२६

षड्विंशोऽध्यायः

जड उवाच

वर्धमानं सुतं सा तु राजपत्नी दिने दिने ।
तमुल्लापादिना बोधमनयन्निर्ममात्मकम् ॥ २६.१ ॥
यथायथं बलं लेभे यथा लेभे मतिं पितुः ।
तथा तथात्मबोधञ्च सोऽवापन्मातृभाषितैः ॥ २६.२ ॥
इत्थं तया स तनयो जन्मप्रभृति बोधितः ।
चकार न मतिं प्राज्ञो गार्हस्थ्यं प्रति निर्ममः ॥ २६.३ ॥
द्वितीयोऽस्याः सुतो जज्ञे तस्य नामाकरोत्पिता ।
सुबाहुरयमित्युक्ते सा जाहस मदालसा ॥ २६.४ ॥
तमप्येवं यथापूर्वं बालमुल्लापनादिना ।
प्राह बाल्यात्स च प्राप तथा बोधं माहमतिः ॥ २६.५ ॥
तृतीयं तनयं जातं स राजा शत्रुमर्दनम् ।
यदाह तेन सा सुभ्रुर्जहासातिचिरं पुनः ॥ २६.६ ॥
तथैव सोऽपि तन्वङ्ग्या बालत्वादवबोधितः ।
क्रियाश्चकार निष्कामो न किञ्चिदुपकारकम् ॥ २६.७ ॥
चतुर्थस्य सुतस्याथ चिकीर्षुर्नाम भूमिपः ।
ददर्श तां शुभाचारामीषद्धासां मदालसाम् ।
तामाह राजा हसतीं किञ्चित्कौतूहलान्वितः ॥ २६.८ ॥
राजोवाच

क्रियमाणेऽसकृन्नाम्नि कथ्यतां हास्यकारणम् ।
विक्रान्तश्च सुबाहुश्च तथान्यः शत्रुमर्दनः ॥ २६.९ ॥
शोभनानीति नामानि मया मन्ये कृतानि वै ।
योग्यानि क्षत्रबन्धूनां शौर्याटोपयुतानि च ॥ २६.१० ॥
असन्त्येतानि चेद्भद्रे ! यदि ते मनसि स्थितम् ।
तदस्य क्रियतां नाम चतुर्थस्य सुतस्य मे ॥ २६.११ ॥

मदालसौवाच

मयाज्ञा भवतः कार्या महाराज ! यथात्थ माम् ।
तथा नाम करिष्यामि चतुर्थस्य सुतस्य ते ॥ २६.१२ ॥
अलर्क इति धर्मज्ञः ख्यातिं लोके प्रयास्यति ।
कनीयानेष ते पुत्रो मतिमांश्च भविष्यति ॥ २६.१३ ॥
तच्छ्रुत्वा नाम पुत्रस्य कृतं मात्रा महीपतिः ।
अलर्क इत्यसम्बद्धं प्रहस्येदमथाब्रवीत् ॥ २६.१४ ॥

राजोवाच

भवत्या यदिदं नाम मत्पुत्रस्य कृतं शुभे ।
किमीदृशमसम्बद्धमर्थः कोऽस्य मदालसे ॥ २६.१५ ॥

मदालसोवाच

कल्पनेयं महाराज ! कृता सा व्यावहारिको ।
त्वत्कृतानां तथा नाम्नां शृणु भूप ! निरर्थताम् ॥ २६.१६ ॥
वदन्ति पुरुषाः प्राज्ञा व्यापिनं पुरुषं यतः ।
क्रान्तिश्च गतिरुद्दिष्टा देशाद्देशान्तरन्तु या ॥ २६.१७ ॥
सर्वगो न प्रयातीति व्यापी देहेश्वरो यतः ।
ततो विक्रान्तसञ्ज्ञेयं मता मम निरर्थिका ॥ २६.१८ ॥
सुबाहुरिति या सञ्ज्ञा कृतान्यस्य सुतस्य ते ।
निरर्था साप्यमूर्तत्वात्पुरुषस्य महीपते ॥ २६.१९ ॥
पुत्रस्य यद्कृतं नाम तृतीयस्यारिमर्दनः ।
मन्ये तदप्यसम्बद्धं शृणु चाप्यत्र कारणम् ॥ २६.२० ॥
एक एव शरीरेषु सर्वेषु पुरुषो यदा ।
तदास्य राजन् ! क शत्रुः को वा मित्रमिहेष्यते ॥ २६.२१ ॥
भूतैर्भूतानि मृद्यन्ते अमूर्तो मृद्यते कथम् ।
क्रोधादीनां पृथग्भावात्कल्पनेयं निरर्थिका ॥ २६.२२ ॥
यदि संव्यवहारार्थमसन्नाम प्रकल्प्यते ।
नाम्नि कस्मादलर्काख्ये नैरर्थ्यं भवतो मतम् ॥ २६.२३ ॥

जड उवाच

एवमुक्तस्तया साधु महीष्या स महीपतिः ।
तथेत्याह महाबुद्धिर्दयितां तथ्यवादिनीम् ॥ २६.२४ ॥
तञ्चापि सा सुतं सुभ्रूर्यथा पूर्वसुतांस्तथा ।
प्रोवाच बोधजननं तामुवाच स पार्थिवः ॥ २६.२५ ॥
करोषि किमिदं मूढे ! ममाभावाय सन्ततेः ।
दुष्टावबोधदानेन यथापूर्वं सुतेषु मे ॥ २६.२६ ॥
यदि ते मत्प्रियं कार्यं यदि ग्राह्यं वचो मम ।
तदेनं तनयं मार्गे प्रवृत्तेः सन्नियोजय ॥ २६.२७ ॥
कर्ममार्गः समुच्छेदं नैवं देवि ! गमिष्यति ।
पितृपिण्डनिवृत्तिश्च नैवं साध्वि ! भविष्यति ॥ २६.२८ ॥
पितरो देवलोकस्थास्तथा तिर्यक्त्वमागताः ।
तद्वन्मनुष्यतां याता भूतवर्गे च संस्थिताः ॥ २६.२९ ॥
सपुण्यानसपुण्यांश्च क्षुत्क्षामान् तृट्परिप्लुतान् ।
पिण्डोदकप्रदानेन नरः कर्मण्यवस्थितः ॥ २६.३० ॥
सदाप्यायते सुभ्रु ! तद्वद्देवातिथोनपि ।
देवैर्मनुष्यैः पितृभिः प्रेतैर्भूतैः सगुह्यकैः ॥ २६.३१ ॥
वयोभिः कृमिकीटैश्च नर एवोपजीव्यते ।
तस्मात्तन्वड्गि ! पुत्रं यत्कार्यं क्षत्रयोनिभिः ॥ २६.३२ ॥
ऐहिकामुष्मिकफलं तत्सम्यक्प्रतिपादय ॥ २६.३३ ॥

जड उवाच

तेनैवमुक्ता सा भर्त्रा वरनारी मदालसा ।
अलर्कं नाम तनयमुवाचोल्लापवादिनी ॥ २६.३४ ॥
पुत्र वर्धस्व मद्भर्तुर्मनो नन्दय कर्मभिः ।
मित्राणामुपकाराय दुर्हृदां नाशनाय च ॥ २६.३५ ॥
धन्योऽसि रे यो वसुधामशत्रुर्
एकश्चिरं पालयितासि पुत्र ।
तत्पालनादस्तु सुखोपभोगो
धर्मात्फलं प्राप्स्यसि चामरत्वम् ॥ २६.३६ ॥
धरामरान् पर्वसु तर्पयेथाः
समीहितं बन्धुषु पूरयेथाः ।
हितं परस्मै हृदि चिन्तयेथाः
मनः परस्त्रीषु निवर्तयेथाः ॥ २६.३७ ॥
यज्ञौरनेकैर्विबुधानजस्त्रम्
अर्थैर्द्विजान् प्रीणय संश्रितांश्च ।
स्त्रियश्च कामैरतुलैश्चिराय
युद्धैश्चारींस्तोषयितासि वीर ॥ २६.३८ ॥
बालो मनो नन्दय बान्धवानां
गुरोस्तथाज्ञानकरणैः कुमारः ।
स्त्रीणां युवा सत्कुलभूषणानां
वृद्धो वने वत्स ! वनेचराणाम् ॥ २६.३९ ॥
राज्यं कुर्वन् सुहृदो नन्दयेथाः
साधून् रक्षंस्तात ! यज्ञैर्यजेथाः ।
दुष्टान्निघ्रन् वैरिणश्चाजिमध्ये
गोविप्रार्थे वत्स ! मृत्युं व्रजेथाः ॥ २६.४० ॥

इति श्रीमार्कण्डेयपुराणे पुत्रानुशासनं नाम षड्विंशोऽध्यायः