विंशोऽध्यायः
जड उवाच
प्राग्बभूव महावीर्यः शत्रुजिन्नाम पार्थिवः ।
तुतोष यस्य यज्ञेषु सोमावाप्त्या पुरन्दरः ॥ २०.१ ॥
तस्यात्मजो महावीर्यो बभूवारिविदारणः ।
बुद्धिविक्रमलावण्यैर्गुरुशक्राश्विभिः समः ॥ २०.२ ॥
स समानवयोबुद्धिसत्त्वविक्रमचेष्टितैः ।
नृपपुत्रो नृपसुतैर्नित्यमास्ते समावृतः ॥ २०.३ ॥
कदाचिच्छास्त्रसम्भारविवेककृतनिश्चयः ।
कदाचित्काव्यसंलापगीतनाटकसम्भवैः ॥ २०.४ ॥
तथैवाक्षविनोदैश्च शस्त्रास्त्रविनयेषु च ।
योग्यानि युद्धनागाश्वस्यन्दनाभ्यासतत्परः ॥ २०.५ ॥
रेमे नरेन्द्रपुत्रोऽसौ नरेन्द्रतनयैः सह ।
यथैव हि दिवा तद्वद्रात्रवपि मुदा युतः ॥ २०.६ ॥
तेषां तु क्रीडतां तत्र द्विजभूपविशां सुताः ।
समानवयसः प्रीत्या रन्तुमायान्त्यनेकशः ॥ २०.७ ॥
कस्यचित्त्वथ कालस्य नागलोकान्महीतलम् ।
कुमारावागतौ नागौ पुत्रावश्वतरस्य तु ॥ २०.८ ॥
ब्रह्मरूपप्रतिच्छन्नौ तरुणौ प्रियदर्शनौ ।
तौ तैर्नृपसुतैः सार्धं तथैवान्यैर्द्विजन्मभिः ॥ २०.९ ॥
विनोदैर्विविधैस्तत्र तस्थतुः प्रीतिसंयुतौ ।
सर्व च ते नृपसुतास्ते च ब्रह्मविशां सुताः ॥ २०.१० ॥
नागराजात्मजौ तौ च स्त्रानसंवाहनादिकम् ।
वस्त्रगन्धानुसयुक्तां चक्रुर्भागभुजिक्रियाम् ॥ २०.११ ॥
अहन्यहन्यनुप्राप्ते तौ च नागकुमारकौ ।
आजग्मतुर्मुदा युक्तौ प्रीत्या सूनोर्महीपतेः ॥ २०.१२ ॥
स च ताभ्यां नृपसुतः परं निर्वाणमाप्तवान् ।
विनोदैर्विविधैर्हास्यसंलापादिभिरेव च ॥ २०.१३ ॥
विना ताभ्यां न बुभुजे न सस्त्रौ न पपौ मधु ।
न रराम न जग्राह शास्त्राण्यात्मगुणर्धये ॥ २०.१४ ॥
रसातले च तौ रात्रिं विना तेन महात्मना ।
निश्वासपरमौ नीत्वा जग्मतुस्तं दिने दिने ॥ २०.१५ ॥
मर्त्यलोके परा प्रीतिर्भवतोः केन पुत्रकौ ।
सहेति पप्रच्छ पिता तावुभौ नागदारकौ ॥ २०.१६ ॥
दृष्टयोरत्र पाताले बहूनि दिवसानि मे ।
दिवा रजन्यामेवोभौ पश्यामि प्रियदर्शनौ ॥ २०.१७ ॥
जड उवाच
इति पित्रा स्वयं पृष्टौ प्रणिपत्य कृताञ्जली ।
प्रत्यूचतुर्महाभागावुरगाधिपतेः सुतौ ॥ २०.१८ ॥
पुत्रावूचतुः
पुत्रः शत्रुजितस्तात नाम्ना ख्यात ऋतध्वजः ।
रूपवानार्जवोपेतः शूरो मानी प्रियंवदः ॥ २०.१९ ॥
अनापृष्टकथो वाग्ग्मी विद्वान्मैत्रो गुणाकरः ।
मान्यमानयिता धीमान् ह्रीमान् विनयभूषणः ॥ २०.२० ॥
तस्योपचारसम्प्रीतिसम्बोगापहृतं मनः ।
नागलोके भुवर्लोके न रतिं विन्दते पितः ॥ २०.२१ ॥
तद्वियोगेन नस्तात ! न पातालञ्च शीतलम् ।
परितापाय तत्सङ्गादाह्लादाय रविर्दिवा ॥ २०.२२ ॥
पितोवाच
पुत्रः पुण्यवतो धन्यः स यस्यैवं भविद्विधैः ।
परोक्षस्यापि गुणिभैः क्रियते गुणकीर्तनम् ॥ २०.२३ ॥
सन्ति शास्त्रविदोऽशीलाः सन्ति मूर्खाः सुशीलिनः ।
शास्त्रशीले समं मन्ये पुत्रौ धन्यतरन्तु तम् ॥ २०.२४ ॥
तस्य मित्रगुणान्मित्राण्यमित्राश्च पराक्रमम् ।
कथयन्ति सदा सत्सु पुत्रवांस्तेन वै पिता ॥ २०.२५ ॥
तस्योपकारिणः कच्चिद्भवद्भ्यामभिवाञ्छितम् ।
किञ्चिन्निष्पादितं वत्सौ परितोषाय चेतसः ॥ २०.२६ ॥
स धन्यो जीवितं तस्य तस्य जन्म सुजन्मनः ।
यस्यार्थिनो न विमुखा मित्रार्थो न च दुर्बलः ॥ २०.२७ ॥
मद्गृहे यद्सुवर्णादि रत्नं वाहनमासनम् ।
यच्चान्यत्प्रीतये तस्य तद्देयमविशङ्कया ॥ २०.२८ ॥
धिक्तस्य जीवितं पुंसो मित्राणामुपकारिणाम् ।
प्रतिरूपमकुर्वन् यो जीवामीत्यवगच्छति ॥ २०.२९ ॥
उपकारं सुहृद्वर्गे योऽपकारञ्च शत्रुषु ।
नृमेघो वर्षति प्राज्ञास्तस्येच्छन्ति सदोन्नतिम् ॥ २०.३० ॥
पुत्रावूचतुः
किं तस्य कृतकृत्यस्य कर्तुं शक्येत केनचित् ।
यस्य सर्वार्थिनो गेहे सर्वकामैः सदार्च्चिताः ॥ २०.३१ ॥
यानि रत्नानि तद्गेहे पाताले तानि नः कुतः ।
वाहनासनयानानि भूषणान्यम्बराणि च ॥ २०.३२ ॥
विज्ञानं तत्र यच्चास्ति तदन्यत्र न विद्यते ।
प्राज्ञानामप्यसौ तात सर्वसन्देहहृत्तमः ॥ २०.३३ ॥
एकं तस्यास्ति कर्तव्यमसाध्यं तच्च नौ मतम् ।
हिरण्यगर्भगोविन्दशर्वादीनीश्वरादृते ॥ २०.३४ ॥
पितोवाच
पथापि श्रोतुमिच्छामि तस्य यद्कार्यमुत्तमम् ।
असाध्यमथवा साध्यं किं वासाध्यं विपश्चिताम् ॥ २०.३५ ॥
देवत्वममरेशत्वं तत्पूज्यत्वञ्च मानवाः ।
प्रयान्ति वाञ्छितं वान्यद्दृढं ये व्यवसायिनः ॥ २०.३६ ॥
नाविज्ञातं न चागम्यं नाप्राप्यं दिवि चेह वा ।
उद्यतानां मनुष्याणां यतचित्तेन्द्रियात्मनाम् ॥ २०.३७ ॥
योजनानां सहस्राणि व्रजन् याति पितीलिकः ।
अगच्छन् वैनतेयोऽपि पादमेकं न गच्छति ॥ २०.३८ ॥
क्व भूतलं क्व च ध्रौव्यं स्थानं यत्प्राप्तवान् ध्रुवः ।
उत्तानपादनृपतेः पुत्रः सन् भूमिगोचरः ॥ २०.३९ ॥
तत्कथ्यतां महाभाग कार्यवान् येन पुत्रकौ ।
स भूपालसुतः साधुर्येनानृण्यं भवेत वाम् ॥ २०.४० ॥
पुत्रावूचतुः
तेनाख्यातमिदं तात पूर्ववृतं महात्मना ।
कौमारके यथा तस्य वृतं सद्वृत्तशालिनः ॥ २०.४१ ॥
तन्तु शत्रुजितं तात पूर्वं कश्चिदिद्वजोत्तमः ।
गालवोऽभ्यागमद्धीमान् गृहीत्वा तुरगोत्तमम् ॥ २०.४२ ॥
प्रत्युवाच च राजानं समुपेत्याश्रमं मम ।
कोऽपि दैत्याधमो राजन् विध्वंसयति पापकृत् ॥ २०.४३ ॥
तत्तद्रूपं समास्थाय सिंहेभवनचारिणाम् ।
अन्येषाञ्चाल्पकायानामहर्निशमकारणात् ॥ २०.४४ ॥
समाधिध्यानयुक्तस्य मौनव्रतरतस्य च ।
तथा करोति विघ्रानि यथा चलति मे मनः ॥ २०.४५ ॥
दग्धं कोपाग्निना सद्यः समर्थस्त्वं वयं न तु ।
दुः खार्जितस्य तपसो व्ययमिच्छामि पार्थिव ॥ २०.४६ ॥
एकदा तु मया राजन्नतिनिर्विण्णचेतसा ।
तत्क्लेशितेन निश्वासो निरीक्ष्यासुरमुज्झितः ॥ २०.४७ ॥
ततोऽम्बरतलात्सद्यः पतितोऽयं तुरङ्गमः ।
वाक्चाशरीरिणी प्राह नरनाथ शृणुष्व ताम् ॥ २०.४८ ॥
अश्रान्तः सकलं भूमेर्वलयं तुरगोत्तमः ।
समर्थः क्रान्तुमर्केण तवायं प्रतिपादितः ॥ २०.४९ ॥
पातालाम्बरतोयेषु न चास्य विहता गतिः ।
समस्तदिक्षु व्रजतो न भङ्गः पर्वतेष्वपि ॥ २०.५० ॥
यतो भूवलयं सर्वमश्रान्तोऽयं चरिष्यति ।
अतः कुवलयो नाम्ना ख्यातिं लोके प्रयास्यति ॥ २०.५१ ॥
क्लिश्यत्यहर्निशं पापो यश्च त्वां दानवाधमः ।
तमप्येनं समारुह्य द्विजश्रेष्ठ हनिष्यति ॥ २०.५२ ॥
शत्रुजिन्नाम भूपालस्तस्य पुत्र ऋतध्वजः ।
प्राप्यैतदश्वरत्नञ्च ख्यातिमेतेन यास्यति ॥ २०.५३ ॥
सोऽहं त्वां समनुप्राप्तस्तपसो विघ्रकारिणम् ।
तं निवारय भूपाल भागभाङ्नृपतिर्यतः ॥ २०.५४ ॥
तदेतश्वरत्नं ते मया भूप निवेदितम् ।
पुत्रमाज्ञापय तथा यथा धर्मो न लुप्यते ॥ २०.५५ ॥
स तस्य वचनाद्राजा तं वै पुत्रमृतध्वजम् ।
तमश्वरत्नमारोप्य कृतकौतुकमङ्गलम् ॥ २०.५६ ॥
अप्रेषयत धर्मात्मा गालवेन समं तदा ।
स्वमाश्रमपदं सोऽपि तमादाय ययौ मुनिः ॥ २०.५७ ॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादेठकुवलयाश्वीयोऽ नाम विंशोऽध्यायः