३९

‚†áञ् ।
युञ्जतश्च सदा योगं यादृग्विहितमासनम् ॥ ३९.२७ ॥
पद्ममर्धासनञ्चापि तथा स्वस्तिकमासनम् ।
आस्थाय योगं युञ्जीत कृत्वा च प्रणवं हृदि ॥ ३९.२८ ॥
समः समासनो भूत्वा संहृत्य चरणावुभौ ।
संवृतास्यस्तथैवोरू सम्यग्विष्टभ्य चाग्रतः ॥ ३९.२९ ॥
पार्ष्णिभ्यां लिङ्गवृषणावस्पृशन् प्रयतः स्थितः ।
किञ्चिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत् ॥ ३९.३० ॥
सम्पश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ।
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा ॥ ३९.३१ ॥
सञ्छाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित् ।
इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च ॥ ३९.३२ ॥
निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ।
यस्तु प्रत्याहरेत्कामान सर्वाङ्गानीव कच्छपः ॥ ३९.३३ ॥
सदात्मरतिरेकस्थः वश्यत्यात्मानमात्मनि ।
स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः ॥ ३९.३४ ॥
पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् ।
प्राणायामा दश द्वौ च धारणा साभिधीयते ॥ ३९.३५ ॥
द्वे धारणे स्मृते योगे योगिभिस्तत्त्वदृष्टिभिः ।
तथा वै योगयुक्तस्य योगिनो नियतात्मनः ॥ ३९.३६ ॥
सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते ।
वीक्षते च परं ब्रह्म प्राकृतांश्च गुणान् पृथक् ॥ ३९.३७ ॥
व्योमादिपरमाणूंश्च तथात्मानमकल्मषम् ।
इत्थं योगी यताहारः प्राणायामपरायणः ॥ ३९.३८ ॥
जितां जितां शनैर्भूमिमारोहेत यथा गृहम् ।
दोषान् व्याधींस्तथा मोहमाक्रान्ता भूरनिर्जिता ॥ ३९.३९ ॥
विवर्धयति नारोहेत्तस्माद्भूमिमनिर्जिताम् ।
प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः ॥ ३९.४० ॥
धारणेत्युच्यते चेयं धार्यते यन्मनो यथा ।
शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः ॥ ३९.४१ ॥
प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः ।
उपायश्चात्र कथितो योगिभिः परमर्षिभिः ॥ ३९.४२ ॥
येन व्याध्यादयो दोषा न जायन्ते हि योगिनः ।
यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः ॥ ३९.४३ ॥
आपिबेयुस्तथा वायुं पिबेद्योगी जितश्रमः ।
प्राङ्नाभ्यां हृदये चात्र तृतीये च तथोरसि ॥ ३९.४४ ॥
कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्धसु ।
किञ्च तस्मात्परस्मिंश्च धारणा परमा स्मृता ॥ ३९.४५ ॥
दशैता धारणा प्राप्य प्राप्रोत्यक्षरसाम्यताम् ।
नाध्मातः क्षुधितः श्रान्तो न च व्याकुलचेतनः ॥ ३९.४६ ॥
युञ्जीत योगं राजेन्द्र ! योगी सिद्ध्यर्थमादृतः ।
नातिशीते न चोष्णे वै न द्वन्द्वे नानिलात्मके ॥ ३९.४७ ॥
कालेष्वेतेषु युञ्जीत न योगं ध्यानतत्परः ।
सशब्दाग्निजालभ्यासे जीर्णगोष्ठे चतुष्पथे ॥ ३९.४८ ॥
शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे ।
सभये कूपतीरे वा चैत्यवल्मीकसञ्चये ॥ ३९.४९ ॥
देशेष्वेतेषु तत्त्वज्ञो योगाभ्यासं विवर्जयेत् ।
सत्त्वस्यानुपपत्तौ च देशकालं विवर्जयेत् ॥ ३९.५० ॥
नासतो दर्शनं योगे तस्मात्तत्परिवर्जयेत् ।
देशानेताननादृत्य मूढत्वाद्यो युनक्ति वै ॥ ३९.५१ ॥
विघ्राय तस्य वै दोषा जायन्ते तन्निबोध मे ।
बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता ॥ ३९.५२ ॥
ज्वरश्च जायते सद्यस्तत्तदज्ञानयोगिनः ।
प्रमादाद्योगिनो दोषा यद्येते स्युश्चिकित्सितम् ॥ ३९.५३ ॥
तेषां नाशाय कर्तव्यं योगिनां तन्निबोध मे ।
स्त्रिग्धां यवागूमत्युष्णां भुक्त्वा तत्रैव धारयेत् ॥ ३९.५४ ॥
वातगुल्मप्रशान्त्यर्थमुदावर्ते तथोदरे ।

यवागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत् ॥ ३९.५५ ॥
तद्वत्कम्पे महाशैलं स्थिरं मनसि धारयेत् ।
विघाते वचसो वाचं बाधिर्ये श्रवणेन्द्रियम् ॥ ३९.५६ ॥
यथैवाम्रफलं ध्यायेत्तृष्णार्तो रसनेन्द्रिये ।
यस्मिन् यस्मिन् रुजा देहे तस्मिंस्तदुपकारिणीम् ॥ ३९.५७ ॥
धारयेद्धारणामुष्णे शीतां शीते च दाहिनीम् ।
कीलं शिरसि संस्थाप्य काष्ठं काष्ठेन ताडयेत् ॥ ३९.५८ ॥
लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ।
द्यावापृथिव्यौ वाय्वग्री व्यापिनावपि धारयेत् ॥ ३९.५९ ॥
अमानुषात्सत्त्वजाद्वा बाधास्त्वेताश्चिकित्सिताः ।
अमानुषं सत्त्वमन्तर्योगिनं प्रविशेद्यदि ॥ ३९.६० ॥
वाय्वग्रीधारणेनैनं देहसंस्थं विनिर्दहेत् ।
एवं सर्वात्मना रक्षा कार्या योगविदा नृप ! ॥ ३९.६१ ॥
धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ।
प्रवृत्तिलक्षणाख्यानाद्योगिनो विस्मयात्तथा ।
विज्ञानं विलयं याति तस्माद्गोप्याः प्रवृत्तयः ॥ ३९.६२ ॥
आलोल्यमारोग्यमनिष्ठुरत्वं
गन्धः शुभो मूत्रपुरीषमल्पम् ।
कान्तिः प्रसादः स्वरसौम्यता च
योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ ३९.६३ ॥
अनुरागी जनो याति परोक्षे गुणकीर्तनम् ।
न बभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् ॥ ३९.६४ ॥
शीतोष्णादिभिरत्युग्रैर्यस्य बाधा न विद्यते ।
न भीतिमेति चान्येभ्यस्तस्य सिद्धिरुपस्थिता ॥ ३९.६५ ॥

इति श्रीमार्कण्डेयपुराणे जडोपाख्याने योगाध्यायो नामैकोनचत्वारिंशोऽध्यायः