२२

द्वाविंशोऽध्यायः

पुत्रावूचतुः

ततः काले वहुतिथे गते राजा पुनः सुतम् ।
प्राह गच्छाशु विप्राणां त्राणाय चर मेदिनीम् ॥ २२.१ ॥
अश्वमेनं समारुह्य प्रातः प्रातर्दिने दिने ।
अबाधा द्विजमुख्यानामन्वेष्टव्या सदैव हि ॥ २२.२ ॥
दुर्वृत्ताः सन्ति शतशो दानवाः पापयोनयः ।
तेभ्यो न स्याद्यथा बाधा मुनीनां त्वं तथा कुरु ॥ २२.३ ॥
स यथोक्तस्ततः पित्रा तथा चक्रे नृपात्मजः ।
परिक्रम्य महीं सर्वां ववन्दे चरणौ पितुः ॥ २२.४ ॥
अहन्यहन्यनुप्राप्ते पूर्वाह्ने नृपनन्दनः ।
ततश्च शेषं दिवसं तया रेमे सुमध्यया ॥ २२.५ ॥
एकदा तु चारन् सोऽथ ददर्श यमुनातटे ।
पातालकेतोरनुजं तालकेतुं कृताश्रमम् ॥ २२.६ ॥
मायावी दानवः सोऽथ मुनिरूपं समास्थितः ।
स प्राह राजपुत्रं तं पूर्ववैरमनुस्मरन् ॥ २२.७ ॥
राजपुत्र ब्रीवीमि त्वां तत्कुरुष्व यदीच्छसि ।
न च ते प्रार्थनाभङ्गः कार्यः सत्यप्रतिश्रव ॥ २२.८ ॥
यक्ष्ये यज्ञेन धर्माय कर्तव्याश्च तथेष्टयः ।
चितयस्तत्र कर्तव्या नास्ति मे दक्षैणा यतः ॥ २२.९ ॥
अतः प्रयच्छ मे वीर हिरण्यार्थं स्वभूषणम् ।
यदेतत्कण्ठलग्नं ते रक्ष चेमं माश्रमम् ॥ २२.१० ॥
यावदन्तर्जले देवं वरुणं यादसां पतिम् ।
वैदिकैर्वारुणैर्मन्त्रैः प्रजानां पुष्टिहेतुकैः ॥ २२.११ ॥
अभिष्टूय त्वरायुक्तः समभ्येमीति वादिनम् ।
तं प्रणम्य ततः प्रादात्स तस्मै कण्ठभूषणम् ॥ २२.१२ ॥
प्राह यैनं भवान् यातु निर्व्यलीकेन चेतसा ।
स्थास्यामि तावदत्रैव तवाश्रमसमीपतः ॥ २२.१३ ॥
तवादेशान्महाभाग यावदागमनं तव ।
न तेऽत्र कश्चिदाबाधां करिष्यति मयि स्थिते ।
विश्रब्धश्चात्वरन् ब्रह्मन् कुरुष्व त्वं मनोगतम् ॥ २२.१४ ॥

पुत्रावूचतुः

एकमुक्तस्ततस्तेन स ममज्ज नदीजले ।
ररक्ष सोऽपि तस्यैव मायाविहितमाश्रमम् ॥ २२.१५ ॥
गत्वा जलाशयात्तस्मात्तालकेतुश्च तत्परम् ।
मदालसायाः प्रत्यक्षमन्येषाञ्चैतदुक्तवान् ॥ २२.१६ ॥

तालकेतुरुवाच

वीरः कुवलयाश्वोऽसौ ममाश्रमसमीपतः ।
केनापि दुष्टदैत्येन कुर्वन् रक्षां तपस्विनाम् ॥ २२.१७ ॥
युध्यमानो यथाशक्ति निघ्नन् ब्रह्मद्विषो युधि ।
मायामाश्रित्य पापेन भिन्नः शूलेन वक्षसी ॥ २२.१८ ॥
म्रियमाणेन तेनेदं दत्तं मे कण्ठभूषणम् ।
प्रापितश्चाग्निसंयोगं स वने शूद्रतापसैः ॥ २२.१९ ॥
कृतार्तह्रेषाशब्दो वै त्रस्तः साश्रुविलोचनः ।
नीतः सोऽश्वश्च तेनैव दानवेन दुरात्मना ॥ २२.२० ॥
एतन्मया नृशंसेन दृष्टं दुष्कृतकारिणा ।
यदत्रानन्तरं कृत्यं क्रियतां तदकालिकम् ॥ २२.२१ ॥
हृदयाश्वासनञ्चैतद्गृह्यतां कण्ठभूषणम् ।
नास्माकं हि सुवर्णेन कृत्यमस्ति तपस्विनाम् ॥ २२.२२ ॥

पुत्रावूचतुः

इत्युक्त्वोत्सृज्य दत्भूमौ स जगाम यथागतम् ।
निपपात जनः सोऽथ शोकार्तो मूर्च्छयाऽतुरः ॥ २२.२३ ॥
तत्क्षणात्चेतनां प्राप्य सर्वास्ता नृपयोषितः ।
राजपत्न्यश्च राजा च विलेपुरतिदुः खिताः ॥ २२.२४ ॥
मदालसा तु द्दृष्ट्वा तदीयं कण्ठभूषणम् ।
तत्याजाशु प्रियान् प्राणान् श्रुत्वा च निहन्त पतिम् ॥ २२.२५ ॥
ततस्तथा महाक्रन्दः पौराणां भवनेष्वभूत् ।
यथैव तस्य नृपतेः स्वगेहे समवर्तत ॥ २२.२६ ॥
राजा च तां मृतां दृष्ट्वा विना भर्त्रा मदालसाम् ।
प्रत्युवाच जनं सर्वं विमृश्य सुस्थमानसः ॥ २२.२७ ॥
न रोदितव्यं पश्यामि भवतामात्मनस्तथा ।
सर्वेषामेव सञ्चिन्त्य सम्बन्धानामनित्यताम् ॥ २२.२८ ॥
किन्नु शोचामि तनयं किन्नु शोचाम्यहं स्नुषाम् ।
विमृश्य कृतकृत्यत्वाम्नम्येऽशोच्यावुभावपि ॥ २२.२९ ॥
मच्छ्रु श्रुपुर्मद्वचनाद्द्विजरक्षणतत्परः ।
प्राप्तो मे यः सुतो मृत्युं कथं शोच्यः स धीमताम् ॥ २२.३० ॥
अवश्यं याति यद्देहं तद्द्विजानां कृते यदि ।
मम पुत्रेण सन्त्यक्तं नन्वभ्युदयकारि तत् ॥ २२.३१ ॥
इयञ्च सत्कुलोत्पन्ना भर्तर्येवमनुव्रतां ।
कथन्नु शोच्या नारीणां भर्तुरन्यन्न दैवतम् ॥ २२.३२ ॥
अस्माकं बान्धवानाञ्च तथान्येषां दयावताम् ।
शोच्या ह्येषा भवेदेवं यदि भर्त्रा वियोगिनी ॥ २२.३३ ॥
या तु भर्तुर्वधं श्रुत्वा तत्क्षणादेव भामिनी ।
भर्तारमनुयातेयं न शोच्यातो विपश्चिताम् ॥ २२.३४ ॥
ताः शोच्या या वियोगिन्यो न शोच्या या मृताः सह ।
भर्त्रा वियोगस्त्वनया नानुभूतः कृतज्ञया ॥ २२.३५ ॥
दातारं सर्वसौख्यानामिह चामुत्र चोभयोः ।
लोकयोः का हि भर्तारं नारी मन्येत मानुषम् ॥ २२.३६ ॥
नासौ शोच्यो न चैवेयं नाहं तज्जननी न च ।
त्यजता ब्राह्मणार्थाय प्राणान् सर्वे स्म तारिताः ॥ २२.३७ ॥
विप्राणं मम धर्मस्य गतः स हि महामतिः ।
आनृण्यमर्धभुक्तस्य त्यागाद्देहस्य मे सुतः ॥ २२.३८ ॥
मातुः सतीत्वं मद्वंशवैमल्यं शौर्यमात्मनः ।
सङ्ग्रामे सन्त्यजन् प्राणान्नात्यजद्द्विजरक्षणम् ॥ २२.३९ ॥

पुत्रावूचतुः

ततः कुवलयाश्वस्य माता भर्तुरनन्तरम् ।
श्रुत्वा पुत्रवधं तादृक्प्राह दृष्ट्वा तु तं पतिम् ॥ २२.४० ॥

मातोवाच
न मे मात्रा न मे स्वस्त्रा प्राप्ता प्रीतिर्नृपेदृशी ।
श्रुत्वा मुनिपरित्राणे हतं पुत्रं यथा मया ॥ २२.४१ ॥
शोचतां बान्धवानां ये निः श्वसन्तोऽतिदुः खिताः ।
म्रियन्ते व्याधिना क्लिष्टास्तेषां माता वृथाप्रजा ॥ २२.४२ ॥
सङ्ग्रामे युध्यमाना येऽभीता गोद्विजरक्षणे ।
क्षुण्णाः शस्त्रैर्विपद्यन्ते त एव भुवि मानवाः ॥ २२.४३ ॥
अर्थिनां मित्रवर्गस्य विद्विषाञ्च पराङ्मुखः ।
यो न याति पिता तेन पुत्री माता च वीरसूः ॥ २२.४४ ॥
गर्भक्लेशः स्त्रियो मन्ये साफल्यं भजते तदा ।
यदारिविजयी वा स्यात्सङ्ग्रामे वा हतः सुतः ॥ २२.४५ ॥

पुत्रावूचतुः

ततः स राजा संस्कारं पुत्रपत्नीमलम्भयत् ।
निर्गम्य च बहिः स्नातो ददौ पुत्राय चोदकम् ॥ २२.४६ ॥
तालकेतुश्च निर्गम्य तथैव यमुनाजलात् ।
राजपुत्रमुवाचेदं प्रणयान्मधुरं वचः ॥ २२.४७ ॥
गच्छ भूपालपुत्र ! त्वं कृतार्थोऽहं कृतस्त्वया ।
कार्यं चिराभिलषितं त्वय्यत्राविचले स्थिते ॥ २२.४८ ॥
वारुणं यज्ञकार्यञ्च जलेशस्य महात्मनः ।
तन्मया साधितं सर्वं यन्ममासीदभीप्सितम् ॥ २२.४९ ॥
प्रणिपत्य स तं प्रायाद्राजपुत्रः पुरं पितुः ।
समारुह्य तमेवाश्वं सुपर्णानिलविक्रमम् ॥ २२.५० ॥

इति श्रीमार्कण्डेयपुराणे कुवलयाश्वीये मदालसावियोगो नाम द्वाविंशोऽध्यायः