सप्तत्रिंशोऽध्यायः
जड उवाच
सोऽप्यलर्को यथान्यायं पुत्रवन्मुदिताः प्रजाः ।
पालयामास धर्मात्मा स्वे स्वे कर्मण्यवस्थिताः ॥ ३७.१ ॥
दुष्टैषु दण्डं शिष्टेषु सम्यक्च परिपालनम् ।
कुर्वन् परां मुदं लेभे इयाज च महामखैः ॥ ३७.२ ॥
अजायन्त सुताश्चास्य महाबलपराक्रमाः ।
धर्मात्मानो माहत्मानो विमार्गपरिपन्थिनः ॥ ३७.३ ॥
चकार सोर्ऽथं धर्मेण धर्ममर्थेन वा पुनः ।
तयोश्चैवाविरोधेन बुभुजे विषयानपि ॥ ३७.४ ॥
एवं बहूनि वर्षाणि तस्य पालयतो महीम् ।
धर्मार्थकामसक्तस्य जग्मुरेकमहर्यथा ॥ ३७.५ ॥
वैराग्यं नास्य सञ्जज्ञे भुञ्जतो विषयान् प्रियान् ।
न चाप्यलमभूत्तस्य धर्मार्थोपार्जनं प्रति ॥ ३७.६ ॥
तं तथा भोगसंसर्गप्रमत्तमजितेन्द्रियम् ।
सुबाहुर्नाम शुश्राव भ्राता तस्य वनेचरः ॥ ३७.७ ॥
तं बुबोधयिषुः सोऽथ चिरं ध्यात्वा महीपतिः ।
तद्वैरिसंश्रयं तस्य श्रेयोऽमन्यत भूपतेः ॥ ३७.८ ॥
ततः स काशिभूपालमुदीर्णबलवाहनम् ।
स्वराज्यं प्राप्तुमागच्छद्बहुशः शरणं कृती ॥ ३७.९ ॥
सोऽपि चक्रे बलोद्योगमलर्कं प्रति पार्थिवः ।
दूतञ्च प्रेषयामास राज्यमस्मै प्रदीयताम् ॥ ३७.१० ॥
सोऽपि नैच्छत्तदा दातुमाज्ञापूर्वं स्वधर्मवित् ।
प्रत्युवाच च तं दूतमलर्कः काशिभूभृतः ॥ ३७.११ ॥
मामेवाभ्येत्य हार्देन याचतां राज्यमग्रजः ।
नाक्रान्त्या सम्प्रदास्यामि भयेनाल्पामपि क्षितिम् ॥ ३७.१२ ॥
सुबाहुरपि नो याञ्चां चकार मतिमांस्तदा ।
न धर्मः क्षत्रियस्येति याञ्चा वीर्यधनो हि सः ॥ ३७.१३ ॥
ततः समस्तसैन्येन काशीशः परिवारितः ।
आक्रान्तुमभ्यगाद्राष्ट्रमलर्कस्य महीपतेः ॥ ३७.१४ ॥
अनन्तरैश्च संश्लेषमभ्येत्य तदनन्तरम् ।
तेषामन्यतमैर्भृत्यैः समाक्रम्यानयद्वशम् ॥ ३७.१५ ॥
अपीडयंश्च सामान्तांस्तस्य राष्ट्रोपरोधनैः ।
तथा दुर्गानुपालांश्च चक्रे चाटविकान् वशे ॥ ३७.१६ ॥
कांश्चिच्चोपप्रदानेन कांश्चिद्भेदेन पार्थिवान् ।
साम्नैवान्यान् वशं निन्ये निभृतास्तस्य येऽभवन् ॥ ३७.१७ ॥
ततः सोऽल्पबलो राजा परचक्रावपीजितः ।
कोषक्षयमवापोच्चैः पुरञ्चारुध्यतारिणा ॥ ३७.१८ ॥
इत्थं सम्पीड्यमानस्तु क्षीणकोषो दिने दिने ।
विषादमागात्परमं व्याकुलत्वञ्च चेतसः ॥ ३७.१९ ॥
आर्ति स परमां प्राप्य तत्सस्माराङ्गुलीयकम् ।
यदुद्दिश्य पुरा प्राह माता तस्य मदालसा ॥ ३७.२० ॥
ततः स्त्रातः शुचिर्भूत्वा वाचयित्वा द्विजोत्तमान् ।
निष्कृष्य शासनं तस्माद्ददृशे प्रस्फुटाक्षरम् ॥ ३७.२१ ॥
तत्रैव लिखितं मात्रा वाचयामास पार्थिवः ।
प्रकाशपुलकाङ्गोऽसौ प्रहर्षोत्फुल्ललोचनः ॥ ३७.२२ ॥
सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ।
स सदिभः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥ ३७.२३ ॥
कामः सर्वात्मना हेयो हातुञ्चेच्छक्यते न सः ।
मुमुक्षां प्रति तत्कार्यं सैव तस्यापि भेषजम् ॥ ३७.२४ ॥
वाचयित्वा तु बहुशो नृणां श्रेयः कथं त्विति ।
मुमुक्षयेति निश्चित्य सा च तत्सङ्गतो यतः ॥ ३७.२५ ॥
ततः स साधुसम्पर्कं चिन्तयन् पृथिवीपतिः ।
दत्तात्रेयं महाभागमगच्छत्परमार्तिमान् ॥ ३७.२६ ॥
तं समेत्य महात्मानमकल्पषमसङ्गिनम् ।
प्रणिपत्याभिसम्पूज्य यथान्यायमभाषत ॥ ३७.२७ ॥
ब्रह्मन् ! कुरु प्रसादं मे शरणं शरणार्थिनाम् ।
दुः खापहारं कुरु मे दुः खार्तस्यातिकामिनः ॥ ३७.२८ ॥
दुः खापहारमद्यैव करोमि तव पार्थिव ! ।
सत्यं ब्रूहि किमर्थं ते दुः खं तत्पृथिवीपते ॥ ३७.२९ ॥
जड उवाच
इत्युक्तश्चिन्तयामास स राजा तेन धीमता ।
त्रिविधस्यापि दुः खस्य स्थानमात्मानमेव च ॥ ३७.३० ॥
स विमृष्य चिरं राजा पुनः पुनरुदारधीः ।
आत्मानमात्मना धीरः प्रहस्येदमथाब्रावीत् ॥ ३७.३१ ॥
नाहमुर्वो न सलिलं न ज्योतिरनिलो न च ।
नाकाशं किन्तु शारीरं समेत्य सुखमिष्यते ॥ ३७.३२ ॥
न्यूनातिरिक्ततां याति पञ्चकेऽस्मिन् सुखासुखम् ।
यदि स्यान्म किन्न स्यादन्यस्थेऽपि हि तन्मयि ॥ ३७.३३ ॥
नित्यप्रभूतसद्भावे न्यूनाधिक्यान्नतोन्नते ।
तथा च ममतात्यक्ते विशेषो नोपलभ्यते ॥ ३७.३४ ॥
तन्मात्रावस्थिते सूक्ष्मे तृतीयांशे च पश्यतः ।
तथैव भूतसद्भावं शरीरं किं सुखासुखम् ॥ ३७.३५ ॥
मनस्यवस्थितं दुःखं सुखं वा मानसञ्च यत् ।
यतस्ततो न मे दुः खं सुखं वा नह्यहं मनः ॥ ३७.३६ ॥
नाहङ्कारो न च मनो बुद्धिर्नाहं यतस्ततः ।
अन्तः करणजं दुः खं पारख्यं मम तत्कथम् ॥ ३७.३७ ॥
नाहं शरीरं न मनो यतोऽहं
पृथक्शरीरान्मनसस्तथाहम् ।
तत्सन्तु चेतस्यथवापि देहे
सुखानि दुः खानि च किं ममात्र ॥ ३७.३८ ॥
राज्यस्य वाञ्छां सुरुतेऽग्रजोऽस्य
देहस्य चेत्पञ्चमयः स राशिः ।
गुणप्रवृत्त्या मम किन्नु तत्र
तत्स्थः स चाहञ्च शरीरतोऽन्यः ॥ ३७.३९ ॥
न यस्य हस्तादिकमप्यशेषं
मांसं न चास्थीनि खिराविभागः ।
कस्तस्य नागाश्वरथादिकोषैः
स्वल्पोऽपि सम्बन्ध इहास्ति पुंसः ॥ ३७.४० ॥
तस्मान्न मेऽरिर्न च मेऽस्ति दुः खं
न मे सुखं नापि पुरं न कोषम् ।
न चाश्वनागादि बलं न तस्य
नान्यस्य वा कस्यचिद्वा ममास्ति ॥ ३७.४१ ॥
यथा घटीकुम्भकमण्डलुस्थम्
आकाशमेकं बहुधा हि दृष्टम् ।
तथा सुबाहुः स च काशिपोऽहं
मल्ये च देहेषु शरीरभेदैः ॥ ३७.४२ ॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे आत्मविवेको नाम सप्तत्रिंशोऽध्यायः