३५

पञ्चत्रिंशोऽध्यायः

मदालसोवाच

अतः परं शृणुष्व त्वं वर्ज्यावर्ज्यप्रतिक्रियाम् ।
भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसम्भृतम् ॥ ३५.१ ॥
अस्नेहाश्चापि गोधूमयवगोरसविक्रियाः ।

शशकः कच्छपो गोधा श्वावित्खड्गोऽथ पुत्रक ॥ ३५.२ ॥
भक्ष्या ह्येते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ ।
पितृदेवादिशेषश्च श्राद्धे ब्राह्मणकाम्यया ॥ ३५.३ ॥
प्रोक्षितञ्चौषधार्थञ्च खादन्मांसं न दुष्यति ।
शङ्खाश्मस्वर्णरूप्याणां रज्जूनामथ वाससाम् ॥ ३५.४ ॥
शाकमूलफलानाञ्च तथा विदलचर्मणाम् ।
मणिवज्रप्रवालानान्तथा मुक्ताफलस्य च ॥ ३५.५ ॥
गात्राणाञ्च मनुष्याणामम्बुना शौचमिष्यते ।
यथायसानां तोयेन ग्राव्णः सङ्घर्षणेन च ॥ ३५.६ ॥
सस्त्रेहानाञ्च भाण्डानां शुद्धिरुष्णेन वारिणा ।
शूर्पधान्याजिनानाञ्च मुषलोलूखलस्य च ॥ ३५.७ ॥
संहतानाञ्च वस्त्राणां प्रोक्षणात्सञ्चयस्य च ।
वल्कलानामशेषाणामम्बुमृच्छौचमिष्यते ॥ ३५.८ ॥
तृणकाष्ठौषधीनाञ्च प्रोक्षणात्शुद्धिरिष्यते ।
आविकानां समस्तानां केशानाञ्चापि मेध्यता ॥ ३५.९ ॥
सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।
साम्बुना तात ! भवति उपघातवतां सदा ॥ ३५.१० ॥
तथा कार्पासिकानाञ्च विशुद्धिर्जलभस्मना ।
दारुदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यते ॥ ३५.११ ॥
पुनः पाकेन भाण्डानां पार्थिवानाञ्च मेध्यता ।
शुचिर्भैक्षं कारुहस्तः पण्यं योषिन्मुखं तथा ॥ ३५.१२ ॥
रथ्यागतमविज्ञातं दासवर्गादिनाहृतम् ।
वाक्रप्रशास्तं चिरातीतमनेकान्तरितं लघु ॥ ३५.१३ ॥
अतिप्रभूतं बालञ्च वृद्धातुरविचेष्टितम् ।
कर्मान्ताङ्गाराशालाश्च स्तनन्धयसुताः स्त्रियः ॥ ३५.१४ ॥
शुचिन्यश्च तथैवापः स्त्रन्त्योऽगन्धबुद्बुदाः ।
भूमिर्विशुध्यते कालाद्दाहमार्जनगोक्रमैः ॥ ३५.१५ ॥
लेपादुल्लेखनात्सेकाद्वेश्मसम्मार्जनार्चनात् ।
केशकीटावपन्ने च गोघ्राते मक्षिकान्विते ॥ ३५.१६ ॥
मृदम्बुभस्मना तात ! प्रोक्षितव्यं विशुद्धये ।
औदुम्बराणामम्लेन क्षारेण त्रपुसीसयोः ॥ ३५.१७ ॥
भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावाद्द्रवस्य च ।
अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ॥ ३५.१८ ॥
अन्येषाञ्चैव तद्द्रव्यैर्वर्णगन्धापहारतः ।
शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ॥ ३५.१९ ॥
तथा मांसञ्च चण्डालक्राव्यादादिनिपातितम् ।
रथ्यागतञ्च चेलादि तात ! वातात्शुचि स्मृतम् ॥ ३५.२० ॥
रजोऽग्निरश्वो गौश्छाया रश्मयः पवनो मही ।
विप्रुषो मक्षिकाद्याश्च दुष्टसङ्गाददोषिणः ॥ ३५.२१ ॥
अजाश्वौ मुखतो मेध्यौ न गोर्वत्सस्य चाननम् ।
मातुः प्रस्त्रवणं मेध्यं शकुनिः फलपातने ॥ ३५.२२ ॥
आसनं शयनं यानं नावः पथि तृणानि च ।
सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् ॥ ३५.२३ ॥
रथ्यावसर्पणस्त्रानक्षुत्पानम्लानकर्मसु ।
आचामेत यथान्यायं वासो विपरिधाय च ॥ ३५.२४ ॥
स्पृष्टानामप्यसंसर्गैर्विरथ्याकर्दमाम्भसाम् ।
पक्वेष्टरचितानाञ्च मेध्यता वायुसङ्गमात् ॥ ३५.२५ ॥
प्रभूतोपहतादन्नादग्रमुद्धृत्य सन्त्यजेत् ।
शेषस्य प्रोक्षणं कुर्यादाचम्यादिभस्तथा मृदा ॥ ३५.२६ ॥
उपवासस्त्रिरात्रन्तु दुष्टभक्ताशिनो भवेत् ।
अज्ञाते ज्ञानपूर्वन्तु तद्दोषोपशमेन तु ॥ ३५.२७ ॥
उदक्याश्वशृगालादीन् सूतिकान्त्यावसायिनः ।
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥ ३५.२८ ॥
नारं स्पृष्ट्वास्थि सस्त्रेहं स्त्रातः शुध्यति मानवः ।
आचम्यैव तु निः स्त्रेहं गामालभ्यार्कमीक्ष्य वा ॥ ३५.२९ ॥
न लङ्घयेत्तथैवासृक्ष्ठीवनोद्वर्तनानि च ।
नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत्कदाचन ॥ ३५.३० ॥
न चालपेज्जनद्विष्टां वीरहीनान्तथा स्त्रियम् ।
गृहादुच्छिष्टविण्मूत्रपादाम्भांसि क्षिपेद्वहिः ॥ ३५.३१ ॥
पञ्च पिण्डाननुधृत्य न स्त्रायात्परवारिणि ।
स्त्रायीत देवखातेषु गङ्गाह्रदृसरित्सु च ॥ ३५.३२ ॥
देवतापितृसच्छास्त्रयज्ञमन्त्रादिनिन्दकैः ।
कृत्वा तु स्पर्शनालापं शुध्येतार्कावलोकनात् ॥ ३५.३३ ॥
अवलोक्य तथोदक्यामन्त्यजं पतितं शवम् ।
विधर्मिसूतिकाषण्डविवस्त्रान्त्यावसायिनः ॥ ३५.३४ ॥
सूतनिर्यातकांश्चैव परदाररताश्च ये ।
एतदेव हि कर्तव्यं प्राज्ञैः शोधनमात्मनः ॥ ३५.३५ ॥
अभोज्यं सूतिकाषण्डमार्जाराखुश्वकुक्कुटान् ।
पतिताविद्धचण्डालमृतहारांश्च धर्मवित् ॥ ३५.३६ ॥
संस्पृश्य शुध्यते स्त्रानादुदक्या ग्रामशूकरौ ।
तद्वच्च सूतिकाशौचदूषितौ पुरुषावपि ॥ ३५.३७ ॥
यस्य चानुदिनं हानिर्गृहे नित्यस्य कर्मणः ।
यश्च ब्राह्मणसन्त्यक्तः किल्विषी स नराधमः ॥ ३५.३८ ॥
नित्यस्य कर्मणो हानिं न कुर्वोत कदाचन ।
तस्य त्वकरणे बन्धः केवलं मृतजन्मसु ॥ ३५.३९ ॥
दशाहं ब्राह्मणस्तिष्ठेद्दानहोमादिवर्जितः ।
क्षत्रियो द्वादशाहञ्च वैश्यो मासार्धमेव च ॥ ३५.४० ॥
शूद्रस्तु मासमासीत निजकर्मविवर्जितः ।
ततः परं निजं कर्म कुर्युः सर्वे यथोदितम् ॥ ३५.४१ ॥
प्रोताय सलिलं देयं बहिर्दग्ध्वा तु गोत्रिकैः ।
प्रथमेऽह्नि चतुर्थे च सप्तमे नवमे तथा ॥ ३५.४२ ॥
भस्मास्थिचयनं कार्यं चतुर्थे गोत्रिकैर्दिने ।
उर्ध्वं सञ्चयनात्तेषामङ्गस्पर्शो विधीयते ॥ ३५.४३ ॥
सोदकैस्तु क्रियाः सर्वाः कार्याः सञ्चयनात्परम् ।
स्पर्श एव सपिण्डानां मृताहनि तथोभयोः ॥ ३५.४४ ॥
अन्वेकमृक्षमाशस्त्रतोयोद्बन्धनवह्निषु ।
विषप्रपातादिमृते प्रायोनाशकयोरपि ॥ ३५.४५ ॥
बाले देशान्तरस्थे च तथा प्रव्रजिते मृते ।
सद्यः शौचमथान्यैश्च त्र्यहमुक्तमशौचकम् ॥ ३५.४६ ॥
सपिण्डानां सपिण्डस्तु मृतेऽन्यस्मिन्मृतो यदि ।
पूर्वाशौचसमाख्यातैः कार्यास्त्वत्र दिनैः क्रियाः ॥ ३५.४७ ॥
एष एव विधिर्दृष्टो जन्मन्यपि हि सूतके ।
सपिण्डानां सपिण्डेषु यथावत्सोदकेषु च ॥ ३५.४८ ॥
जाते पुत्रे पितुः स्त्रानं सचेलन्तु विधीयते ।
तत्रापि यदि चान्यस्मिन् जाते जायेत चापरः ॥ ३५.४९ ॥
तत्रापि शुद्धिरुद्दिष्टा पूर्वजन्मवतो दिनैः ।
दशद्वादशमासार्धमाससङ्ख्यैर्दिनैर्गतैः ॥ ३५.५० ॥
स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि ।
प्रेतमुद्दिश्य कर्तव्यमेकोद्दिष्टं ततः परम् ॥ ३५.५१ ॥
दाननि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः ।
यद्यदिष्टतमं लोके यच्चापि ययितं गृहे ॥ ३५.५२ ॥
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ।
पूर्णैस्तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधम् ॥ ३५.५३ ॥
प्रतोददण्डौ च तथा सम्यग्वर्णाः कृतक्रियाः ।
स्ववर्णधर्मनिर्दिष्टमुपादानं तथा क्रियाः ॥ ३५.५४ ॥
कुर्युः समस्ताः शुचिनः परत्रेह च भूतिदाः ।
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ॥ ३५.५५ ॥
धर्मतो धनमाहार्यं यष्टव्यञ्चापि यत्नतः ।
यच्चापि कुर्वतो नात्मा जुगुप्सामेति पुत्रक ! ॥ ३५.५६ ॥
तत्कर्तव्यमशङ्केन यन्न गोप्यं महाजने ।
एवमाचरतो वत्स ! पुरुषस्य गृहे सतः ।
धर्मार्थकामसम्प्राप्त्या परत्रेह च शोभनम् ॥ ३५.५७ ॥

इति श्रीमार्कण्डेयपुराणेऽलर्कानुशासने वर्ज्यावर्ज्यनामा पञ्चत्रिंशोऽध्यायः