षोडशोऽध्यायः
पितावाच
कथितं मे त्वया वत्स संसारस्य व्यवस्थितम् ।
स्वरूपमतिहेयस्य घटीयन्त्रवदव्ययम् ॥ १६.१ ॥
तदेवमेतदखिलं मयावगतमीदृशम् ।
किं मया वद कर्तव्यमेवस्मिन् व्यवस्थिते ॥ १६.२ ॥
पुत्र उवाच
यदि मद्वचनं तात श्रद्दधास्यविशङ्कितः ।
तत्परित्यज्य गार्हस्थ्यं वानप्रस्थपरो भव ॥ १६.३ ॥
तमनुष्ठाय विधिवद्विहायाग्निपरिग्रहम् ।
आत्मन्यात्मानमाधया निर्द्वन्द्वो निष्परिग्रहः ॥ १६.४ ॥
एकान्तराशी वश्यात्मा भव भिक्षुरतन्द्रितः ।
तत्र योगापरो भूत्वा बाह्यस्पर्शविवर्जितः ॥ १६.५ ॥
ततः प्राप्स्यति तं योगं दुः शसंयोगभेषजम् ।
मुक्तिहेतुमनौपम्यमनाख्येयमसङ्गिनम् ।
यत्संयोगान्न ते योगो भूयो भूतैर्भविष्यति ॥ १६.६ ॥
पितावाच
वत्स योगं ममाचक्ष्व मुक्तिहेतुमतः परम् ।
येन भूतैः पुनर्भूतो नेदृगः खमवाप्नुयाम् ॥ १६.७ ॥
यत्रासक्तिपरस्यात्मा मम संसारबन्धनैः ।
नैति योगमयोगोऽपि तं योगमधुना वद ॥ १६.८ ॥
संसारादित्यतापार्तिविप्लुष्यद्देहमानसम् ।
ब्रह्मज्ञानाम्बुशीतेन सिञ्च मां वाक्यवारिणा ॥ १६.९ ॥
अविद्याकृष्णसर्पेण दष्टं तद्विषपीडितम् ।
स्ववाक्यामृतपानेन मां जीवय पुनर्मृतम् ॥ १६.१० ॥
पुत्रदारगृहक्षेत्रममत्वनिगजडार्दितम् ।
मां मोचयेष्टसद्भावविज्ञानोद्घाटनैस्त्वरन् ॥ १६.११ ॥
पुत्र उवाच
शृणु तात ! यथा योगो दत्तात्रेयेण धीमता ।
अलर्काय पुरा प्रोक्तः सम्यक्पृष्टेन विस्तरात् ॥ १६.१२ ॥
पितोवाच
दत्तात्रेयः सुतः कस्य कथं वा योगमुक्तवान् ।
कश्चालर्को महाभागो यो यौगं परिपृष्टवान् ॥ १६.१३ ॥
पुत्र उवाच
कौशिको ब्राह्मणः कश्चित्प्रतिष्ठानेऽभवत्पुरे ।
सोऽन्यजन्मकृतैः पापैः कुष्ठरोगातुरोऽभवत् ॥ १६.१४ ॥
तं तथा व्याधितं भार्या पतिं देवमिवार्च्चयत् ।
पादाभ्यङ्गाङ्गसंवाहस्त्रानाच्छादनभोजनैः ॥ १६.१५ ॥
श्लेष्ममूत्रपुरीषासृक्प्रवाहक्षालनेन च ।
रहश्चैवोपचारेण प्रियसम्भाषणेन च ॥ १६.१६ ॥
स तया पूज्यमानोऽपि सदातीव विनीतया ।
अतीव तीव्रकोपत्वान्निर्भर्त्सयति निष्ठुरः ॥ १६.१७ ॥
तथापि प्रणता भार्या तममन्यत दैवतम् ।
तं तथाप्यतिबीभत्सं सर्वश्रेष्ठममन्यत ॥ १६.१८ ॥
अचङ्क्रमणशोलोऽपि स कदाचिद्द्विजोत्तमः ।
प्राह भार्यां नयस्वेति त्वं मां तस्या निवेशनम् ॥ १६.१९ ॥
या सा वेश्या मया दृष्टा राजमार्गे गृहोषिता ।
तां मां प्रापय धर्मज्ञे ! सैव मे हृदि वर्तते ॥ १६.२० ॥
दृष्टा सूर्योदये बाला रात्रिश्चेयमुपागता ।
दर्शनानन्तरं सा मे हृदयान्नापसर्पति ॥ १६.२१ ॥
यदि सा चारुसर्वाङ्गी पीनश्रोणिपयोधरा ।
नोपगूहति तन्वङ्गी तन्मां द्रक्ष्यसि वै मृतम् ॥ १६.२२ ॥
वामः कामो मनुष्याणां बहुभिः प्रार्थ्यते च सा ।
ममाशक्तिश्च गमने सङ्कुलं प्रतिभाति मे ॥ १६.२३ ॥
तत्तदा वचनं श्रुत्वा भर्तुः कामातुरस्य सा ।
तत्पत्नी सत्कुलोत्पन्ना महाभागा पतिव्रता ॥ १६.२४ ॥
गाँ परिकरं बद्ध्वा शुल्कमादाय चाधिकम् ।
स्कन्धे भर्तारमादाय जगाम मृदुगामिनी ॥ १६.२५ ॥
निशि मेघास्तृते व्योम्नि चलद्विद्युत्प्रदर्शिते ।
राजमार्गे प्रियं भर्तुश्चिकीर्षन्ती द्विजाङ्गना ॥ १६.२६ ॥
पथि शूले तथा प्रोतमचौरं यौरशङ्कया ।
माण्डव्यमतिदुः खार्तमन्धकारेऽथ स द्विजः ॥ १६.२७ ॥
पत्नीस्कन्धे समारूढश्चालयामास कौशिकः ।
पादावमर्षणात्क्रुद्धो माण्डव्यस्तमुवाच ह ॥ १६.२८ ॥
येनाहमेवमत्यर्थं दुः खितश्चालितः पदा ।
दशां कष्टामनुप्राप्तः स पापात्मा नराधमः ॥ १६.२९ ॥
सूर्योदयेऽवशः प्राणैर्विमोक्ष्यति न संशयः ।
भास्करालोकनादेव स विनाशमवाप्स्यति ॥ १६.३० ॥
तस्य भार्याततः श्रुत्वा तं शापमतिदारुणम् ।
प्रोवाच व्यथिता सूर्यो नैवोदयमुपैष्यति ॥ १६.३१ ॥
ततः सूर्योदयाभावादभवत्सन्तता निशा ।
बहून्यहः प्रमाणानि ततो देवा भयं ययुः ॥ १६.३२ ॥
निः स्वाध्यायवषट्कारस्वधास्वाहाविवर्जितम् ।
कथं नु खल्विदं सर्वं न गच्छेत्सङ्क्षयं जगत् ॥ १६.३३ ॥
अहोरात्रव्यवस्थाया विना मासर्तुसङ्क्षयः ।
तत्सङ्क्षयान्न त्वयने ज्ञायेते दक्षिणोत्तरे ॥ १६.३४ ॥
विना चायनविज्ञानात्कालः संवत्सरः कुतः ।
संवत्सरं विना नान्यत्कालज्ञानं प्रवर्तते ॥ १६.३५ ॥
पतिव्रताया वचसा नोद्गच्छति दिवाकरः ।
सूर्योदयं विना नैव स्त्रानदानादिकाः क्रियाः ॥ १६.३६ ॥
नाग्नेर्विहरणञ्चैव क्रात्वभावश्च लक्ष्यते ।
नैवाप्ययनमस्माकं विना होमेन जायते ॥ १६.३७ ॥
वयमाप्यायिता मर्त्यैर्यज्ञभागैर्यथोचितैः ।
वृष्ट्या ताननुगृह्णीमो मर्त्यान् शस्यादिसिद्धये ॥ १६.३८ ॥
निष्पादितास्वोषधीषु मर्त्या यज्ञैर्यजन्ति नः ।
तेषां वयं प्रयच्छामः कामान् यज्ञादिपूजिताः ॥ १६.३९ ॥
अधो हि वर्षाम वयं मर्त्याश्चोर्ध्वप्रवर्षिणः ।
तोयवर्षेण हि वयं हविर्वर्षेण मानवाः ॥ १६.४० ॥
ये नास्माकं प्रयच्छन्ति नित्यनैमित्तकीः क्रियाः ।
क्रतुभागं दुरात्मानः स्वयञ्चाश्नन्ति लोलुपाः ॥ १६.४१ ॥
विनाशाय वयं तेषां तोयसूर्याग्निमारुतान् ।
क्षितिञ्च सन्दूषयामः पापानामपकारिणाम् ॥ १६.४२ ॥
दुष्टतोयादिभोगेन तेषां दुष्कृतकर्मिणाम् ।
उपसर्गाः प्रवर्तन्ते मरणाय सुदारुणाः ॥ १६.४३ ॥
ये त्वस्मान् प्रीणयित्वा तु भुञ्जते शेषमात्मना ।
तेषां पुण्यान् वयं योकान् विदधाम महात्मनाम् ॥ १६.४४ ॥
तन्नास्ति सर्वमेवैतद्विनैषां व्युष्टिसंस्थैतम् ।
कथं नु दिनसर्गः स्यादन्योऽन्यमवदन् सुराः ॥ १६.४५ ॥
तेषामेव समेतानां यज्ञव्युच्छित्तिशङ्किनाम् ।
देवानां वचनं श्रुत्वा प्राह देवः प्रजापतिः ॥ १६.४६ ॥
तेजः परं तेजसैव तपसा च तपस्तथा ।
प्रशाम्यतेऽमरास्तस्माच्छृणुध्वं वचनं मम ॥ १६.४७ ॥
पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः ।
तस्य चानुदयाद्धानिर्मर्त्यानां भवतां तथा ॥ १६.४८ ॥
तस्मात्पतिव्रतामत्रेरनुभूयां तपस्विनीम् ।
प्रसादयत वै पत्नीं भानोरुदयकाम्यया ॥ १६.४९ ॥
पुत्र उवाच
तैः सा प्रसादिता गत्वा प्रोहेष्टं व्रियतामिति ।
अयाचन्त दिनं देवा भवत्विति यथा पुरा ॥ १६.५० ॥
अनसूयोवाच
पतिव्रताया माहात्म्यं न हीयेत कथन्त्विति ।
सम्मान्य तस्मात्तां साध्वीमहः स्त्रक्ष्याम्यहं सुराः ॥ १६.५१ ॥
यथा पुनरहोरात्रसंस्थानमुपजायते ।
यथा च तस्याः स्वपतिर्न साध्व्या नाशमेष्यति ॥ १६.५२ ॥
पुत्र उवाच
एवमुक्त्वा सुरांस्तस्या गत्वा सा मन्दिरं शुभा ।
उवाच कुशलं पृष्टा धर्मं भर्तुस्तथात्मनः ॥ १६.५३ ॥
अनसूयोवाच
कच्चिन्नन्दसि कल्याणि स्वभर्तुर्मुखदर्शनात् ।
कच्चिच्चाखिलदेवेभ्यो मन्यसेऽभ्यधिकं पतिम् ॥ १६.५४ ॥
भर्तृशुश्रूषणादेव मया प्राप्तं महत्फलम् ।
सर्वकामफलावाप्त्या प्रत्यूहाः परिवर्तिताः ॥ १६.५५ ॥
पञ्चर्णानि मनुष्येण साध्वि ! देयानि सर्वदा ।
तथात्मवर्णधर्मेण कर्तव्यो धनसञ्चयः ॥ १६.५६ ॥
प्राप्तश्चार्थस्ततः पात्रे विनियोज्यो विधानतः ।
सत्यार्जवतपोदानैर्दयायुक्तो भवेत्सदा ॥ १६.५७ ॥
क्रियाश्च शास्त्रनिर्दिष्टा रागद्वेषविवर्जिताः ।
कर्तव्या अन्वहं श्रद्धापुरस्कारेण शक्तितः ॥ १६.५८ ॥
स्वजातिविहितानेव लोकानाप्नोति मानवः ।
क्लेशेन महता साध्वि ! प्राजापत्यादिकान् क्रमात् ॥ १६.५९ ॥
स्त्रियस्त्वेवं समस्तस्य नरैर्दुः खार्जितस्य वै ।
पुण्यस्यार्धापहारिण्यः पतिशुश्रूषयैव हि ॥ १६.६० ॥
नास्ति स्त्रीणां पृथग्यज्ञो न श्राद्धं नाप्युपोषितम् ।
भर्तृशुश्रूषयैवैतान् लोकानिष्टान् व्रजन्ति हि ॥ १६.६१ ॥
तस्मात्साध्वि ! महाभागे ! पतिशुश्रूषणं प्रति ।
त्वया मतिः सदा कार्या यतो भर्ता परा गतिः ॥ १६.६२ ॥
यद्देवेभ्यो यच्च पित्रागतेभ्यः
कुर्याद्भर्ताभ्यर्च्चनं सत्क्रियातः ।
तस्याप्यर्धं केवलानन्यचित्ता
नारी भुङ्क्ते भर्तृशुश्रूषयैव ॥ १६.६३ ॥
पुत्र उवाच
तस्यास्तद्वचनं श्रुत्वा प्रतिपूज्य तथादरात् ।
प्रत्युवाचात्रिपत्नीं तामनसूयामिदं वचः ॥ १६.६४ ॥
धन्यास्म्यनुगृहीतास्मि देवैश्चाप्यवलोकिता ।
यन्मे प्रकृतिकल्याणि ! श्रद्धां वर्धयसे पुनः ॥ १६.६५ ॥
जानाम्येतन्न नारीणां काचित्पतिसमा गतिः ।
तत्प्रीतिश्चोपकाराय इह लोके परत्र च ॥ १६.६६ ॥
पतिप्रसादादिह च प्रेत्य चैव यशस्विनि ।
नारी सुखमवाप्नोति नार्या भर्ता हि देवता ॥ १६.६७ ॥
सा त्वं ब्रूहि महाभागे ! प्राप्ताया मम मन्दिरम् ।
आर्याया यन्मया कार्यं तथार्येणापि वा शुभे ॥ १६.६८ ॥
अनसूयोवाच
एते देवाः सहेन्द्रेण मामुपागम्य दुः खिताः ।
त्वद्वाख्यापास्तसत्कर्मदिननक्तनिरूपणाः ॥ १६.६९ ॥
याचन्तेऽहर्निशासंस्थां यथावदविखण्डिताम् ।
अहं तदर्थमायाता शृणु चैतद्वचो मम ॥ १६.७० ॥
दिनाभावात्समस्तानामभावो यागकर्मणाम् ।
तदभावात्सुराः पुष्टिं नोपयान्ति तपस्विनि ॥ १६.७१ ॥
अह्नश्चैव समुच्छेदादुच्छेदः सर्वकर्मणाम् ।
तदुच्छेदादनावृष्ट्या जगदुच्छेदमेष्यति ॥ १६.७२ ॥
तत्त्वमिच्छसि चेदेतत्जगदुद्धर्तुमापदः ।
प्रसीद साध्वि ! लोकानां पूर्ववद्धर्ततां रविः ॥ १६.७३ ॥
ब्राह्मण्युवाच
माण्डव्येन महाभागे ! शप्तो भर्ता ममेश्वरः ।
सूर्योदये विनाशं त्वं प्राप्स्यसीत्यतिमन्युना ॥ १६.७४ ॥
अनसूयोवाच
यदि वा रोचते भद्रे ! ततस्त्वद्वचनादहम् ।
करोमि पूर्ववद्देहं भर्तारञ्च नवं तव ॥ १६.७५ ॥
मया हि सर्वथा स्त्रीणां माहात्म्यं वरवर्णिनि ।
पतिव्रतानामाराध्यमिति सम्मानयामि ते ॥ १६.७६ ॥
पुत्र उवाच
तथेत्युक्ते तया सूर्यमाजुहाव तपस्विनी ।
अनसूयार्घ्यमुद्यम्य दशरात्रे तदा निशि ॥ १६.७७ ॥
ततो विवस्वान् भगवान् फुल्लपद्मारुणाकृतिः ।
शैलराजानमुदयमारुरोहोरुमण्डलः ॥ १६.७८ ॥
समनन्तरमेवास्या भर्ता प्राणैर्व्ययुज्यत ।
पपत च महीपृष्ठे पतन्तं जगृहे च सा ॥ १६.७९ ॥
अनसूयोवाच
न विषादस्त्वया भद्रे ! कर्तव्यः पश्य मे बलम् ।
पतिशुश्रूषयावाप्तं तपसः किं चिरेण ते ॥ १६.८० ॥
यथा भर्तृसमं नान्यमपश्यं पुरुषं क्वचित् ।
रूपतः शीलतो बुद्ध्या वाङ्माधुर्ंय्यादिभूषणैः ॥ १६.८१ ॥
तेन सत्येन विप्रोऽयं व्याधिमुक्तः पुनर्युवा ।
प्राप्नोतु जीवितं भार्यासहायः शरदां शतम् ॥ १६.८२ ॥
यथा भर्तृसमं नान्यमहं पश्यामि दैवतम् ।
तेन सत्येन विप्रोऽयं पुनर्जोवत्वनामयः ॥ १६.८३ ॥
कर्मणा मनसा वाचा भर्तुराराधनं प्रति ।
यथा ममोद्यमो नित्यं तथायं जीवतां द्विजः ॥ १६.८४ ॥
पुत्र उवाच
ततो विप्रः समुत्तस्थौ व्याधिमुक्तः पुनर्युवा ।
स्वभाभिर्भासयन् वेश्म वृन्दारक इवाजरः ॥ १६.८५ ॥
ततोऽपतत्पुष्पवृष्टिर्देववाद्यादिनिस्वनः ।
लेभिरे च मुदं देवा अनसूयामथाब्रुवन् ॥ १६.८६ ॥
देवा ऊचुः
वरं वृणीष्व कल्याणि देवकार्यं महत्कृतम् ।
त्वया यस्मात्ततो देवा वरदास्ते तपस्विनि ॥ १६.८७ ॥
अनसूयोवाच
यदि देवाः प्रसन्ना मे पितामहपुरोगमाः ।
वरदा वरयोग्या च यद्यहं भवतां मता ॥ १६.८८ ॥
तद्यान्तु मम पुत्रत्वं ब्रह्मविष्णुमहेश्वराः ।
योगञ्च प्राप्नुयां भर्तृसहिता क्लेशमुक्तये ॥ १६.८९ ॥
एवमस्त्विति तां देवा ब्रह्मविष्णुशिवादयः ।
प्रोक्त्वा जग्मुर्यथान्यायमनुमान्य तपस्विनीम् ॥ १६.९० ॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे अनसूयावरप्राप्तिर्नाम षोडशोऽध्यायः