३६

षट्त्रिंशोऽध्यायः

जड उवाच

स एवमनुशिष्टः सन्मात्रा सम्प्राप्य यौवनम् ।
ऋतध्वजसुतश्चक्रे सम्यग्दारपरिग्रहम् ॥ ३६.१ ॥
पुत्रांश्चोत्पादयामास यज्ञैश्चाप्ययजद्विभुः ।
पितुश्च सर्वकालेषु चकाराज्ञानुपालनम् ॥ ३६.२ ॥
ततः कालेन महता सम्प्राप्य चरमं वयः ।
चक्रेऽभिषेकं पुत्रस्य तस्य रज्ये ऋतध्वजः ॥ ३६.३ ॥
भार्यया सह धर्मात्मा यियासुस्तपसे वनम् ।
अवतीर्णो महारक्षो महाभागो महीपतिः ॥ ३६.४ ॥
मदालसा च तनयं प्राहेदं पश्चिमं वच ।
कामोपभोगसंसर्गप्रहाणाय सुतस्य वै ॥ ३६.५ ॥

मदालसोवाच

यदा दुः खमसह्यं ते प्रियबन्धुवियोगजम् ।
शत्रुबाधोद्भवं वापि वित्तनाशात्मसम्भवम् ॥ ३६.६ ॥
भवेत्तत्कुर्वतो राज्यं गृहधर्मावलम्बिनः ।
दुः खायतनभूतो हि ममत्वालम्बनो गृही ॥ ३६.७ ॥
तदास्मात्पुत्र ! निष्कृष्य मद्दत्तादङ्गुलीयकात् ।
वाच्यं ते शासनं पट्टे सूक्ष्माक्षरनिवेशितम् ॥ ३६.८ ॥

जड उवाच

इत्युक्त्वा प्रददौ तस्मै सौवर्णं साङ्गुलीयकम् ।
आशिषश्चापि या योग्याः परुषस्य गृहे सतः ॥ ३६.९ ॥
ततः कुबलयाश्वोऽसौ सा च देवी मदालसा ।
पुत्राय दत्त्वा तद्राज्यं तपसे काननं गतौ ॥ ३६.१० ॥