवितम् ॥ ४३.३१ ॥
यश्चाभिहन्यते दुष्टैर्भूतै रात्रावथो दिवा ।
स मृत्युं सप्तरात्र्यन्ते नरः प्राप्रोत्यसंशयम् ॥ ४३.३२ ॥
स्ववस्त्रममलं शुक्लं रक्तं पश्यत्यथासितम् ।
यः पुमान्मृत्युमासन्नं तस्यापि हि विनिर्दिशेत् ॥ ४३.३३ ॥
स्वभाववैपरीत्यन्तु प्रकृतेश्च विपर्ययः ।
कथयन्ति मनुष्याणां सदासन्नौ यमान्तकौ ॥ ४३.३४ ॥
येषां विनीतः सततं येऽस्य पूज्यतमा मताः ।
तानेव चावजानाति तानेव च विनिन्दति ॥ ४३.३५ ॥
देवान्नार्चयते वृद्धान् गुरून् विप्रांश्च निन्दति ।
मातापित्रोर्न सत्कारं जामातॄणां करोति च ॥ ४३.३६ ॥
योगिनां ज्ञानविदुषामन्येषाञ्च महात्मनाम् ।
प्राप्ते तु काले पुरुषस्तद्विज्ञेयं विचक्षणैः ॥ ४३.३७ ॥
योगिनां सततं यत्नादरिष्टान्यवनीपते ।
संवत्सरान्ते तज्ज्ञेयं फलदानि दिवानिशम् ॥ ४३.३८ ॥
विलोक्या विशदा चैषां फलपङ्क्तिः सुभीषणा ।
विज्ञाय कार्यो मनसि स च कालो नरेश्वर ॥ ४३.३९ ॥
ज्ञात्व कालञ्च तं सम्यगभयस्थानमाश्रितः ।
युञ्जीत योगी कालोऽसौ यथा नास्याफलो भवेत् ॥ ४३.४० ॥
दृष्ट्वारिष्टं तथा योगी त्यक्त्वा मरणजं भयम् ।
तत्स्वभावं तदालोक्य काले यावत्युपागतम् ॥ ४३.४१ ॥
तस्य भागे तथैवाह्नो योगं युञ्जीत योगवित् ।
पूर्वाह्ने चापराह्ने च मध्याह्ने चापि तद्दिने ॥ ४३.४२ ॥
यत्र वा रजनीभागे तदरिष्टं निरीक्षितम् ।
तत्रैव तावद्युञ्जीत यावत्प्राप्तं हि तद्दिनम् ॥ ४३.४३ ॥
ततस्त्यक्त्वा भयं सर्वं जित्वा तं कालमात्मवान् ।
तत्रैवावसथे स्थित्वा यत्र वा स्थैर्यमात्मनः ॥ ४३.४४ ॥
युञ्जीत योगं निर्जित्य त्रीन् गुणान् परमात्मनि ।
तन्मयश्चात्मना भूत्वा चिद्वृत्तिमपि सन्त्यजेत् ॥ ४३.४५ ॥
ततः परमनिर्वाणमतीन्द्रियमगोचरम् ।
यद्बुद्धेर्यन्न चाख्यातुं शक्यते तत्समश्नुते ॥ ४३.४६ ॥
एतत्सर्वं समाख्यातं तवालर्क ! यथार्थवत् ।
प्राप्स्यसे येन तद्ब्रह्म सङ्क्षेपात्तन्निबोध मे ॥ ४३.४७ ॥
शशाङ्करश्मिसंयोगाच्छन्द्रकान्तमणिः पयः ।
समुत्सृजति नायुक्तः सोपमा योगिनः स्मृता ॥ ४३.४८ ॥
यच्चार्करश्मिसंयोगादर्ककान्तो हुताशनम् ।
आविष्करोति नैकः सन्नुपमा सापि योगिनः ॥ ४३.४९ ॥
पिपीलिकाखुनकुलगृहगोधाकपिञ्जलाः ।
वसन्ति स्वामिवद्गेहे ध्वस्ते यान्ति ततोऽन्यतः ॥ ४३.५० ॥
दुः खन्तु स्वामिनो ध्वंसे तस्य तेषां न किञ्चन ।
वेश्मनो यत्र राजेन्द्र ! सोपमा योगसिद्धये ॥ ४३.५१ ॥
मृद्वाहिकाल्पदेहापि मुखाग्रेणाप्यणीयसा ।
करोति मृद्भारचयमुपदेशः स योगिनः ॥ ४३.५२ ॥
पशुपक्षिमनुष्याद्यैः पत्रपुष्पफलान्वितम् ।
वृक्षं विलुप्यमानन्तु दृष्ट्वा सिध्यन्ति योगिनः ॥ ४३.५३ ॥
रुरुशावविषाणाग्रमालक्ष्य तिलकाकृतिम् ।
सह तेन विवर्धन्तं योगी सिद्धिमवाप्नुयात् ॥ ४३.५४ ॥
द्रवपूर्णमुपादाय पात्रमारोहतो भुवः ।
तुङ्गमार्गं विलोक्योच्चैर्विज्ञातं किं न योगिना ॥ ४३.५५ ॥
सर्वस्वे जीवनायालं निखाते पुरुषस्य या ।
चेष्टा तां तत्त्वतो ज्ञात्वा योगिनः कृतकृत्यता ॥ ४३.५६ ॥
तद्गृहं यत्र वसतिः तद्भोज्यं येन जीवति ।
येन सम्पद्यते चार्थस्तत्सुखं ममतात्र का ॥ ४३.५७ ॥
अभ्यर्थितोऽपि तैः कार्यं करोति करणैर्यथा ।
तथा बुध्यादिभिर्योगी पारक्यैः साधयेत्परम् ॥ ४३.५८ ॥
जड उवाच
ततः प्रणम्यात्रिपुत्रमलर्कः स महीपतिः ।
प्रश्रयावनतो वाक्यमुवाचातिमुदान्वितः ॥ ४३.५९ ॥
अलर्क उवाच
दिष्ट्यादेवैरिदं ब्रह्मन् ! पराभिभवसम्भवम् ।
उपपादितमत्युग्रं प्राणसन्देहदं भयम् ॥ ४३.६० ॥
दिष्ट्या काशिपतेर्भूरिबलसम्पत्पराक्रमः ।
यदुच्छेदादिहायातः स युष्मत्सङ्गदो मम ॥ ४३.६१ ॥
दिष्ट्या मन्दबलश्चाहं दिष्ट्या भृत्याश्च मे हताः ।
दिष्ट्या कोषः क्षयं योतो दिष्ट्याहं भीतिमागतः ॥ ४३.६२ ॥
दिष्ट्या त्वत्पादयुगलं मम स्मृतिपथं गतम् ।
दिष्ट्या त्वदुक्तयः सर्वा मम चेतसि संस्थितः ॥ ४३.६३ ॥
दिष्ट्या ज्ञानं ममोत्पन्नं भवतश्च समागमात् ।
भवता चैव कारुण्यं दिष्ट्या ब्रह्मन् ! कृतं मम ॥ ४३.६४ ॥
अनर्थोऽप्यर्थतां याति पुरुषस्य शुभोदये ।
यथेदमुपकाराय व्यसनं सङ्गमात्तव ॥ ४३.६५ ॥
सुबाहुरुपकारी मे स च काशिपतिः प्रभो ।
ययोः कृतेऽहं सम्प्राप्तो योगीश ! भवतोऽन्तिकम् ॥ ४३.६६ ॥
सोऽहन्तव प्रसादाग्निनिर्दग्धाज्ञानकिल्विषः ।
तथा यतिष्ये येनेदृङ्न भूयां दुः खभाजनम् ॥ ४३.६७ ॥
परित्यजिष्ये गार्हस्थ्यमार्तिपादपकाननम् ।
त्वत्तोऽनुज्ञां समासाद्य ज्ञानदातुर्महात्मनः ॥ ४३.६८ ॥
दत्तात्रेय उवाच
गच्छ राजेन्द्र ! भद्रं ते यथा ते कथितं मया ।
निर्ममो निरहङ्कारस्तथा चर विमुक्तये ॥ ४३.६९ ॥
जड उवाच
एवमुक्तः प्रणम्यैनमाजगाम त्वरान्वितः ।
यत्र काशिपतिर्भ्राता सुबाहुश्चास्य सोऽग्रजः ॥ ४३.७० ॥
समुत्पत्य महाबहुं सोऽलर्कः काशिभूपतिम् ।
सुबाहोरग्रतो वीरमुवाच प्रहसन्निव ॥ ४३.७१ ॥
राज्यकामुक काशीश ! भुज्यतां राज्यमूर्जितम् ।
तथा च रोचते तद्वत्सुबाहोः सम्प्रयच्छ वा ॥ ४३.७२ ॥
काशिराज उवाच
किमलर्क ! परित्यक्तं राज्यं ते संयुगं विना ।
क्षत्रियस्य न धर्मोऽयं भवांश्च क्षत्रधर्मवित् ॥ ४३.७३ ॥
निर्जितामात्यवर्गस्तु त्यक्त्वा मरणजं भयम् ।
सन्दधीत शरं राजा लक्ष्यमुद्दिश्य वैरिणम् ॥ ४३.७४ ॥
तं जित्वा नृपतिर्भोगान् यथाभिलषितान् वरान् ।
भुञ्जीत परमं सिद्ध्यै यजेत च महामखैः ॥ ४३.७५ ॥
अलर्क उवाच
एवमीदृशकं वीर ! ममाप्यासीन्मनः पुरा ।
साम्प्रतं विपरीतार्थं शृणु चाप्यत्र कारणम् ॥ ४३.७६ ॥
यथायं भौतिकः सङ्घस्तथान्तः करणं नृणाम् ।
गुणास्तु सकलास्तद्वदशेषेष्वेव जन्तुषु ॥ ४३.७७ ॥
चिच्छक्तिरेक एवायं यदा नान्योऽस्ति कश्चन ।
तदा का नृपते ज्ञानान्मित्रारिप्रभुभृत्यता ॥ ४३.७८ ॥
तन्मया दुः खमासाद्य त्वद्भयोद्भवमुत्तमम् ।
दत्तात्रेयप्रसादेन ज्ञानं प्राप्तं नरेश्वर ॥ ४३.७९ ॥
निर्जितेन्द्रियवर्गस्तु त्यक्त्वा सङ्गमशेषतः ।
मनो ब्रह्मणि सन्धाय तज्जये परमो जयः ॥ ४३.८० ॥
संसाध्यमन्यत्तत्सिद्ध्यै यतः किञ्चिन्न विद्यते ।
इन्द्रियाणि च संयम्य ततः सिद्धिं नियच्छति ॥ ४३.८१ ॥
सोऽहं न तेऽरिर्न ममासि शत्रुः
सुबाहुरेषो न ममापकारी ।
दृष्टं मया सर्वमिदं यथात्मा
अन्विष्यतां भूप ! रिपुस्त्वयान्यः ॥ ४३.८२ ॥
इत्थं स तेनाभिहितो नरेन्द्रो
हृष्टः समुत्थाय ततः सुबाहुः ।
दिष्ट्येति तं भ्रातरमाभिनन्द्य
काशीश्वरं वाक्यमिदं बभाषे ॥ ४३.८३ ॥
इति श्रीमार्कण्डेयपुराणे अरिष्टकथनं नाम त्रिचत्वारिंशोऽध्यायः