चतुर्विशोऽध्यायः
जड उवाच
कृताहारं महात्मनामधिपं पवनाशिनाम् ।
उपासाञ्चक्रिरे पुत्रौ भूपालतनयस्तथा ॥ २४.१ ॥
कथाभिरनुरूपाभिः स महात्मा भुजङ्गमः ।
प्रीतिं सञ्जनयामास पुत्रसख्युरुवाच च ॥ २४.२ ॥
तव भद्र ! सुखं ब्रूहि गेहमभ्यागतस्य यत् ।
कर्तव्यमुत्सृजाशङ्कां पितरीव सुतो मयि ॥ २४.३ ॥
रजतं वा सुवर्णं वा वस्त्रं वाहनमासनम् ।
यद्वाभिमतमत्यर्थं दुर्लभं तद्वृणुष्व माम् ॥ २४.४ ॥
कुवलयाश्व उवाच
तव प्रसादाद्भगवन् ! सुवर्णादि गृहे मम ।
पितुरस्ति ममाद्यापिन किञ्चित्कार्यमीदृशम् ॥ २४.५ ॥
ताते वर्षसहस्राणि शासतीमां वसुन्धराम् ।
तथैव त्वयि पातालं न मे याञ्चोन्मुकं मनः ॥ २४.६ ॥
ते स्वर्ग्याश्च सुपुण्याश्च येषां पितरि जीवति ।
तृणकोटिसमं वित्तं तारुण्याद्वित्तकोटिषु ॥ २४.७ ॥
मित्राणि तुल्यशिष्टानि तद्वद्देहमनामयम् ।
जनिता ध्रियते वित्तं यौवनं किन्नु नास्ति मे ॥ २४.८ ॥
असत्यर्थे नृणां याञ्चाप्रवणं जायते मनः ।
सत्यशेषे कथं याञ्चां मम जिह्वा करिष्यति ॥ २४.९ ॥
यैर्न चिन्त्यं धनं किञ्चिन्मम गेहेऽस्ति नास्ति वा ।
पितृबाहुतरुच्छायां संश्रिताः सुखिनो हि ते ॥ २४.१० ॥
ये तु बाल्यात्प्रभृत्येव विना पित्रा कुटुम्बिनः ।
ते सुखास्वादविभ्रंशान्मन्ये धात्रैव वञ्चिताः ॥ २४.११ ॥
तद्वयं त्वत्प्रसादेन धनरत्नादिसञ्चयान् ।
पितृमुक्तान् प्रयच्छामः कामतो नित्यमर्थिनाम् ॥ २४.१२ ॥
तत्सर्वमिह सम्प्राप्तं यदङ्घ्रियुगलं तव ।
मच्चूडामणिना स्पृष्टं यच्चाङ्गस्पर्शमाप्तवान् ॥ २४.१३ ॥
जड उवाच
इत्येवं प्रसृतं वाक्यमुक्तः पन्नगसत्तमः ।
प्राह राजसुतं प्रीत्या पुत्रयोरुपकारिणम् ॥ २४.१४ ॥
नाग उवाच
यदि रत्नसुवर्णादि मत्तोऽवाप्तुं न ते मनः ।
यदन्यन्मनसः प्रीत्यै तद्ब्रूहि त्वं ददाम्यहम् ॥ २४.१५ ॥
कुवलयाश्व उवाच
भगवंस्त्वत्प्रसादेन प्रार्थितस्य गृहे मम ।
सर्वमस्ति विशेषेण सम्प्राप्तं तव दर्शनात् ॥ २४.१६ ॥
कृतकृत्योऽस्मि चैतेन सफलं जीवितञ्च मे ।
यदङ्गसंश्लेषमितस्तव देवस्य मानुषः ॥ २४.१७ ॥
ममोत्तमाङ्गे त्वत्पादरजसा यदिहास्पदम् ।
कृतं तेनैव न प्राप्तं किं मया पन्नगेश्वर ॥ २४.१८ ॥
यदि त्ववश्यं दातव्यो वरो मम यथेप्सितः ।
तत्पुण्यकर्मसंस्कारो हृदयान्मा व्यपैतु मे ॥ २४.१९ ॥
सुवर्णमणिरत्नादि वाहनं गृहमासनम् ।
स्त्रियोऽन्नपानं पुत्राश्च चारुमाल्यानुलेपन् ॥ २४.२० ॥
एते च विविधाः कामा गीतवाद्यादिकञ्च यत् ।
सर्वमेतन्मम मतं फलं पुण्यवनस्पतेः ॥ २४.२१ ॥
तस्मान्नरेण तन्मुलः कार्यो यत्नः कृतात्मना ।
कर्तव्यः पुण्यसक्तानां न किञ्चिद्भुवि दुर्लभम् ॥ २४.२२ ॥
अश्वतर उवाच
एवं भविष्यति प्राज्ञ ! तव धर्माश्रिता मतिः ।
सत्यञ्चैतत्फलं सर्वं धर्मस्योक्तं यथा त्वया ॥ २४.२३ ॥
तथाप्यवश्यं मद्गेहमागतेन त्वयाधुना ।
ग्राह्यं यन्मानुषे लोके दुष्प्राप्तं भवतो मतम् ॥ २४.२४ ॥
जड उवाच
तस्यैतद्वचनं श्रुत्वा स तदा नृपनन्दनः ।
मुकावलोकनञ्चक्रे पन्नगेश्वरपुत्रयोः ॥ २४.२५ ॥
ततस्तौ प्रणिपत्योभौ राजपुत्रस्य यन्मतम् ।
तत्पितुः सकलं वीरौ कथयामासतुः स्फुटम् ॥ २४.२६ ॥
पुत्रापूचतुः
ततोऽस्य पत्नी दयिता श्रुत्वेमं विनिपातितम् ।
अत्यजद्दयितान् प्राणान् विप्रलब्धा दुरात्मना ॥ २४.२७ ॥
केनापि कृतवैरेण दानवेन कुबुद्धिना ।
गन्धर्वराजस्य सुता नाम्ना ख्याता मदालसा ॥ २४.२८ ॥
कुतज्ञोऽयं ततस्तात ! प्रतिज्ञां कृतवानिमाम् ।
नान्या भार्या भवित्रीति वर्जयित्वा मदालसाम् ॥ २४.२९ ॥
द्रष्टुं तां चारुसर्वाङ्गीमयं वीर ! ऋतध्वजः ।
तात ! वाञ्छति यद्येतत्क्रियते तत्कृतं भवेत् ॥ २४.३० ॥
अश्वतर उवाच
भूतैर्वियोगिनो योगस्तादृशैरेव तादृशः ।
कथमेतद्विना स्वप्नं मायां वा शम्बरोदिताम् ॥ २४.३१ ॥
जड उवाच
प्रणिपत्य भुजङ्गेशं पुत्रः शत्रुजितस्ततः ।
प्रत्युवाच महात्मानं प्रेमलज्जासमन्वितः ॥ २४.३२ ॥
मायामयीमप्यधुना मम तात ! मदालसाम् ।
यदि दर्शयते मन्ये परं कृतमनुग्रहम् ॥ २४.३३ ॥
अश्वतर उवाच
तस्मात्पश्येह वत्स ! त्वं मायाञ्चेद्द्रष्टुमिच्छसि ।
अनुग्राह्यो भवान् गेहं बालोऽप्यभ्यागतो गुरुः ॥ २४.३४ ॥
जड उवाच
आनयामास नागेन्द्रो गृहगुप्तां मदालसाम् ।
तेषां सम्मोहनार्थाय ज्जल्प च ततः स्फुटम् ॥ २४.३५ ॥
दर्शयामास च तदा राजपुत्राय तां शुभाम् ।
सेयं न वेति ते भार्या राजपुत्र ! मदालसा ॥ २४.३६ ॥
जड उवाच
स दृष्ट्वा तां तदा तन्वीं तत्क्षणात्विगतत्रपः ।
प्रियेति तामभिमुखं ययौ वाचमुदीरयन् ।
निवारयामास च तं नागः सोऽश्वतरस्त्वरन् ॥ २४.३७ ॥
अश्वतर उवाच
मायेयं पुत्र ! मा स्प्राक्षीः प्रागेव कथितं तव ।
अन्तर्धानमुपैत्याशु माया संस्पर्शनादिभिः ॥ २४.३८ ॥
ततः पपात मेदिन्यां स तु मूर्च्छापरिप्लुतः ।
हा प्रियेति वदन् सोऽथ चिन्तयामास भामिनीम् ॥ २४.३९ ॥
अहो स्नेहोऽस्य नृपतेर्ममोपर्यचलं मनः ।
येनायं पातनोऽरीणां विना शस्त्रेण पातितः ॥ २४.४० ॥
मायेति दर्शिता तेन मिथ्या मायेति यत्स्फुटम् ।
वाय्वम्बुतेजसां भुमेराकाशस्य च चेष्टया ॥ २४.४१ ॥
जड उवाच
ततः कुवलयाश्वं तं समाश्वास्य भुजङ्गमः ।
कथयामास तत्सर्वं मृतसञ्जीवनादिकम् ॥ २४.४२ ॥
ततः प्रहृष्टः प्रतिलभ्य कान्तां
प्रणम्य नागं निजगाम सोऽथ ।
सुशोभमानः स्वपुरं तमश्वम्
आरुह्य सञ्चिन्तितमभ्युपतेम् ॥ २४.४३ ॥
इति श्रीमार्कण्डेयपुराणे मदालसाप्राप्तिर्नाम चतुर्विशोऽध्यायः