नवमोऽध्यायः
पक्षिण ऊचुः
राज्यच्युते हरिश्चन्द्रे गते च त्रिदशालयम् ।
निश्चक्राम महातेजा जलवासात्पुरोहितः ॥ ९.१ ॥
वशिष्ठो द्वादशाब्दान्ते गङ्गापर्युषितो मुनिः ।
शुश्राव च समस्तन्तु विश्वामित्रविचेष्चितम् ॥ ९.२ ॥
हरिश्चन्द्रस्य नाशञ्च राज्ञश्चोदारकर्मणः ।
चण्डालसम्प्रयोगञ्च भार्यातनयविक्रयम् ॥ ९.३ ॥
स श्रुत्वा सुमाहभागः प्रीतिमानवनीपतौ ।
चकार कोपं तेजस्वी विश्वामित्रमृषिं प्रति ॥ ९.४ ॥
वशिष्ठ उवाच
मम पुत्रशतं तेन विश्वामित्रेण घातितम् ।
तत्रापि नाभवत्क्रोधस्तादृशो यादृशोऽद्य मे ॥ ९.५ ॥
श्रुत्वा नराधिपमिमं स्वराज्यादवरीपितम् ।
महात्मानं महाभागं देवब्राह्मणपूजकम् ॥ ९.६ ॥
यस्मात्स सत्यवाक्शान्तः शत्रावपि विमत्सरः ।
अनागाश्चैव धर्मात्मा अप्रमत्तो मदाश्रयः ॥ ९.७ ॥
सपत्नीभृत्यपुत्रस्तु प्रापितोऽन्त्यां दशां नृपः ।
स राज्याच्च्यावितोऽनेन बहुशश्च खिलीकृतः ॥ ९.८ ॥
तस्माद्दुरात्मा ब्रह्मद्विट्प्राज्ञानामवरोपितः ।
मच्छापोपहतो मूढः स बकत्वमवाप्स्यति ॥ ९.९ ॥
पक्षिण ऊचुः
श्रुत्वा शापं महातेजा विश्वामित्रोऽपि कौशिकः ।
त्वमप्याडिर्भवस्तेवति प्रतिशापमयच्छत ॥ ९.१० ॥
अन्योऽन्यशापात्तौ प्राप्तौ तिर्यक्त्वं परमद्युती ।
वशिष्ठः स महातेजा विश्वामित्रश्च कौशिकः ॥ ९.११ ॥
अन्यजातिसमायोगं गतावप्यमितौजसौ ।
युयुधातेऽतिसंरब्धौ महाबलपराक्रमौ ॥ ९.१२ ॥
योजनानां सहस्रे द्वे प्रमाणेनाडिरुच्छ्रितः ।
यन्नवत्यधिकं ब्रह्मन् ! सहस्रत्रितयं बकः ॥ ९.१३ ॥
तौ तु पक्षप्रहाराभ्यामन्योन्यस्योरुविक्रमौ ।
प्रहरन्तौ भयं तीव्रं प्रजानाञ्चक्रतुस्तदा ॥ ९.१४ ॥
विधूय पक्षाणि बको रक्तोद्वृत्ताक्षिराहनत् ।
आडिं सोऽप्युन्नतग्रीवो बकं पद्भ्यामताडयत् ॥ ९.१५ ॥
तयोः पक्षानिलापास्ताः प्रपेतुर्गिरयो भुवि ।
गिरिप्रपाताभिहता चकम्पे च वसुन्धरा ॥ ९.१६ ॥
क्ष्मा कम्पमाना जलधीनुद्वृत्ताम्बूंश्चकार च ।
ननाम चैकपार्श्वेन पातालगमनोन्मुखी ॥ ९.१७ ॥
केचिदिगरिनिपातेन केचिदम्भोधिवारिणा ।
केचिन्महीसञ्चलनात्प्रययुः प्राणिनः क्षयम् ॥ ९.१८ ॥
इति सर्वं परित्रस्तं हाहाभूतमचेतनम् ।
जगदासीत्सुसम्भ्रान्तं पर्यस्तक्षितिमण्डलम् ॥ ९.१९ ॥
हा वत्स ! हा कान्त ! शिशो ! प्रयाह्येषोऽस्मि संस्थितः ।
हा प्रिये ! कान्त ! शैलोऽयं पतत्याशु पलायताम् ॥ ९.२० ॥
इत्याकुलीकृते लोके सन्त्रासविमुखे तदा ।
सुरैः परिवृतः सर्वैराजगाम पितामहः ॥ ९.२१ ॥
प्रत्युवाच च विश्वेशास्तावुभावतिकोपितौ ।
युद्धं वा विरमत्वेतल्लोकाः स्वास्थ्यं व्रजन्तु च ॥ ९.२२ ॥
शृण्वन्तावपि तौ वाक्यं ब्रह्मणोऽव्यक्तजन्मनः ।
कोपामर्षसमाविष्टो युयुधाते न तस्थतुः ॥ ९.२३ ॥
ततः पितामहो देवस्तं दृष्ट्वा लोकसङ्क्षयम् ।
तयोश्च हितमन्विच्छन् तिर्यग्भावमपानुदत् ॥ ९.२४ ॥
ततस्तौ पूर्वदेहस्थौ प्राह देवः प्रजापतिः ।
व्युदस्ते तामसे भावे वशिष्ठ० औशिकर्षभौ ॥ ९.२५ ॥
जहि वत्स वशिष्ठ त्वं त्वञ्च कौशिक सत्तम ।
तामसं भावमाश्रित्य ईदृग्युद्धं चिकीर्षितम् ॥ ९.२६ ॥
राजसूयविपाकोऽयं हरिश्चन्द्रस्य भूपतेः ।
युवयोर्विग्रहश्चायं पृथिवीक्षयकारकः ॥ ९.२७ ॥
न चापि कौशिकश्रेष्ठस्तस्य राज्ञोऽपरध्यते ।
स्वर्गप्राप्तिकरो ब्रह्मन्नपकारपदे स्थितः ॥ ९.२८ ॥
तपो विघ्नस्य कर्तारौ कामक्रोधवशं गतौ ।
परित्यजत भद्रं वो ब्रह्म हि प्रचुरं बलम् ॥ ९.२९ ॥
एवमुक्तौ ततस्तेन लज्जितौ तावुभावपि ।
क्षमयामासतुः प्रीत्या परिष्वज्य परस्परम् ॥ ९.३० ॥
ततः सुरैर्वन्द्यमानो ब्रह्मा लोकं निजं ययौ ।
वशिष्ठोऽप्यात्मनः स्थानं कौशिकोऽपि स्वामाश्रयम् ॥ ९.३१ ॥
एतदाडिबकं युद्धं हरिश्चन्द्रकथां तथा ।
कथयिष्यन्ति ये मर्त्याः सम्यक्श्रोष्यन्ति चैव ये ॥ ९.३२ ॥
तेषां पापापनोदन्तु श्रुतं ह्येव करिष्यति ।
न चैव विघ्नकार्याणि भविष्यन्ति कदाचन ॥ ९.३३ ॥
इति श्रीमार्कण्डेयपुराणे आडिबकयुद्धवर्णनं नाम नवमोऽध्यायः