पञ्चविंशोऽध्यायः
जड उवाच
विश्वास-प्रस्तुतिः
आगम्य स्वपुरं सोऽथ
पित्रोः सर्वम् अशेषतः ।
कथयाम् आस तन्वङ्गी
यथा प्राप्ता पुनर् मृता ॥ २५.१ ॥
मूलम्
आगम्य स्वपुरं सोऽथ पित्रोः सर्वमशेषतः ।
कथयामास तन्वङ्गी यथा प्राप्ता पुनर्मृता ॥ २५.१ ॥
विश्वास-प्रस्तुतिः
ननाम सा च चरणौ
श्वश्रू-श्वशुरयोः शुभा ।
स्वजनञ् च यथा-पूर्वं
वन्दनाश्लेषणादिभिः ॥ २५.२ ॥
मूलम्
ननाम सा च चरणौ श्वश्रूश्वशुरयोः शुभा ।
स्वजनञ्च यथापूर्वं वन्दनाश्लेषणादिभिः ॥ २५.२ ॥
विश्वास-प्रस्तुतिः
पूजयाम् आस तन्वङ्गी
यथा-न्यायं यथा-वयः ।
ततो महोत्सवो जज्ञे
पौराणां तत्र वै पुरे ॥ २५.३ ॥
मूलम्
पूजयामास तन्वङ्गी यथान्यायं यथावयः ।
ततो महोत्सवो जज्ञे पौराणां तत्र वै पुरे ॥ २५.३ ॥
विश्वास-प्रस्तुतिः
ऋतध्वजश् च सुचिरं
तया रेमे सुमध्यया ।
निर्झरेषु च शैलानां
निम्नगा-पुलिनेषु च ॥ २५.४ ॥
मूलम्
ऋतध्वजश्च सुचिरं तया रेमे सुमध्यया ।
निर्झरेषु च शैलानां निम्नगापुलिनेषु च ॥ २५.४ ॥
विश्वास-प्रस्तुतिः
काननेषु च रम्येषु
तथैवोपवनेषु च ।
पुण्य-क्षयं वाञ्छमाना
सापि कामोपभोगतः ॥ २५.५ ॥
मूलम्
काननेषु च रम्येषु तथैवोपवनेषु च ।
पुण्यक्षयं वाञ्छमाना सापि कामोपभोगतः ॥ २५.५ ॥
विश्वास-प्रस्तुतिः
सह तेनातिकान्तेन
रेमे रम्यासु भूमिषु ।
ततः कालेन महता
शत्रुजित् स नराधिपः ॥ २५.६ ॥
मूलम्
सह तेनातिकान्तेन रेमे रम्यासु भूमिषु ।
ततः कालेन महता शत्रुजित्स नराधिपः ॥ २५.६ ॥
विश्वास-प्रस्तुतिः
सम्यक् प्रशास्य वसुधां
कालधर्मम् उपेयिवान् ।
ततः पौरा महात्मानं
पुत्रं तस्य ऋतध्वजम् ॥ २५.७ ॥
मूलम्
सम्यक्प्रशास्य वसुधां कालधर्ममुपेयिवान् ।
ततः पौरा महात्मानं पुत्रं तस्य ऋतध्वजम् ॥ २५.७ ॥
विश्वास-प्रस्तुतिः
अभ्यषिञ्चन्त राजानम्
उदाराचार-चेष्टितम् ।
सम्यक्-पालयतस् तस्य
प्रजाः पुत्रान् इवौरसान् ॥ २५.८ ॥
मूलम्
अभ्यषिञ्चन्त राजानमुदाराचारचेष्टितम् ।
सम्यक्पालयतस्तस्य प्रजाः पुत्रानिवौरसान् ॥ २५.८ ॥
विश्वास-प्रस्तुतिः
मदालसायाः सञ्जज्ञे
पुत्रः प्रथमजस् ततः ।
तस्य चक्रे पिता नाम
विक्रान्त इति धीमतः ॥ २५.९ ॥
मूलम्
मदालसायाः सञ्जज्ञे पुत्रः प्रथमजस्ततः ।
तस्य चक्रे पिता नाम विक्रान्त इति धीमतः ॥ २५.९ ॥
विश्वास-प्रस्तुतिः
तुतुषुस् तेन वै भृत्या
जहास च मदालसा ।
सा वै मदालसा पुत्रं
बालम् उत्तान-शायिनम् ।
उल्-लापन-च्छलेनाह
रुदमानम् अविस्वरम् ॥ २५.१० ॥
मूलम्
तुतुषुस्तेन वै भृत्या जहास च मदालसा ।
सा वै मदालसा पुत्रं बालमुत्तानशायिनम् ।
उल्लापनच्छलेनाह रुदमानमविस्वरम् ॥ २५.१० ॥
विश्वास-प्रस्तुतिः
शुद्धोऽसि बुद्धोऽसि निरञ्जनोऽसि संसार-माया-परिवर्जितोऽसि । संसार-स्वप्नं त्यज मोह-निद्रां मन्दालसोल्लापम् उवाच पुत्रम् ॥ १॥
मूलम्
शुद्धोऽसि बुद्धोऽसि निरञ्जनोऽसि संसारमायापरिवर्जितोऽसि । संसारस्वप्नं त्यज मोहनिद्रां मन्दालसोल्लापमुवाच पुत्रम् ॥ १॥
हिन्दी
मन्दालसा ने पुत्र को उपदेश दिया- ``हे पुत्र ! तू शुद्ध है, चैतन्य स्वरूप है, निरञ्जन है, संसार रूपी माया से रहित है, इसलिये संसार स्वप्नरूपी मोह निद्रा को त्याग ॥ १॥
विश्वास-प्रस्तुतिः
शुद्धोऽसि रे तात ! न तेऽस्ति नाम,
कृतं हि तत् कल्पनया ऽधुनैव ।
पञ्चात्मकं देहम् इदं तवैतन्,
नैवास्य त्वं, रोदिषि कस्य हेतोः ॥ २५.११ ॥+++(5)+++
मूलम्
शुद्धोऽसि रे तात ! न तेऽस्ति नाम
कृतं हि ते+++(तत्)+++ कल्पनयाधुनैव ।
पञ्चात्मकं देहमिदं तवैतन्
नैवास्य त्वं रोदिषि कस्य हेतोः ॥ २५.११ ॥
हिन्दी
मन्दालसा ने पुत्र को उपदेश दिया- ``हे पुत्र ! तू शुद्ध है, चैतन्य स्वरूप है, निरञ्जन है, संसार रूपी माया से रहित है, इसलिये संसार स्वप्नरूपी मोह निद्रा को त्याग ॥ १॥
विश्वास-प्रस्तुतिः
न वा भवान् रोदिति वै स्व-जन्मा
शब्दो ऽयम् आसाद्य महीश-शूनुम् ।
+++(चिन्तने)+++ विकल्प्यमाना विविधा गुणास् ते,
गुणाश् च भौताः सकलेन्द्रियेषु ॥ २५.१२ ॥
मूलम्
न वा भवान् रोदिति वै स्वजन्मा
+++( न वै भवान् रोदिति विश्वजन्मा)+++
शब्दोऽयमासाद्य महीशशूनुम् ।
विकल्प्यमाना विविधा गुणास्ते
गुणाश्च भौताः सकलेन्द्रियेषु ॥ २५.१२ ॥
हिन्दी
तुम जो समस्त विश्व के जीवन रूप हो, रोते नहीं हो ।
शब्द ही राजपुत्र को प्राप्त होकर,
नाना गुणों से विकल्प को प्राप्त होता है,
और वे भौतिक गुण ही
सब इन्द्रियों में विकल्प को प्राप्त होते हैं ॥ ३॥
विश्वास-प्रस्तुतिः
भूतानि भूतैः परिदुर्बलानि
वृद्धिं समायान्ति यथेह पुंसः ।
अन्नाम्बुपानादिभिर् एव तस्मात्
न तेऽस्ति वृद्धिर् न च तेऽस्ति हानिः ॥ २५.१३ ॥
मूलम्
भूतानि भूतैः परिदुर्बलानि
वृद्धिं समायान्ति यथेह पुंसः ।
अन्नाम्बुपानादिभिरेव तस्मात्/कस्य
न तेऽस्ति वृद्धिर्न च तेऽस्ति हानिः ॥ २५.१३ ॥
हिन्दी
भूत भूतों करके वृद्धि तथा क्षीणता को प्राप्त होते हैं ।
ये पुरुष जो अन्न जलादिक भोजन से वृद्धि तथा क्षीणता को प्राप्त होते हैं,
वह ऐसा ही है,
इसलिये इससे न तेरी वृद्धि है,
न हानि है ॥ ४॥
विश्वास-प्रस्तुतिः
त्वं कञ्चुके शीर्यमाणे निजेऽस्मिंस्
तस्मिंश् च देहे मूढतां मा व्रजेथाः ।
शुभाशुभैः कर्मभिर् देहम् एतन्
मदादि-मूढैः कञ्चुकस् तेऽपिनद्धः ॥ २५.१४ ॥+++(5)+++
मूलम्
त्वं कञ्चुके शीर्यमाणे निजेऽस्मिंस्
तस्मिंश्च देहे मूढतां मा व्रजेथाः ।
शुभाशुभैः कर्मभिर्देहमेतन्
मदादिमूढैः/मृदादिभिः सञ्चुकस्तेऽपिनद्धः ॥ २५.१४ ॥
हिन्दी
हाड मांस रूप यह देह
पुण्य पाप रूप कर्मों से उत्पन्न हुआ पृथ्वी आदि से व्याप्त है ।
इस नाश वाली कञ्चुक रूप देह में
आत्म बुद्धि करके
मूढता को मत प्राप्त हो ॥ ५॥
विश्वास-प्रस्तुतिः
तातेति किञ्चित्, तनयेति किञ्चिद्
अम्बेति किञ्चिद्, दयितेति किञ्चित् ।
ममेति किञ्चिन्, न ममेति किञ्चित्
त्वं भूत-सङ्घं बहु मा नयेथाः ॥ २५.१५ ॥+++(5)+++
मूलम्
तातेति किञ्चित्तनयेति किञ्चिद्
अम्बेति किञ्चिद्दयितेति किञ्चित् ।
ममेति किञ्चिन्न ममेति किञ्चित्
त्वं भूतसङ्घं बहु मा नयेथाः ॥ २५.१५ ॥
हिन्दी
किसी को पिता, किसी को पुत्र, किसी को माता,
किसीको स्त्री, किसी को मेरा, किसी को मेरा नहीं,
इस प्रकार भूतों के समुदाय को तू अपने पास अधिक मत अपना ॥ ६॥
विश्वास-प्रस्तुतिः
दुःखानि दुःखोपशमाय भोगान्
सुखाय जानाति विमूढ-चेताः ।
तान्य् एव दुःखानि पुनः सुखानि
जानाति विद्वान् अविमूढ चेताः ॥ २५.१६ ॥
मूलम्
दुःखानि दुःखोपगमाय/दुःखोपशमाय भोगान्
सुखाय जानाति विमूढचेताः ।
तान्येव दुःखानि पुनः सुखानि
जानात्यविद्वान् सुविमूढयेताः
(जानाति विद्वानविमूढ चेताः)
॥ २५.१६ ॥+++(4)+++
हिन्दी
मूढ मनुष्य विषयजन्य सुखों को
दुःख की निवृत्ति के अर्थ जान कर
भोगों को सुख रूप मानता है
और विद्वान् पुरुष विषयों से होने वाले
उन्हीं दुःखोँ को सुख रूप जानता है
यानी मोक्ष प्राप्ति के अर्थ जानता है ॥ ७॥
विश्वास-प्रस्तुतिः
हासो ऽस्थि-सन्दर्शनम्, अक्षि-युग्मम्
अत्युज्ज्वलं - तत् कलुषं वसायाः ।
कुचादिपीनं पिशितं घनं तत्
स्थानं रतेः किं नरकं न योषित् ॥ २५.१७ ॥
मूलम्
हासोऽस्थिसन्दर्शनमक्षियुग्मम्
अत्य् उज्ज्वलं (तत्कलुषं वसायाः)/(तर्जनम् अङ्गनायाः) ।
कुचादि-पीनं पिशितं घनं तत्
स्थानं रतेः किं नरकं न योषित् ॥ २५.१७ ॥
हिन्दी
हँसने में हड्डियों का दर्शन होता है, अति सुन्दर दोनों नेत्र चर्बी से मलिन हैं, पीनस्तन बहुत सा मांस है, क्या स्त्री का रति का स्थान नरक नहीं है ? अर्थात् अवश्य है ॥ ८॥
विश्वास-प्रस्तुतिः
यानं क्षितौ, तत्र गतश्च देहो
देहेऽपि चान्यः पुरुषो निविष्टः ।
ममत्व-बुद्धिर् न तथा यथा स्वे
देहे ऽतिमात्रं - बत मूढतैषा ॥ २५.१८ ॥
मूलम्
यानं क्षितौ (यानगतञ्च देहं)/ तत्र गतश्च देहो
देहेऽपि चान्यः पुरुषो निविष्टः ।
ममत्वबुद्धिर्/ ममत्वमुर्व्यां न तथा यथा स्वे
देहेऽतिमात्रं बत मूढतैषा ॥ २५.१८ ॥
हिन्दी
वाहन पृथिवी में स्थित है, उसमें शरीर स्थित है, उस देह में अन्य पुरुष स्थित है, जैसे कोई पृथिवी और वाहन में ममता नहीं करता और यदि इस देह में आत्म बुद्धि करता है तो वह एक मूर्खता की पराकाष्ठा है ॥ ९॥
इति श्रीमार्कण्डेयपुराणे मदालसोपाख्याने पञ्चविंशोऽध्यायः