२७

सप्तविंशोऽध्यायः

जड उवाच

एवमुल्लाप्यमानस्तु स तु मात्रा दिने दिने ।
ववृधे वयसा बालो बुद्ध्या चालर्कसञ्ज्ञितः ॥ २७.१ ॥
स कौमारकमासाद्य ऋतध्वजसुतस्ततः ।
कृतोपनयनः प्राज्ञः प्रणिपत्याह मातरम् ॥ २७.२ ॥
मया यदत्र कर्तव्यमैहिकामुष्मिकाय वै ।
सुखाय वद तत्सर्वं प्रश्रयावनतस्य मे ॥ २७.३ ॥

मदालसोवाच

वत्स ! राज्येऽभिषिक्तेन प्रजारञ्जनमादितः ।
कर्तव्यमविरोधेन स्वधर्मस्य महीभृता ॥ २७.४ ॥
व्यसनानि परित्यज्य सप्त मूलहराणि वै ।
आत्मा रिपुभ्यः संरक्ष्यो बहिर्मन्त्रविनिर्गमात् ॥ २७.५ ॥
अष्टधा नाशमाप्नोति सुचक्रात्स्यन्दनाद्यथा ।
तथा राजाप्यसन्दिग्धं बहिर्मन्त्रविनिर्गमात् ॥ २७.६ ॥
दुष्टादुष्टांश्च जानीयादमात्यानरिदोषतः ।
चरैश्चरास्तथा शत्रोरन्वेष्टव्याः प्रयत्नतः ॥ २७.७ ॥
विश्वासो न तु कर्तव्यो राज्ञा मित्राप्तबन्धुषु ।
कार्ययोगादमित्रेऽपि विश्वसीत नराधिपः ॥ २७.८ ॥
स्थानवृद्धिक्षयज्ञेन षाड्गुण्यगुणितात्माना ।
भवितव्यं नरेन्द्रेण न कामवशवर्तिना ॥ २७.९ ॥
प्रागात्मा मन्त्रिणश्चैव ततो भृत्या महीभृता ।
जेयाश्चानन्तरं पौरा विरुध्येत ततोऽरिभिः ॥ २७.१० ॥
यस्त्वेतानविजित्यैव वैरिणो विजिगीषते ।
सोऽजितात्मा जितामात्यः शत्रुवर्गेण बाध्यते ॥ २७.११ ॥
तस्मात्कामादयः पूर्वं जेयाः पुत्र ! महीभुजा ।
तज्जये हि जयोऽवश्यं राजा नश्यति तैर्जितः ॥ २७.१२ ॥
कामः क्रोधश्च लोभश्च मदो मानस्तथैव च ।
हर्षश्च शत्रवो ह्येते विनाशाय महीभृताम् ॥ २७.१३ ॥
कामप्रसक्तमात्मानं स्मृत्वा पाण्डुं निपातितम् ।
निवर्तयेत्तथा क्रोधादनुह्रादं हतात्मजम् ॥ २७.१४ ॥
हतमैलं तथा लोभान्मदाद्वेनं द्विजैर्हतम् ।
मानादनायुषापुत्रं बलिं हर्षात्पुरञ्जयम् ॥ २७.१५ ॥
एभिर्जितैर्जितं सर्वं मरुत्तेन महात्मना ।
स्मृत्वा विवर्जयेदेतान् दोषान् स्वीयान्महीपतिः ॥ २७.१६ ॥
काककोकिलभृङ्गाणां मृगव्यालशिखण्डिनाम् ।
हंसकुक्कुटलोहानां शिक्षेत चरित नृपः ॥ २७.१७ ॥
कीटकस्य क्रियां कुर्यात्विपक्षे मनुजेश्वरः ।
चेष्टां पिपीलिकानाञ्च काले भूपः प्रदर्शयेत् ॥ २७.१८ ॥
ज्ञेयाग्निविस्फुलिङ्गानां बीजचेष्टा च शाल्मलेः ।
चन्द्रसूर्यस्वरूपेण नीत्यर्थे पृथिवीक्षिता ॥ २७.१९ ॥
बन्धकीपद्मशरभशूलिकागुर्विणीस्तनात् ।
प्रज्ञा नृपेण चादेया तथा गोपालयोषितः ॥ २७.२० ॥
शक्रार्कयमसोमानां तद्वद्वायोर्महीपतिः ।
रूपाणि पञ्च कुर्वोत महीपालनकर्मणि ॥ २७.२१ ॥
यथेन्द्रश्चतुरो मासान् तोयोत्सर्गेण भूगतम् ।
आप्याययेत्तथा लोकं परिहारैर्महीपतिः ॥ २७.२२ ॥
मासानष्टौ यथा सूर्यस्तोयं हरति रश्मिभिः ।
सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादिकं नृपः ॥ २७.२३ ॥
यथा यमः प्रियद्वेष्ये प्राप्तकाले नियच्छति ।
तथा प्रियाप्रिये राजा दुष्टादुष्टे समो भवेत् ॥ २७.२४ ॥
पूर्णेन्दुमालोक्य यथा प्रीतिमान् जायते नरः ।
एवं यत्र प्रजाः सर्वा निर्वत्तास्तच्छशिव्रतम् ॥ २७.२५ ॥
मारुतः सर्वभूतेषु निगूढश्चरते यथा ।
एवं नृपश्चरेच्चारैः पौरामात्यादिबन्धुषु ॥ २७.२६ ॥
न लोभाद्वा न कामाद्वा नार्थाद्वा यस्य मानसम् ।
यथान्यैः कृष्यते वत्स ! स राजा स्वर्गमृच्छति ॥ २७.२७ ॥
उत्पथग्राहिणो मूढान् स्वधर्माच्चलतो नरान् ।
यः करोति निजे धर्मे स राजा स्वर्गमृच्छति ॥ २७.२८ ॥
वर्णधर्मा न सीदन्ति यस्य राज्ये तथाश्रमाः ।
वत्स ! तस्य सुखं प्रेत्य परत्रेह च शाश्वतम् ॥ २७.२९ ॥
एतद्राज्ञः परं कृत्यं तथैतत्सिद्धिकारकम् ।
स्वधर्मस्थापनं नृणां चाल्यन्ते ये कुबुद्धिभिः ॥ २७.३० ॥
पालनेनैव भूतानां कृतकृत्यो महीपतिः ।
सम्यक्पालयिता भागं धर्मस्याप्नोति यत्नतः ॥ २७.३१ ॥

इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे आत्मविवेको नाम सप्तविंशोऽध्यायः