द्विचत्वारिंशोऽध्यायः
दत्तात्रेय उवाच
एवं यो वर्तते योगी सम्यग्योगव्यवस्थितः ।
न स व्यावर्तितुं शक्यो जन्मान्तरशतैरपि ॥ ४२.१ ॥
दृष्ट्वा च परमात्मानं प्रत्यक्षं विश्वरूपिणम् ।
विश्वपादशिरोग्रीवं विश्वेशं विश्वभावनम् ॥ ४२.२ ॥
तत्प्राप्तये महत्पुण्यमोमित्येकाक्षरं जपेत् ।
तदेवाध्ययनं तस्य स्वरूपं शृण्वतः परम् ॥ ४२.३ ॥
अकारश्च तथोकारो मकारश्चाक्षरत्रयम् ।
एता एव त्रयो मात्राः सात्त्वराजसतामसाः ॥ ४२.४ ॥
निर्गुणा योगिगम्यान्या चार्धमात्रोर्ध्वसंस्थिता ।
गान्धारीति च विज्ञेया गान्धारस्वरसंश्रया ॥ ४२.५ ॥
पिपीलिकागतिस्पर्शा प्रयुक्ता मूर्ध्नि लक्ष्यते ।
यथा प्रयुक्त ओङ्गारः प्रतिनिर्याति मूर्धनि ॥ ४२.६ ॥
तथोङ्कारमयो योगी त्वक्षरे त्वक्षरो भवेत् ।
प्राणो धनुः शरो ह्यात्मा ब्रह्म वेध्यमनुत्तमम् ॥ ४२.७ ॥
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।
ओमित्येतत्त्रयो वेदास्त्रयो लोकास्त्रयोऽग्नयः ॥ ४२.८ ॥
विष्णुर्ब्रह्माहरश्चैव ऋक्सामानि यजूंषि च ।
मात्राः सार्धाश्च तिस्त्रश्च विज्ञेयाः परमार्थतः ॥ ४२.९ ॥
तत्र युक्तस्तु यो योगी स तल्लयमवाप्नुयात् ।
अकारस्त्वथ भूर्लोक उकारश्चोच्यते भुवः ॥ ४२.१० ॥
सव्यञ्जनो मकारश्च स्वर्लोकः परिकल्प्यते ।
व्यक्ता तु प्रथमा मात्रा द्वितीयाव्यक्तसञ्ज्ञिता ॥ ४२.११ ॥
मात्रा तृतीया चिच्छक्तिरर्धमात्रा परं पदम् ।
अनेनैव क्रमेणैता विज्ञेया योगभूमयः ॥ ४२.१२ ॥
ओमित्युच्चारणात्सर्वं गृहीतं सदसद्भवेत् ।
ह्रस्वा तु प्रथमा मात्रा द्वितीया दैर्घ्यसंयुता ॥ ४२.१३ ॥
तृतीया च प्लुतार्धाख्या वचसः सा न गोचरा ।
इत्येतदक्षरं ब्रह्म परमोङ्कारसञ्ज्ञितम् ॥ ४२.१४ ॥
यस्तु वेद नरः सम्यक्तथा ध्यायति वा पुनः ।
संसारचक्रमुत्सृज्य त्यक्तत्रिविधबन्धनः ॥ ४२.१५ ॥
प्राप्रोति ब्रह्मणि लयं परमे परमात्मनि ।
अक्षीणकर्मबन्धश्च ज्ञात्वा मृत्युमरिष्टतः ॥ ४२.१६ ॥
उत्क्रान्तिकाले संस्मृत्य पुनर्योगित्वमृच्छति ।
तस्मादसिद्धयोगेन सिद्धयोगेन वा पुनः ।
ज्ञेयन्यरिष्टानि सदा येनोत्क्रान्तौ न सीदति ॥ ४२.१७ ॥
इति श्रीमार्कणाडेयपुराणे योगधर्मे ओङ्कारध्यायो नाम द्विचत्वारिंशोऽध्यायः