सप्तदशोऽध्यायः
पुत्र उवाच
ततः काले बहुतिथे द्वितीयो ब्रह्मणः सुतः ।
स्वभार्यां भगवानत्रिरनसूयामपश्यत ॥ १७.१ ॥
ऋतुस्नातां सुचार्वङ्गीं लोभनीयोत्तमाकृतिम् ।
सकामो मनसा भेजे स मुनिस्तामनिन्दिताम् ॥ १७.२ ॥
तस्याभिध्यायतस्तान्तु विकारो योऽन्वजायत ।
तमेवोवाह पवनस्तिरश्चोर्ध्वञ्च वेगवान् ॥ १७.३ ॥
ब्रह्मरूपञ्च शुक्लाभं पतमानं समन्ततः ।
सोमरूपं रजोपेतं दिशस्तं जगृहुर्दश ॥ १७.४ ॥
स सोमो मानसो जज्ञे तस्यामत्रेः प्रजापतेः ।
पुत्रः समस्तसत्त्वानामायुराधार एव च ॥ १७.५ ॥
तुष्टेन विष्णुना जज्ञे दत्तात्रेयो महात्मना ।
स्वशरीरात्समुत्पाद्य सत्त्वोद्रिक्तो द्विजात्तमः ॥ १७.६ ॥
दत्तात्रेय इति ख्यातः सोऽनसूयास्तनं पपौ ।
विष्णुरेवावतीर्णोऽसौ द्वितीयोऽत्रेः सुतोऽभवत् ॥ १७.७ ॥
सप्ताहात्प्रच्युतो मातुरुदरात्कुपितो यतः ।
हैहयेन्द्रमुपावृत्तमपराध्यन्तमुद्धतम् ॥ १७.८ ॥
दृष्ट्वात्रौ कुपितः सद्यो दग्धुकामः स हैहयम् ।
गर्भवासमहायासदुः खामर्षसमन्वितः ॥ १७.९ ॥
दुर्वासास्तमसोद्रिक्तो रुद्रांशः समजायत ।
इति पुत्रत्रयं तस्या जज्ञे ब्रह्मेशवैष्णवम् ॥ १७.१० ॥
सोमो ब्रह्मभवद्विष्णुर्दत्तात्रेयो व्यजायत ।
दुर्वासाः शङ्करो जज्ञे वरदानाद्दिवौकसाम् ॥ १७.११ ॥
सोमः स्वरश्मिभैः शीतैर्वोरुधौषधिमानवान् ।
आप्याययन् सदा स्वर्गे वर्तते स प्रजापतिः ॥ १७.१२ ॥
दत्तात्रेयः प्रजां पाति दुष्टदैत्यनिबर्हणात् ।
शिष्टानुग्रहकृच्चेति ज्ञेयश्चांशः स वैष्णवः ॥ १७.१३ ॥
निर्दहत्यवमन्तारं दुर्वासा भगवानजः ।
रौद्रं समाश्रित्य वपुर्दृङ्मनोवाग्भिरुद्धतः ॥ १७.१४ ॥
सोमत्वं भगवानत्रैः पुनश्चक्रे प्रजापतिः ।
दत्तात्रेयोऽपि विषयान् योगास्थो बुभुजे हरिः ॥ १७.१५ ॥
दुर्वासाः पितरं हित्वा मातरञ्चोत्तम व्रतम् ।
उन्मत्ताख्यं समाश्रित्य परिबभ्राम मेदिनीम् ॥ १७.१६ ॥
मुनिपुत्रवृतो योगी दत्तात्रेयोऽप्यसङ्गिताम् ।
अभीप्स्यमानः सरसि निममज्ज चिरं प्रभुः ॥ १७.१७ ॥
तथापि तं महात्मानमतीव प्रियदर्शनम् ।
तत्यजुर्न कुमारास्ते सरसस्तीरमाश्रिताः ॥ १७.१८ ॥
दिव्ये वर्षशते पूर्णे यदा ते न त्यजन्ति तम् ।
तत्प्रीत्या सरसस्तीरं सर्वे मुनिकुमारकाः ॥ १७.१९ ॥
ततो दिव्याम्बरधरां चारुपीननितम्बिनीम् ।
नारीमादाय कल्याणीमुत्तितार जलान्मुनिः ॥ १७.२० ॥
स्त्रीसन्निकर्षाद्यद्येते परित्यक्ष्यन्ति मामिति ।
मुनिपुत्रास्ततोऽसङ्गी स्थास्यामीति विचिन्तयन् ॥ १७.२१ ॥
तथापि तं मुनिसुता न त्यजन्ति यदा मुनिम् ।
ततः सह तया नार्या मद्यपानमथापिबत् ॥ १७.२२ ॥
सुरापानरतं ते न सभार्यं तत्यजुस्ततः ।
गीतवाद्यादिवनिताभोगसंसर्गदूषितम् ॥ १७.२३ ॥
मन्यमाना महात्मानं पीतासवसविक्रियम् ।
नावाप दोषं योगीशो वारुणीं स पिबन्नपि ॥ १७.२४ ॥
अन्तावसायिवेश्मान्तर्मातरिश्वा वसन्निव ।
सुरां पिबन् सपत्नीकस्तपस्तेपे स योगवित् ।
योगीश्वारश्चिन्त्यमानो योगिभिर्मुक्तिकाङ्क्षिभिः ॥ १७.२५ ॥
इति श्रीमार्कण्डेपुराणे पितापुत्रसंवादे दत्तात्रेयोत्पत्तिर्नाम सप्तदशोऽध्यायः