३२

द्वात्रिंशोऽध्यायः

मदालसोवाच

अतः परं शृणुष्वेमं पुत्र ! भक्त्या यदाहृतम् ।
पितॄणां प्रीतये यद्वा वर्ज्यं वा प्रीतिकारकम् ॥ ३२.१ ॥
मासं पितॄणां तृप्तिश्च हविष्यान्नेन जायते ।
मासद्वयं मत्स्यमांसैस्तृप्तिं यान्ति पितामहाः ॥ ३२.२ ॥
त्रीन्मासान् हारिणां मांसं विज्ञेयं पितृतृप्तये ।
चतुर्मासांस्तु पुष्णाति शशस्य पिशितं पितॄन् ॥ ३२.३ ॥
शाकुनं पञ्च वै मासान् षण्मासान् शूकरामिषम् ।
छागलं सप्त वै मासानैणेयञ्चाष्टमासिकीम् ॥ ३२.४ ॥
करोति तृप्तिं नव वै रुरोर्मांसं न संशयः ।
गवयस्यामिषं तृप्तिं करोति दशमासिकीम् ॥ ३२.५ ॥
तथैकादशमासंस्तु औरभ्रं पितृतृप्तिदम् ।
संवत्सरं तथा गव्यं पयः पायसमेव वा ॥ ३२.६ ॥
वाध्रीणसामिषं लौहं कालशाकन्तथा मधु ।
दौहित्रामिषमन्यच्च यच्चान्यत्स्वकुलोद्भवैः ॥ ३२.७ ॥
अनन्तां वै प्रयच्छन्ति तृप्तिं गौरीसुतस्तथा ।
पितॄणां नात्र सन्देहो गायाश्राद्धञ्च पुत्रक ॥ ३२.८ ॥
श्यामाकराजश्यामाकौ तद्वच्चैव प्रसातिकाः ।
नीवाराः पौष्कलाश्चैव धान्यानां पितृतृप्तये ॥ ३२.९ ॥
यवव्रीहिसगोधूमतिला मुद्गाः ससर्षपाः ।
प्रियङ्गवः कोविदारा निष्पावाश्चातिशोभनाः ॥ ३२.१० ॥
वर्ज्या मर्कटकाः श्राद्धे राजमाषास्तथाणवः ।
विप्राषिका मसूराश्च श्राद्धकर्मणि गर्हिताः ॥ ३२.११ ॥
लशुनं गृञ्जनञ्चैव पलाण्डं,पिण्डमूलकम् ।
करम्भं यानि चान्यानि हीनानि रसवर्णतः ॥ ३२.१२ ॥
गान्धारिकामलाबूनि लवणान्यूषराणि च ।
आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च ॥ ३२.१३ ॥
वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते ।
यच्चोत्कोचादिना प्राप्तं पतिताद्यदुपार्जितम् ॥ ३२.१४ ॥
अन्यायकन्याशुल्कोत्थं द्रव्यञ्चात्र विगर्हितम् ।
दुर्गन्धि फेनिलञ्चाम्बु तथैवाल्पतरोदकम् ॥ ३२.१५ ॥
न लभेद्यत्र गौस्तृप्तिं नक्तं यच्चाप्युपाहृतम् ।
यन्न सर्वापचोत्सृष्टं यच्चाभोज्यं निपानजम् ॥ ३२.१६ ॥
तद्वर्ज्यं सलिलं तात ! सदैव पितृकर्मणि ।
मार्गमाविकमौष्ट्रञ्च सर्वमैकशफञ्च यत् ॥ ३२.१७ ॥
माहिषञ्चामरञ्चैव धेन्वा गोश्चाप्यनिर्दशम् ।
पित्रर्थं मे प्रयच्छस्वेत्युक्त्वा यच्चाप्युपाहृतम् ॥ ३२.१८ ॥
वर्जनीयं सदा सदिभस्तत्पयः श्राद्धकर्मणि ।
वर्ज्या जन्तुमती रूक्षा क्षितिः प्लुष्टा तथाग्निना ॥ ३२.१९ ॥
अनिष्टदुष्टशब्दोग्रदुर्गन्धा चात्र कर्मणि ।
कुलापमानकाः श्राद्धे व्यायुज्य कुलहिंसकाः ॥ ३२.२० ॥
नग्नाः पातकिनश्चैव हन्युर्दृष्ट्या पितृक्रियाम् ।
अपुमानपविद्धश्च कुक्कुटो ग्रामशूकरः ॥ ३२.२१ ॥
श्वा चैव हन्ति श्राद्धानि यातुधानाश्च दर्शनात् ।
तस्मात्सुसंवृतो दद्यात्तिलैश्चावकिरन्महीम् ॥ ३२.२२ ॥
एवं रक्षा भवेच्छ्राद्धे कृता तातोभयोरपि ।
शावसूतकसंस्पृष्टं दीर्घरोगिभिरेव च ॥ ३२.२३ ॥
पतितैर्मलिनैश्चैव न पुष्णाति पितामहान् ।
वर्जनीयं तथा श्राद्धे तथोदक्याश्च दर्शनम् ॥ ३२.२४ ॥
मुण्डशौण्डसमाभ्यासो यजमानेन यादरात् ।
केशकीटावपन्नञ्च तथाश्वभिरवेक्षितम् ॥ ३२.२५ ॥
पूति पर्युषितञ्चैव वार्ताक्यभिषवांस्तथा ।
वर्जनीयानि वै श्राद्धे यच्च वस्त्रानिलाहतम् ॥ ३२.२६ ॥
श्रद्धया परया दत्तं पितॄणां नामगोत्रतः ।
यदाहारास्तु ते जातास्तदाहारत्वमेति तत् ॥ ३२.२७ ॥
तस्मात्श्रद्धावता पात्रे यच्छस्तं पितृकर्मणि ।
यथावच्चैव दातव्यं पितॄणां तृप्तिमिच्छता ॥ ३२.२८ ॥
योगिनश्च सदा श्राद्धे भोजनीया विपश्चिता ।
योगाधारा हि पिररस्तस्मात्तान् पूजयेत्सदा ॥ ३२.२९ ॥
ब्राह्मणानां सहस्रेभ्यो योगी त्वग्राशनी यदि ।
यजमानञ्च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ॥ ३२.३० ॥
पितृगाथास्तथवात्र गीयन्ते ब्रह्मवादिभिः ।
या गीताः पितृभिः पूर्वमैलस्यासीन्महीपतेः ॥ ३२.३१ ॥
कदा नः सन्ततावग्र्यः कस्यचिद्भविता सुतः ।
यो योगिभुक्तशोषान्नो भुवि पिण्डं प्रदास्यति ॥ ३२.३२ ॥
गयायामथवा पिण्डं खड्गमांसं महाहविः ।
कालशाकं तिलाढ्यं वा कृसरं मासतृप्तये ॥ ३२.३३ ॥
वैश्वदेवञ्च सौम्यञ्च खड्गमांसं परं हविः ।
विषाणवर्ज्यखड्गाप्त्या आसूर्यञ्चाश्नुवामहे ॥ ३२.३४ ॥
दद्यात्श्राद्धं त्रयोदश्यां मघासु च यथाविधि ।
मधुसर्पिः समायुक्तं पायसं दक्षिणायने ॥ ३२.३५ ॥
तस्मात्सम्पूजयेत्भक्त्या स्वपितॄन् पुत्र मानवः ।
कामानभीप्सन् सकलान् पापाच्चात्मविमोचनम् ॥ ३२.३६ ॥
वसून् रुद्रांस्तथादित्यान्नक्षत्रग्रहतारकाः ।
प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः ॥ ३२.३७ ॥
आयुः प्रज्ञां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः ॥ ३२.३८ ॥
एतत्ते पुत्र ! कथितं श्राद्धकर्म यथोदितम् ।
काम्यानां श्रूयतां वत्स ! श्राद्धानां तिथिकीर्तनम् ॥ ३२.३९ ॥

इति श्रीमार्कण्डेयपुराणे श्राद्धकल्पो नाम द्वात्रिंशोऽध्यायः