४१

एकचत्वारिशोऽध्यायः

अलर्क उवाच

भगवन् ! योगिनश्चर्यां श्रोतुमिच्छामि तत्त्वतः ।
ब्रह्मवर्त्मन्यनुसरन् यथा योगी न सीदति ॥ ४१.१ ॥

दत्तात्रेय उवाच

मानापमानौ यावेतौ प्रत्युद्वेगकरौ नृणाम् ।
तावेव विपरीतार्थौ योगिनः सिद्धिकारकौ ॥ ४१.२ ॥
मानापमानौ यावेतौ तावेवाहुर्विषामृते ।
अपमानोऽमृतं तत्र मानस्तु विषमं विषम् ॥ ४१.३ ॥
चक्षुः पूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाणीं बुद्धिपूतञ्च चिन्तयेत् ॥ ४१.४ ॥
आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च ।
महाजनञ्च सिद्ध्यर्थं न गच्छेद्योगवित्क्वचित् ॥ ४१.५ ॥
व्यस्ते विधूमे व्यङ्गारे सर्वस्मिन् भुक्तवज्जने ।
अटेत योगविद्भैक्ष्यं न तु त्रिष्वेव नित्यशः ॥ ४१.६ ॥
यथैवमवमन्यन्ते जनाः परिभवन्ति च ।
तथा युक्तश्चरेद्योगी सतां वर्त्म न दूषयन् ॥ ४१.७ ॥
भैक्ष्यञ्चरेद्गृहस्थेषु यायावरगृहेषु च ।
श्रेष्ठा तु प्रथमा चेति वृत्तिरस्योपदिश्यते ॥ ४१.८ ॥
अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः ।
श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ॥ ४१.९ ॥
अत ऊर्ध्वं पुश्चापि अदुष्टापतितेषु च ।
भैक्ष्यचर्या विवर्णेषु जघन्या वृत्तिरिष्यते ॥ ४१.१० ॥
भैक्ष्यं यवागूं तक्रं वा पयो यावकमेव वा ।
फलं मूलं प्रियङ्गुं वा कणपिण्याकसक्तवः ॥ ४१.११ ॥
इत्येते च शुभाहारा योगिनः सिद्धिकारकाः ।
तत्प्रयुञ्ज्यान्मुनिर्भक्त्या परमेण समाधिना ॥ ४१.१२ ॥
अपः पूर्वं सकृत्प्राश्य तूष्णीं भूत्वा समाहितः ।
प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता ॥ ४१.१३ ॥
अपानाय द्वितीया तु समानायते चापरा ।
उदानाय चतुर्थो स्याद्व्यानायेति च पञ्चमी ॥ ४१.१४ ॥
प्राणायामैः पृथक्कृत्वा शेषं भुञ्जीत कामतः ।
अपः पुनः सकृत्प्रश्य आचम्य हृदयं स्पृशेत् ॥ ४१.१५ ॥
अस्तेयं ब्रह्मचर्यञ्च त्यागोऽलोभस्तथैव च ।
व्रतानि पञ्च भिक्षूणामहिंसापरमाणि वै ॥ ४१.१६ ॥
अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ।
नित्यस्वाध्याय इत्येते नियमाः पञ्च कीर्तिताः ॥ ४१.१७ ॥
सारभूतमुपासीत ज्ञानं यत्कार्यसाधकम् ।
ज्ञानानां बहुता येयं योगविघ्रकरा हि सा ॥ ४१.१८ ॥
इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् ।
अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ॥ ४१.१९ ॥
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ।

पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ॥ ४१.२० ॥
शून्येष्वेवावकाशेषु गुहासु च वनेषु च ।
नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ॥ ४१.२१ ॥
वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः ।
यस्यैते नियता दण्डाः स त्रिदण्डी महायतिः ॥ ४१.२२ ॥
सर्वमात्ममयं यस्य सदसज्जगदीदृशम् ।
गुणागुणमयन्तस्य कः प्रियः को नृपाप्रियः ॥ ४१.२३ ॥
विसुद्धबुद्धिः समलोष्टकाञ्चनः
समस्तभूतेषु च तत्समाहितः ।
स्थानं परं शाश्वतमव्ययञ्च
परं हि मत्वा न पुनः प्रजायते ॥ ४१.२४ ॥
वेदाच्छ्रेष्ठाः सर्वयज्ञक्रियाश्च
यज्ञाज्जप्यं ज्ञानमार्गश्च जप्यात् ।
ज्ञानाद्ध्यानं सङ्गरागव्यपेतं
तस्मिन् प्राप्ते शाश्वतस्योपलब्धिः ॥ ४१.२५ ॥
समाहितो ब्रह्मपरोऽप्रमादी
सुचिस्तथैकान्तरतिर्यतेन्द्रियः ।
समाप्नुयाद्योगमिमं महात्मा
विमुक्तिमाप्रोति ततः स्वयोगतः ॥ ४१.२६ ॥

इति श्रीमार्कण्डेयपुराणे योगिचर्यानामैकचत्वारिंशोऽध्यायः