३०

त्रिंशोऽध्यायः

मदालसोवाच

नित्यं नैमित्तकञ्चैव नित्यनैमित्तिकं तथा ।
गृहस्थस्य तु यत्कर्म तन्निशामय पुत्रक ! ॥ ३०.१ ॥
पञ्चयज्ञाश्रितं नित्यं यदेतत्कथितं तव ।
नैमित्तिकं तथैवान्यत्पुत्रजन्मक्रियादिकम् ॥ ३०.२ ॥
नित्यनैमित्तिकं ज्ञेयं पर्वश्राद्धादि पण्डितैः ।
तत्र नैमित्तिकं वक्ष्ये श्राद्धमभ्युदयं तव ॥ ३०.३ ॥
पुत्रजन्मनि यत्कार्यं जातकर्मसमं नरैः ।
विवाहादौ च कर्तव्यं सर्वं सम्यक्क्रिमोदितम् ॥ ३०.४ ॥
पितरश्चात्र सम्पूज्याः ख्याता नान्दीमुखास्तु ये ।
पिण्डांश्च दधिसम्मिश्रान् दद्याद्यवसमन्वितान् ॥ ३०.५ ॥
उदङ्मुखः प्राङ्मुखो वा यजमानः समाहितः ।
वैश्वदेवविहीनं तत्केचिदिच्छन्ति मानवाः ॥ ३०.६ ॥
युग्माश्चात्र द्विजाः कार्यास्ते च पूज्याः प्रदक्षिणम् ।

एतन्नैमित्तिकं वृद्धौ तथान्यच्चौर्ध्वदेहिकम् ॥ ३०.७ ॥
मृताहनि च कर्तव्यमेकोद्दिष्टं शृणुष्व तत् ।
दैवहीनं तथा कार्यं तथैवैकपवित्रकम् ॥ ३०.८ ॥
आवाहनं न कर्तव्यमग्नौकरणवर्जितम् ।
प्रेतस्य पिण्डमेकञ्च दद्यादुच्छिष्टसन्निधौ ॥ ३०.९ ॥
तिलोदकं चापसव्यं तन्नामस्मरणान्वितम् ।
अक्षय्यममुकस्येति स्थाने विप्रविसर्जने ॥ ३०.१० ॥
अभिरण्यतामिति ब्रूयाद्ब्रूयुस्तेऽभिरताः स्म ह ।
प्रतिमासं भवेदेतत्कार्यमा वत्सरं नरैः ॥ ३०.११ ॥
अथ संवत्सरे पूर्णे यदा वा क्रियते नरैः ।
सपिण्डीकरणं कार्यं तस्यापि विधिरुच्यते ॥ ३०.१२ ॥
तच्चापि दैवरहितमेकार्घ्यैकपवित्रकम् ।
नैवाग्नौकरणं तत्र तच्चावाहनवर्जितम् ॥ ३०.१३ ॥
अपसव्यञ्च तत्रापि भोजयेदयुजो द्विजान् ।
विशेषस्तत्र चान्योऽस्ति प्रतिमासं क्रियाधिकः ॥ ३०.१४ ॥
तं कथ्यमानमेकाग्रो वदन्त्या मे निशामय ।
तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् ॥ ३०.१५ ॥
कुर्यात्पितॄणां त्रितयमेकं प्रेतस्य पुत्रक ।
पात्रत्रये प्रेतपात्रमर्घ्यञ्चैव प्रसेचयेत् ॥ ३०.१६ ॥
ये समाना इति जपन् पूर्ववच्छेषमाचरेत् ।
स्त्रीणामप्येवमेवैतदेकीद्दिष्टमुदाहृतम् ॥ ३०.१७ ॥
सपिण्डीकरणं तासां पुत्राभावे न विद्यते ।
प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः ॥ ३०.१८ ॥
मृताहनि यथान्यायं नृणां यद्वदिहोदितम् ।
पुत्राभावे सपिण्डास्तु तदभावे सहोदकाः ॥ ३०.१९ ॥
मातुः सपिण्डा ये च स्युर्ये च मातुः सहोदकाः ।
कुर्युरेनं विधिं सम्यगपुत्रस्य सुतासुतः ॥ ३०.२० ॥
कुर्युर्मातामहायैवं पुत्रिकास्तनयास्तथा ।
द्व्यामुष्यायणसञ्ज्ञास्तु मातामहपितामहान् ॥ ३०.२१ ॥
पूजयेयुर्यथान्यायं श्राद्धैर्नैमित्तिकैरपि ।
सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम् ॥ ३०.२२ ॥
तदभावे च नृपतिः कारयेत्स्वकुटुम्बिना ।
तज्जातीयैर्नरैः सम्याग्दाहाद्याः सकलाः क्रियाः ॥ ३०.२३ ॥
सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः ।
एतास्ते कथिता वत्स ! नित्यनैमित्तकास्तथा ॥ ३०.२४ ॥
क्रियां श्राद्धाश्रयामन्यां नित्यनैमित्तिकीं शृणु ।
दर्शस्तत्र निमित्तं वै कालश्चन्द्रक्षयात्मकः ।
नित्यातां नियतः कालस्तस्याः संसूचयत्यथ ॥ ३०.२५ ॥

इति श्रीमार्कण्डेयपुराणे अलर्कानुशासने नैमित्तिकादिश्राद्धकल्पो नाम त्रिंशोऽध्यायः