त्रयस्त्रिंशोऽध्यायः
मदालसोवाच
प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा ।
वरार्थिनी तृतीया तु चतुर्थो शत्रुनाशिनी ॥ ३३.१ ॥
श्रियं प्राप्रोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन्नरः ।
गणाधिपत्यं सप्तम्यामष्टम्यां वृद्धिमुत्तमाम् ॥ ३३.२ ॥
स्त्रियो नवम्यां प्राप्रोति दशम्यां पूर्णकामताम् ।
वेदांस्तथाप्नुयात्सर्वानेकादश्यां क्रियापरः ॥ ३३.३ ॥
द्वादश्यां जयलाभञ्च प्राप्रोति पितृपूजकः ।
प्रजां मेधां पशुं वृद्धिं स्वतन्त्र्यं पुष्टमुत्तमाम् ॥ ३३.४ ॥
दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।
अवाप्रोति न सन्देहः श्राद्धं श्रद्धापरो नरः ॥ ३३.५ ॥
यथासम्भावितान्नेन श्राद्धसम्पत्समन्वितः ।
युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ॥ ३३.६ ॥
तेन कार्यं चतुर्दश्यां तेषां प्रीतिमभीप्सता ।
श्राद्धं कुर्वन्नमावास्यां यत्नेन पुरुषः शुचिः ॥ ३३.७ ॥
सर्वान् कामानवाप्रोति स्वर्गञ्चानन्तमश्नुते ।
कुत्तिकासु पितॄनर्च्य स्वर्गमाप्रोति मानवः ॥ ३३.८ ॥
अपत्यकामो रोहिण्यां सौम्ये चौजस्वितां लभेत् ।
शौर्यमार्द्रासु चाप्रोति क्षेत्रादि च पुनर्वसौ ॥ ३३.९ ॥
पुष्टिं पुष्ये सदाभ्यर्च्य आश्लेषासु वरान् सुतान् ।
मघासु स्वजनश्रैष्ठ्यं सौभाग्यं फाल्गुनीषु च ॥ ३३.१० ॥
प्रदानशीलो भवति सापत्यश्चोत्तरासु च ।
प्रयाति श्रेष्ठतां सत्यं हस्ते श्राद्धप्रदो नरः ॥ ३३.११ ॥
रूपयुक्तश्च चित्रासु तथापत्यान्यवाप्नुयात् ।
वाणिज्यलाभदा स्वातिर्विशाखा पुत्रकामदा ॥ ३३.१२ ॥
कुर्वन्तश्चानुराधासु लभन्ते चक्रावर्तिताम् ।
आधिपत्यञ्च ज्येष्ठासु मूले चारोग्यमुत्तमम् ॥ ३३.१३ ॥
आषाढासु यशः प्राप्तिरुत्तरासु विशोकता ।
श्रवणे च शुभान् लोकान् धनिष्ठासु धनं महत् ॥ ३३.१४ ॥
वेदवित्त्वमभिजिति भिषक्सिद्धन्तु वारुणे ।
अजाविकं प्रौष्ठपदे विन्देद्गास्तु तथोत्तरे ॥ ३३.१५ ॥
रेवतीषु तथा कुप्यमश्विनीषु तुरङ्गमान् ।
श्राद्धं कुर्वंस्तथाप्रोति भरणीष्वायुरुत्तमम् ।
तस्मात्काम्यानि कुर्वोत ऋक्षेष्वेतेषु तत्त्ववित् ॥ ३३.१६ ॥
इति श्रीमार्कण्डेयपुराणे काम्यश्राद्धफलकथनं नाम त्रयस्त्रिंशोऽध्यायः