एकोनविंशोऽध्यायः
पुत्र उवाच
इत्यृषेर्वचनं श्रुत्वा कार्तवीर्यो नरेश्वरः ।
दत्तात्रेयाश्रमं गत्त्वा तं भक्त्या समपूजयत् ॥ १९.१ ॥
पादसंवाहनाद्येन मध्वाद्याहरणेन च ।
स्त्रक्चन्दनादिगन्धाम्बुफलाद्यनयनेन च ॥ १९.२ ॥
तथान्नसाधनैस्तस्य उच्छिष्टापोहनेन च ।
परितुष्टो मुनिर्भूतं तमुवाच तथैव सः ॥ १९.३ ॥
यथैवोक्ताः पुरा देवा मद्यभोगादिकुत्सनम् ।
स्त्री चेयं मम पार्श्वस्थेत्येतद्भोगाच्च कुत्सितम् ॥ १९.४ ॥
सदैवाहं न मामेवमुपरोद्धुं त्वमर्हसि ।
अशक्तमुपकाराय शक्तमाराधयस्व भोः ॥ १९.५ ॥
जड उवाच
तेनैवमुक्तो मुनिना स्मृत्वा गर्गवचश्च तत् ।
प्रत्युवाच प्रणम्यैनं सार्तवीर्यार्जुनस्तदा ॥ १९.६ ॥
अर्जुन उवाच
किं मां मोहयसे देव ! स्वां मायां समुपाश्रितः ।
अनघस्त्वं तथैवेयं देवी सर्वभवारणिः ॥ १९.७ ॥
इत्युक्तः प्रीतिमान् देवस्ततस्तं प्रत्युवाच ह ।
कार्तवीर्यं महाभागं वशीकृतमहीतलम् ॥ १९.८ ॥
वरं वृणीष्व गुह्यं मे यत्त्वया समुदीरितम् ।
तेन तुष्टिः परा जाता त्वय्यद्य मम पार्थिव ॥ १९.९ ॥
ये च मां पूजयिष्यन्ति गन्धमाल्यादिभिर्नराः ।
मांसमद्योपहारैश्च मिष्टान्नैश्चाज्यसंयुतैः ॥ १९.१० ॥
लक्ष्मीसमेतं गीतैश्च ब्राह्मणानां तथार्च्चनैः ।
वाद्यैर्मनोरमैर्वोणावेणुशङ्कादिभिस्तथा ॥ १९.११ ॥
तेषामहं परां तुष्टिं पुत्रदारधनादिकम् ।
प्रदास्याम्यवघातञ्च हनिष्याम्यवमन्यताम् ॥ १९.१२ ॥
स त्वं वरय भद्रं ते वरं यन्मसेप्सितम् ।
प्रसादसुमुखस्तेऽहं गुह्यनामप्रकीर्तनात् ॥ १९.१३ ॥
कार्तवीर्य उवाच
यदि देव प्रसन्नस्त्वं तत्प्रयच्छर्धिमुत्तमाम् ।
यया प्रजाः पालयेऽहं न चाधर्ममवाप्नुयाम् ॥ १९.१४ ॥
परानुसरणे ज्ञानमप्रतिद्वन्द्वतां रणे ।
सहस्रमाप्तुमिच्छामि बाहूनां लघुतागुणम् ॥ १९.१५ ॥
असङ्गा गतयः सन्तु शैलाकाशाम्बुभूमिषु ।
पातालेषु च सर्वेषु वधश्चाप्यधिकान्नरात् ॥ १९.१६ ॥
तथोन्मार्गप्रवृत्तस्य चास्तु सन्मार्गदेशकः ।
सन्तु मेऽतिथयः श्लाघ्या वित्तदाने तथाक्षये ॥ १९.१७ ॥
अनष्टद्रव्यता राष्ट्रे ममानुस्मरणेन च ।
त्वयि भक्तिर्ममैवास्तु नित्यमव्यभिचारिणी ॥ १९.१८ ॥
दत्तात्रेय उवाच
यत्र ते कीर्तिताः सर्वे तान् वरान् समवाप्स्यसि ।
मत्प्रसादाच्च भविता चक्रवर्तो त्वमीश्वरः ॥ १९.१९ ॥
जड उवाच
प्रणिपत्य ततस्तस्मै दत्तात्रेयाय सोऽर्जुनः ।
आनाय्य प्रकृतीः सम्यगभिषेकमगृह्णत ॥ १९.२० ॥
आघोषयामास तदा स्थितो राज्ये स हैहयः ।
दत्तात्रेयात्परामृद्धिमवाप्यातिबलान्वितः ॥ १९.२१ ॥
अद्यप्रभृति यः शस्त्रं मामृतेऽन्यो ग्रहीष्यति ।
हन्तव्यः स मया दस्युः परिहंसारतोऽपि वा ॥ १९.२२ ॥
इत्याज्ञप्तेन तद्राष्ट्रे कश्चिदायुधधृङ्नरः ।
तमृते पुरुषव्याघ्रं बभूवोरुपराक्रमः ॥ १९.२३ ॥
स एव ग्रामपालोऽभूत्पशुपालः स एव च ।
क्षेत्रपालः स एवासीद्द्विजातीनाञ्च रक्षिता ॥ १९.२४ ॥
तपस्विनां पालयिता सार्थपालस्तु सोऽभवत् ।
द्स्युव्यालाग्रिशस्त्रादिभयेष्वब्धौ निमज्जताम् ॥ १९.२५ ॥
अन्यासु चैव मग्रानामापत्सु परवीरहा ।
स एव संस्मृतः सद्यः समुद्धर्ताभवन्नृणाम् ॥ १९.२६ ॥
अनष्टद्रव्यता चासीत्तस्मिन् शासति पार्थिवे ।
तेनेष्टं बहुभिर्यज्ञैः समाप्तवरदक्षिणैः ॥ १९.२७ ॥
तेनैव च तपस्तप्तं सङ्ग्रामेष्वभिचेष्टितम् ।
तस्यार्धिमतिमानञ्च दृष्ट्वा प्राहाङ्गिरा मुनिः ॥ १९.२८ ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा सङ्ग्रामे चातिचेष्चितैः ॥ १९.२९ ॥
दत्तात्रेयाद्दिन् यस्मिन् स प्रापर्धि नरेश्वरः ।
तस्मिंस्तस्मिन् दिने यागं दत्तात्रेयस्य सोऽकरोत् ॥ १९.३० ॥
तत्रैव च प्रजाः सर्वास्तस्मिन्नहनि भूपतेः ।
तस्यर्धि परमां दृष्ट्वा यागं चक्रुः समाधिना ॥ १९.३१ ॥
इत्येतत्तस्य माहात्म्यं दत्तात्रेयस्य धीमतः ।
विष्णोश्चराचरगुरोरनन्तस्य महात्मनः ॥ १९.३२ ॥
प्रादुर्भावाः पुराणेषु कथ्यन्ते शार्ड्गधन्विनः ।
अनन्तस्याप्रमेयस्य शङ्खचक्रगदाभृतः ॥ १९.३३ ॥
एतस्य परमं रूपं यश्चिन्तयति मानवः ।
स सुखी स च संसारात्समुत्तीर्णोऽचिराद्भवेत् ॥ १९.३४ ॥
सदैव वैष्णवानाञ्च भक्त्याहं सुलभोऽस्मि भोः ।
इत्येवं यस्य वै वाचस्तं कथं नाश्रयेज्जनः ॥ १९.३५ ॥
अधर्मस्य विनाशाय धर्माचारार्थमेव च ।
अनादिनिधनो देवः करोति स्थितिपालनम् ॥ १९.३६ ॥
तथैव जन्म चाख्यातमलर्कं कथयामि ते ।
तथा च योगः कथितो दत्तात्रेयेण तस्य वै ।
पितृभक्तस्य राजर्षेरलर्कस्य महात्मनः ॥ १९.३७ ॥
इति श्रीमार्कण्डेयपुराणे दत्तात्रेयीये ऊनविंशोऽध्यायः