१४

चतुर्दशोऽध्यायः

पुत्र उवाच

इति पृष्टस्तदा तेन शृण्वतां नो महात्मना ।
उवाच पुरुषो याम्यो घोरोऽपि प्रसृतं वचः ॥ १४.१ ॥

यमकिङ्कर उवाच

महाराज ! यथात्थ त्वं तथैतन्नात्र संशयः ।
किन्तु स्वल्पं कृतं पापं भवता स्मारयामि तत् ॥ १४.२ ॥
वैदर्भो तव या पत्नी पीवरी नाम नामतः ।
ऋतुमत्या ऋतुर्वन्ध्यस्त्वया तस्याः कृतः पुरा ॥ १४.३ ॥
शुशोभनायां कैकेय्यामासक्तेन ततो भवान् ।
ऋतुव्यतिक्रमात्प्राप्तो नरकं घोरमीदृशम् ॥ १४.४ ॥
होमकाले यथा वह्निराज्यपातमवेक्षते ।
ऋतौ प्रजापतिस्तद्वद्बीजपातमवेक्षते ॥ १४.५ ॥
यस्तमुल्लङ्घ्य धर्मात्मा कामेष्वासक्तिमान् भवेत् ।
स तु पित्र्यादृणात्पापमवाप्य नरकं पतेत् ॥ १४.६ ॥
एतावदेव ते पापं नान्यत्किञ्चन विद्यते ।
तदेहि गच्छ पुण्यानामुपभोगाय पार्थिव ॥ १४.७ ॥

राजोवाच

यास्यामि देवानुचर यत्र त्वं मां नयिष्यसि ।
किञ्चित्पृच्छामि तन्मे त्वं यथावद्वक्तुमर्हसि ॥ १४.८ ॥
वज्रतुण्डास्त्वमी काकाः पुंसां नयनहारिणः ।
पुनः पुनश्च नेत्राणि तद्वदेषां भवन्ति हि ॥ १४.९ ॥
किं कर्म कृतवन्तश्च कथयैतज्जुगुप्सितम् ।
हरन्त्येषां तथा जिह्वां जायमानां पुनर्नवाम् ॥ १४.१० ॥
परपत्रेण पाट्यन्ते कस्मादेतेऽतिदुः खिताः ।
करम्भवालुकास्वेते पच्यन्ते तैलगोचराः ॥ १४.११ ॥
अयोमुखैः खगैश्चैते कृष्यन्ते किंविधा वद ।
विश्र्लिष्टदेहबन्धार्तिमहारावविराविणः ॥ १४.१२ ॥
अयश्चञ्चुनिपातेन सर्वाङ्गक्षतदुः खिताः ।
किमेतेऽनिष्टकर्तारस्तुद्यन्तेऽहर्निशं नराः ॥ १४.१३ ॥
एताश्चान्याश्च दृश्यन्ते यातनाः पापकर्मिणाम् ।
येन कर्मविपाकेण तन्ममाशेषतो वद ॥ १४.१४ ॥

यमकिङ्कर उवाच

यन्मां पृच्छसि भूपाल ! पापकर्मफलोदयम् ।
तत्तेऽहं सम्प्रवक्ष्यामि सङ्क्षेपेण यथातथम् ॥ १४.१५ ॥
पुण्यापुण्ये हि पुरुषः पर्यायेण समश्नते ।
भुञ्जतश्च क्षयं याति पापं पुण्यमथापि वा ॥ १४.१६ ॥
न तु भोगादृते पुण्यं किञ्चिद्वा कर्म मानवम् ।
पापकं वा पुनात्याशु क्षयो भोगात्प्रजायते ॥ १४.१७ ॥
परित्यजति भोगाच्च पुण्यापुण्ये निबोध मे ।
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् ॥ १४.१८ ॥
मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकर्मिणः ।
गतिं नानाविधां यान्ति जन्तवः कर्मबन्धनात् ॥ १४.१९ ॥
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् ।
श्रद्धधानाश्च शान्ताश्च धनदाः शुभकारिणः ॥ १४.२० ॥
व्यालकुञ्जरदुर्गाणि सर्पचौरभयानि तु ।
हताः पापेन गच्छन्ति पापिनः किमतः परम् ॥ १४.२१ ॥
अनेकशतसाहस्त्रजन्मसञ्चयसञ्चितम् ।
पुण्यापुण्यं नृणां तद्वत्सुखदुः खाङ्कुरोद्भवम् ॥ १४.२३ ॥
यथा बीजं हि भूपाल ! पयांसि समवेक्षते ।
पुण्यापुण्ये तथा कालदेशान्यकर्मकारकम् ॥ १४.२४ ॥
स्वल्पं पापं कृतं पुंसा देशकालोपपादितम् ।
पादन्यासकृतं दुः खं कण्टकोत्थं प्रयच्छति ॥ १४.२५ ॥
तत्प्रभूततरं स्थूलं शूलकीलकसम्भवम् ।
दुः खं यच्छति तद्वच्च शिरोरोगादि दुः सहम् ॥ १४.२६ ॥
अपथ्याशनशीतोष्णश्रमतापादिकारकम् ।
तथान्योऽन्यमपेक्षन्ते पापानि फलसङ्गमे ॥ १४.२७ ॥
एवं महान्ति पापानि दीर्घरोगादिविक्रियाम् ।
तद्वच्छस्त्राग्निकृच्छ्रार्तिबन्धनादिफलाय वै ॥ १४.२८ ॥
स्वल्पं पुण्यं शुभं गन्धं हेलया सम्प्रयच्छिति ।
स्पर्श वाप्यथवा शब्दं रसं रूपमथापि वा ॥ १४.२९ ॥
चिराद्गुरुतरं तद्वन्महान्तमपि कालजम् ।
एवञ्च सुखदुः खानि पुण्यापुण्योद्भवानि वै ॥ १४.३० ॥
भुञ्जानोऽनेकसंसारसम्भवानीह तिष्ठति ।
जाति देशावरुद्धानि ज्ञानाज्ञानफलानि च ॥ १४.३१ ॥
तिष्णन्ति तत्र युक्तानि लिङ्गमात्रेण चात्मनि ।
वपुषा मनसा वाचा न कदाचित्क्वचिन्नरः ॥ १४.३२ ॥
अकुर्वन् पापकं कर्म पुण्यं वाप्यवतिष्ठते ।
यद्यत्प्राप्नोति पुरुषो दुः खं सुखमथापि वा ॥ १४.३३ ॥
प्रभूतमथवा स्वल्पं विक्रियाकारि चेतसः ।
तावता तस्य पुण्यं वा पापं वाप्यथ चेतरत् ॥ १४.३४ ॥
उपभोगात्क्षयं याति भुज्यमानमिवाशनम् ।
एवमेते महापापं यातनाभिरहर्निशम् ॥ १४.३५ ॥
क्षपयन्ति नरा घोरं नरकान्तर्विवर्तिनः ।
तथैव राजन् ! पुण्यानि स्वर्गलोकेऽमरैः सह ॥ १४.३६ ॥
गन्धर्वसिद्धाप्सरसां गीताद्यैरुपभुञ्जते ।
देवत्वे मानुषत्वे च तिर्यक्त्वे च शुभाशुभम् ॥ १४.३७ ॥
पुण्यपापोद्भवं भुङ्क्ते सुखदुः खोपलक्षणम् ।
यद्त्वं पृच्छसि मां राजन् ! यातनाः पापकर्मिणाम् ।
केन केनेति पापेन तत्ते वक्ष्याम्यशेषतः ॥ १४.३८ ॥
दुष्टेन चक्षुषा दृष्टाः परदारा नराधमैः ।
मानसेन च दुष्टेन परद्रव्यञ्च सस्पृहैः ॥ १४.३९ ॥
वज्रतुण्डाः खगास्तेषां हरन्त्येते विलोचने ।
पुनः पुनश्च सम्भूतिरक्ष्णोरेषां भवत्यथ ॥ १४.४० ॥
यावतोऽक्षिनिमेषांस्तु पापमेभिर्नृभिः कृतम् ।
तावद्वर्षसहस्राणि नेत्रात्ति प्राप्नुवन्त्युत ॥ १४.४१ ॥
असच्छास्त्रोपदेशास्तु यैर्दत्ता यैश्च मन्त्रिताः ।
सम्यग्दृष्टेर्विनाशाय रिपूणामपि मानवैः ॥ १४.४२ ॥
यैः शास्त्रमन्यथा प्रोक्तं यैरसद्वागुदाहृता ।
वेददेवद्विजातीनां गुरोर्निन्दा च यैः कृता ॥ १४.४३ ॥
हरन्ति तेषां जिह्वाश्च जायमानाः पुनः पुनः ।
तावतो वत्सरानेते वज्रतुण्डाः सदारुणाः ॥ १४.४४ ॥
मित्रभेदं तथा पित्रा पुत्रस्य स्वजनस्य च ।
याज्योपाध्याययोर्मात्रा सुतस्य सहचारिणः ॥ १४.४५ ॥
भार्यापत्योश्च ये केचिद्भेदं चक्रुर्नराधमाः ।
त हमे पश्य पाट्यन्ते करपत्रेण पार्थिव ॥ १४.४६ ॥
परोपतापका ये च ये चाह्लादनिषेधकाः ।
तालवृन्तानिलस्थानचन्दनोशीरहारिणः ॥ १४.४७ ॥
प्राणान्तिकं ददुस्तापमदुष्टानाञ्च येऽधमाः ।
करम्भवालुकासंस्थास्त इमे पापभागिनः ॥ १४.४८ ॥
भुङ्क्ते श्राद्धन्तु योऽन्यस्य नरोऽन्येन निमन्त्रितः ।
दैवे वाप्यथवा पित्र्ये स द्विधा कृष्यते खगैः ॥ १४.४९ ॥
मर्माणि यस्तु साधूनामसद्वाग्भिर्निकृन्तति ।
तमिमे तुदमानास्तु खगास्तिष्ठन्त्यवारिता ॥ १४.५० ॥
यः करोति च पैशुन्यमन्यवागन्यथामतिः ।
पाट्यते हि द्विधा जिह्वा तस्येत्थं निशितैः क्षुरैः ॥ १४.५१ ॥
मातापित्रोर्गुरूणाञ्च येऽवज्ञां चक्रुरुद्धताः ।
त इमे पूयविण्मूत्रगर्ते मज्जन्त्यधोमुखाः ॥ १४.५२ ॥
देवतातिथिभूतेषु भृत्येष्वभ्यागतेषु च ।
अभुक्तवत्सु येऽश्नन्ति तद्वत्पित्रग्निपक्षिषु ॥ १४.५३ ॥
दुष्टास्ते पूयनिर्यासभुजः सूचीमुखास्तु ते ।
जायन्ते गिरिवर्ष्माणः पश्यैते यादृशा नराः ॥ १४.५४ ॥
एकपङ्क्त्या तु ये विप्रमथवेतरवर्णजम् ।
विषमं बोजयन्तीह विड्भुजस्त इमे यथा ॥ १४.५५ ॥
एकसार्थप्रयातं ये निः स्वमर्थार्थिनं नरम् ।
अपास्य स्वान्नमश्नन्ति त इमे श्लेष्मभोजिनः ॥ १४.५६ ॥
गोबाह्मणाग्नयः स्पृष्टा यैरुच्छिष्टैर्नरेश्वर ।
तेषामेतेऽग्निकुम्भेषु लेलिह्यन्त्याहिताः कराः ॥ १४.५७ ॥
सूर्येन्दुतारका दृष्टा यैरुच्छिष्टैस्तु कामतः ।
तेषां याम्यैर्नरैर्नेत्रे न्यस्तो वह्निः समेध्यते ॥ १४.५८ ॥
गावोऽग्निर्जननी विप्रोज्येष्ठभ्राता पिता स्वसा ।
जामयो गुरवो वृद्धा यैः स्पृष्टास्तु पदा नृभिः ॥ १४.५९ ॥
बद्धाङ्घ्रयस्ते निगडैलौहैरग्निप्रतापितैः ।
अङ्गारराशिमध्यस्थास्तिष्ठन्त्याजानुदाहिनः ॥ १४.६० ॥
पायसं कृशरं छागो देवान्नानि च यानि वै ।
भुक्तानि यैरसंस्कृत्य तेषां नेत्राणि पापिनाम् ॥ १४.६१ ॥
निपातितानां भूपृष्ठे उद्वृत्ताक्षि निरीक्षताम् ।
सन्दंशैः पश्य कृष्यन्ते नरैर्याम्यैर्मुखात्ततः ॥ १४.६२ ॥
गुरुदेवद्विजातीनां वेदानाञ्च नराधमैः ।
निन्दा निशामिता यैश्च पापानामभिनन्दताम् ॥ १४.६३ ॥
तेषामयोमयान् कीलानग्निवर्षान् पुनः पुनः ।
कर्णेषु प्रेरयन्त्येते याम्या विलपतामपि ॥ १४.६४ ॥
यैः प्रपादेवविप्रौकोदेवालयसभाः शुभाः ।
भङ्क्त्वा विध्वंसमानीताः क्रोधलोभानुवर्तिभिः ॥ १४.६५ ॥
तेषामेतैः शितैः शस्त्रैर्मुहुर्विलपतां त्वचः ।
पृथक्कुर्वन्ति वै याम्याः शरीरादतिदारुणाः ॥ १४.६६ ॥
गोब्राह्मणार्कमार्गेषु येऽवमेहन्ति मानवाः ।
तेषामेतानि कृष्यन्ते गुदेनान्त्राणि वायसैः ॥ १४.६७ ॥
दत्त्वा कन्यां च एकस्मै द्वितीयाय प्रयच्छति ।
स त्वेवं नैकधाच्छिन्नः क्षारनद्यां प्रवाह्यते ॥ १४.६८ ॥
स्वपोषणपरो यस्तु परित्यजति मानवः ।
पुत्रभृत्यकलत्रादिबन्धुवर्गमकिञ्चिनम् ॥ १४.६९ ॥
दुर्भिक्षे सम्भ्रमे वापि सोऽप्येवं यमकिङ्करैः ।
उत्कृत्य दत्तानि मुखे स्वमांसान्यश्नुते क्षुधा ॥ १४.७० ॥
शरणागतान् यस्त्यजति लोभाद्वृत्त्युपजीविनः ।
सोऽप्येवं यन्त्रपीडाभिः पीड्यते यमकिङ्करैः ॥ १४.७१ ॥
सुकृतं ये प्रयच्छन्ति यावज्जन्म कृतं नराः ।
ते पिष्यन्ते शिलापेषैर्यथैते पापकर्मिणः ॥ १४.७२ ॥
न्यासापहारिणो बद्धाः सर्वगात्रेषु बन्धनैः ।
कृमिवृश्चिककाकोलैर्भुज्यन्तेऽहर्निशं नराः ॥ १४.७३ ॥
क्षुत्क्षामास्तृट्पतज्जिह्वातालवो वेदनातुराः ।
दिवामैथुनिनः पापाः परदारभुजश्च ये ॥ १४.७४ ॥
तथैव कण्टकैर्देर्घैरायसैः पश्य शाल्मलिम् ।
आरोपिता विभिन्नाङ्गाः प्रभूतासृक्स्त्रवाविलाः ॥ १४.७५ ॥
मूषायामपि पश्यैतान्नाश्यमानान् यमानुगैः ।
पुरुषैः पुरुषाव्याघ्र ! परदारावमर्षिणः ॥ १४.७६ ॥
उपाद्यायमधः कृत्वा स्तब्धो योऽध्ययनं नरः ।
गृह्णाति शिल्पमथवा सोऽप्येवं शिरसा शिलाम् ॥ १४.७७ ॥
बिभ्रत्क्लेशमवाप्नोति जनमार्गेऽतिपीडितः ।
क्षुत्क्षामोऽहर्निशं भारपीडाव्यथितमस्तकः ॥ १४.७८ ॥
मूत्रश्लेष्मपूरीषाणि यैरुत्सृष्टानि वारिणि ।
त इमे श्लेष्मविण्मूत्रदुर्गन्धं नरकं गताः ॥ १४.७९ ॥
परस्परञ्च मांसानि भक्ष्यन्ति क्षुधान्विताः ।
भुक्तं नातिथ्यविधिना पूर्वमेभैः परस्परम् ॥ १४.८० ॥
अपविद्धास्तु यैर्वेदा वहनयश्चाहिताग्निभिः ।
त इमे शालशृङ्गाग्रात्पात्यन्तेऽधः पुनः पुनः ॥ १४.८१ ॥
पुनर्भूपतयो जीर्णा यावज्जीवन्ति ये नराः ।
इमे कृमित्वमापन्ना भक्ष्यन्तेऽत्र पिपीलिकैः ॥ १४.८२ ॥
पतितप्रतिग्रहादानाद्यजनान्नित्यसेवनात् ।
पाषाणमध्यकीटत्वं नरः सततमश्नुते ॥ १४.८३ ॥
पश्यतो भृत्यवर्गस्य मित्राणामतिथेस्तथा ।
एको मिष्टान्नभुग्भुङ्क्ते ज्वलदङ्गारसञ्चयम् ॥ १४.८४ ॥
वृकैर्भयङ्करैः पृष्ठं नित्यमस्योपभुज्यते ।
पृष्ठमांसं नृपैतेन यतो लोकस्य भक्षितम् ॥ १४.८५ ॥
अन्धोऽथ बधिरो मूको भ्राम्यतेऽयं क्षुधातुरः ।
अकृतज्ञोऽधमः पुंसामुपकारेषु वर्तताम् ॥ १४.८६ ॥
अयं कृतघ्रो मित्राणामपकारी सुदुर्मतिः ।
तत्पकुम्भे निपतति ततो यास्यति पेषणम् ॥ १४.८७ ॥
करम्भवालुकां तस्मात्ततो यन्त्रानपीडनम् ।
असिपत्रवनं तस्मात्करपत्रेण पाटनम् ॥ १४.८८ ॥
कालसूत्रे तथा छेदमनेकाश्चैव यातनाः ।
प्राप्य निष्कृतिमेतस्मान्न वेद्मि कथमेष्यति ॥ १४.८९ ॥
श्राद्धसङ्गतिनो विप्राः समुत्पत्य परस्परम् ।
दुष्टा हि निः सृतं फेनं सर्वाङ्गेभ्यः पिबन्ति वै ॥ १४.९० ॥
सुवर्णस्तेयी विप्रघ्रः सुरापी गुरुतल्पगः ।
अधश्चोर्ध्वञ्च दीप्ताग्नौ दह्यमानाः समन्ततः ॥ १४.९१ ॥
तिष्ठन्त्यब्दसहस्राणि सुबहूनि ततः पुनः ।
जायन्ते मानवाः कुष्ठक्षयरोगादिचिह्नताः ॥ १४.९२ ॥
मृताः पुनश्च नरकं पुनर्जाताश्च तादृशम् ।
व्याधिमृच्छन्ति कल्पान्तपरिमाणं नराधिप ॥ १४.९३ ॥
गोघ्रो न्यूरतरं याति नरकेऽथ त्रिजन्मनि ।
तथोपपातकानाञ्च सर्वेषामिति निश्चयः ॥ १४.९४ ॥
नरकप्रच्युता यानि यैर्यैर्विहितपातकैः ।
प्रयान्ति योनिजातानि तन्मे निगदतः शृणु ॥ १४.९५ ॥

इति श्रीमार्कण्डेयपुराणे जडोपाख्याने यमकिङ्करसंवादो नाम चतुर्दशोऽध्यायः