त्रयोदशोऽध्यायः
पुत्र उवाच
अहं वैश्यकुले जातो जन्मन्यस्मात्तु सप्तमे ।
समतीते गवां रोधं निपाने कृतवान् पुरा ॥ १३.१ ॥
विपाकात्कर्मणस्तस्य नरकं भृशदारुणम् ।
सम्प्राप्तोऽग्निशिखाघोरमयोमुखखगाकुलम् ॥ १३.२ ॥
यन्त्रपीडनगात्रासृक्प्रवाहोद्भूतकर्दमम् ।
विशस्यमानदुष्कर्मितन्निपातरवाकुलम् ॥ १३.३ ॥
पात्यमानस्य मे तत्र साग्रं वर्षशतं गतम् ।
महातापार्तितप्तस्य तृष्णादाहान्वितस्य च ॥ १३.४ ॥
तत्राह्लादकरः सद्यः पवनः सुखशीतलः ।
करम्भबालुकाकुम्भमध्यस्थो मे समागतः ॥ १३.५ ॥
तत्सम्पर्कादशेषाणां नाभवद्यातना नृणाम् ।
मम चापि यथा स्वर्गे स्वर्गिणां निर्वृतिः परा ॥ १३.६ ॥
किमेतदिति चाह्लादविस्तारस्तिमितेक्षणैः ।
दृष्टमस्माभिरासन्नं नररत्नमनत्तमम् ॥ १३.७ ॥
याम्यश्च पुरुषो घोरो दण्डहस्तोऽशनिप्रभः ।
पुरतो दर्शयन्मार्गमिति एहीति वगथ ॥ १३.८ ॥
पुरुषः स तदा दृष्ट्वा यातनाशतसङ्कुलम् ।
नरकं प्राह तं याम्यं किङ्करं कृपयान्वितः ॥ १३.९ ॥
पुरुष उवाच
भो याम्यपुरुषाचक्ष्व किं मया दुष्कृतं कृतम् ।
येनेदं यातनाभीं प्राप्तोऽस्मि नरकं परम् ॥ १३.१० ॥
विपश्चिदिति विख्यातो जनकानामहं कुले ।
जातो विदेहविषये सम्यङ्मनुजपालकः ॥ १३.११ ॥
यज्ञैर्मयेष्टं बहुभिर्धर्मतः पालिता मही ।
नोत्सृष्टश्चैव सङ्ग्रामो नातिथिर्विमुखो गतः ॥ १३.१२ ॥
पितृदेवर्षिभृत्याश्च न चापचरिता मया ।
कृता स्पृहा च न मया परस्त्रीविभवादिषु ॥ १३.१३ ॥
पर्वकालेषु पितरस्तिथिकालेषु देवताः ।
पुरुषं स्वयमायान्ति निपानमिव धेनवः ॥ १३.१४ ॥
यतस्ते विमुखा यान्ति निश्वस्य गृहमेधिनः ।
तस्मादिष्टश्च पूर्तश्च धमौ द्वावपि नश्यतः ॥ १३.१५ ॥
पितृनिश्वासविध्वस्तं सप्तजन्मार्जितं शुभम् ।
त्रिजन्मप्रभवं दैवो निश्वासो हन्त्यसंशयम् ॥ १३.१६ ॥
तस्माद्दैवे च पित्र्ये च नित्यमेवोद्यतोऽभवम् ।
सोऽहं कथमिमं प्राप्तो नरङ्क भृशदारुणम् ॥ १३.१७ ॥
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम त्रयोदशोऽध्यायः