०७

सप्तमोऽध्यायः

धर्मपक्षिण ऊचुः

हरिश्चन्द्रेति राजर्षिरासीत्त्रेतायुगे पुरा ।
धर्मात्मा पृथिवीपालः प्रोल्लसत्कीर्तिरुत्तमः ॥ ७.१ ॥
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ।
नाधर्मरुचयः पौरास्तस्मिन् शासति पार्थिवे ॥ ७.२ ॥
बभूवुर्न तथोन्मत्ता धनवीर्यतपोमदैः ।
नाजायन्त स्त्रियश्चैव काश्चिदप्राप्तयौवनाः ॥ ७.३ ॥
स कदाचिन्महाबाहुररण्येऽनुसरन्मृगम् ।
शुश्राव शब्दमसकृत्त्रायस्वेति च योषिताम् ॥ ७.४ ॥
स विहाय मृगं राजा मा भैषीरित्यभाषत ।
मयि शासति दुर्मेधाः कोऽयमन्यायवृत्तिमान् ॥ ७.५ ॥
तत्क्रन्दितानुसारी च सर्वारम्भविघातकृत् ।
एकस्मिन्नन्तरे रौद्रो विघ्नराट्समचिन्तयत् ॥ ७.६ ॥
विश्वामित्रोऽयमतुलं तप आस्थाय वीर्यवान् ।
प्रागसिद्धाभवादीनां विद्याः साध्यति व्रती ॥ ७.७ ॥
साध्यमानाः क्षमामौनचित्तसंयमिनामुना ।
ता वै भयार्ताः क्रन्दन्ति कथं कार्यमिदं मया ॥ ७.८ ॥
तेजस्वी कौशिकश्वेष्ठो वयमस्य सुदुर्बलाः ।
क्रोशन्त्येतास्तथा भीता दुष्पारं प्रतिभाति मे ॥ ७.९ ॥
अथवायं नृपः प्राप्तो मा भैरिति वदन्मुहुः ।
इममेव प्रविश्याशु साधयिष्ये यथेप्सितम् ॥ ७.१० ॥
इति सञ्चिन्त्य रौद्रेण विघ्नराजेन वै ततः ।
तेनाविष्टो नृपः कोपादिदं वचनमब्रवीत् ॥ ७.११ ॥
कोऽयं बघ्नाति वस्त्रान्ते पावकं पापकृन्नरः ।
बलोष्णतेजसा दीप्ते मयि पत्यावुपस्थिते ॥ ७.१२ ॥
सोऽद्य मत्कार्मुकाक्षेपविदीपितदिगन्तरैः ।
शरैर्विभिन्नसर्वाङ्गो दीर्घनिद्रां प्रवेक्ष्यति ॥ ७.१३ ॥
विश्वामित्रस्ततः क्रुद्धः श्रुत्वा तन्नृपतेर्वचः ।
क्रुद्धे चर्षिवरे तस्मिन्नेशुर्विद्याः क्षणेन ताः ॥ ७.१४ ॥
स चापि राजा तं दृष्ट्वा विश्वामित्रं तपोनिधिम् ।
भीतः प्रावेपतात्यर्थं सहसाश्वत्थपर्णवत् ॥ ७.१५ ॥
स दुरात्मन्निति यदा मुनिस्तिष्ठेति चाब्रवीत् ।
ततः स राजा विनयात्प्रणिपत्याभ्यभाषत ॥ ७.१६ ॥
भगवन्नेष धर्मो मे नापराधो मम प्रभो ।
न क्रोद्धुमर्हसि मुने निजधर्मरतस्य मे ॥ ७.१७ ॥
दातव्यं रक्षितव्यं च धर्मज्ञेन महीक्षिता ।
चापं चोद्यम्य योद्धव्यं धर्मशास्त्रानुसारतः ॥ ७.१८ ॥

विश्वामित्र उवाच

दातव्यं कस्य के रक्ष्याः कैर्योद्धव्यं च ते नृप ।
क्षिप्रमेतत्समाचक्ष्व यद्यधर्मभयं तव ॥ ७.१९ ॥

हरिश्चन्द्र उवाच

दातव्यं विप्रमुख्येभ्यो ये चान्ये कृशवृत्तयः ।
रक्ष्या भीताः सदा युद्धं कर्तव्यं परिपन्थिभिः ॥ ७.२० ॥

विश्वामित्र उवाच

यदि राजा भवान् सम्यग्राजधर्ममवेक्षते ।
निर्वेष्टुकामो विप्रोऽहं दीयतामिष्टदक्षिणा ॥ ७.२१ ॥

पक्षिण ऊचुः

एतद्राजा वचः श्रुत्वा प्रहृष्टेनान्तरात्मना ।
पुनर्जातमिवात्मानं मेने प्राह च कौशिकम् ॥ ७.२२ ॥
उच्यतां भगवन् यत्ते दातव्यमविशङ्कितम् ।
दत्तमित्येव तद्विद्धि यद्यपि स्यात्सुदुर्लभम् ॥ ७.२३ ॥
हिरण्यं वा सुवर्णं वा पुत्रः पत्नी कलेवरम् ।
प्राणा राज्यं पुरं लक्ष्मीर्यदभिप्रेतमात्मनः ॥ ७.२४ ॥

विश्वामित्र उवाच

राजन् प्रतिगृहीतोऽयं यस्ते दत्तः प्रतिग्रहः ।
प्रयच्छ प्रथमं तावद्दक्षिणां राजसूयिकीम् ॥ ७.२५ ॥

राजोवाच

ब्रह्मंस्तामपि दास्यामि दक्षिणां भवतो ह्यहम् ।
व्रियतां द्विजशार्दूल यस्तवेष्टः प्रतिग्रहः ॥ ७.२६ ॥

विश्वामित्र उवाच

ससागरां धरामेतां सभूभृद्ग्रामपत्तनाम् ।
राज्यं च सकलं वीर रथाश्वगजसङ्कुलम् ॥ ७.२७ ॥
कोष्ठागारं च कोषं च यच्चान्यद्विद्यते तव ।
विना भार्यां च पुत्रं च शरीरं च तवानघ ॥ ७.२८ ॥
धर्मं च सर्वधर्मज्ञ यो यान्तमनुगच्छति ।
बहुना वा किमुक्तेन सर्वमेतत्प्रदीयताम् ॥ ७.२९ ॥

पक्षिण ऊचुः

प्रहृष्टेनैव मनसा सोऽविकारमुखो नृपः ।
तस्यर्षेर्वचनं श्रुत्वा तथेत्याह कृताञ्जलिः ॥ ७.३० ॥

विश्वामित्र उवाच

सर्वस्वं यदि मे दत्तं राज्यमुर्वो बलं धनम् ।
प्रभुत्वं कस्य राजर्षे राज्यस्थे तापसे मयि ॥ ७.३१ ॥

हरिश्चन्द्र उवाच

यस्मिन्नपि मया काले ब्राह्मन् दत्ता वसुन्धरा ।
तस्मिन्नपि भवान् स्वामी किमुताद्य महीपतिः ॥ ७.३२ ॥

विश्वामित्र उवाच

यदि राजंस्त्वया दत्ता मम सर्वा वसुन्धरा ।
यत्र मे विषये स्वाम्यं तस्मान्निष्क्रान्तुमर्हसि ॥ ७.३३ ॥
श्रोणीसूत्रादिसकलं मुक्त्वा भूषणसङ्ग्रहम् ।
तरुवल्कलमाबध्य सह पत्न्या सुतेन च ॥ ७.३४ ॥

पक्षिण ऊचुः

तथेति चोक्त्वा कृत्वा च राजा गन्तुं प्रचक्रमे ।
स्वपत्न्या शैव्यया सार्धं बालकेनात्मजेन च ॥ ७.३५ ॥
व्रजतः स ततो रुद्ध्वा पन्थानं प्राह तं नृपम् ।
क्व यास्यसीत्यदत्त्वा मे दक्षिणां राजसूयिकीम् ॥ ७.३६ ॥

हरिश्चन्द्र उवाच

भगवन् राज्यमेतत्ते दत्तं निहतकण्टकम् ।
अवशिष्टमिदं ब्रह्मन्नद्य देहत्रयं मम ॥ ७.३७ ॥

विश्वामित्र उवाच

तथापि खलु दातव्या त्वया मे यज्ञदक्षिणा ।
विशेषतो ब्राह्मणानं हन्त्यदत्तं प्रतिश्रुतम् ॥ ७.३८ ॥
यावत्तोषो राजसूये ब्राह्मणानां तभवेन्नृप ।
तावदेव तु दातव्या दक्षिणा राजसूयिकी ॥ ७.३९ ॥
प्रतिश्रुत्य च दातव्यं योद्धव्यं चाततायिभिः ।
रक्षितव्यास्तथा चार्तास्त्वयैव प्राक्प्रतिश्रुतम् ॥ ७.४० ॥

हरिश्चन्द्र उवाच

भगवन् साम्प्रतं नास्ति दास्ये कालक्रमेण ते ।
प्रसादं कुरु विप्रर्षे सद्भावमनुचिन्त्य च ॥ ७.४१ ॥

विश्वामित्र उवाच

किम्प्रमाणो मया कालः प्रतीक्ष्यस्ते जनाधिप ।
शीघ्रमाचक्ष्व शापाग्निरन्यथा त्वां प्रधक्ष्यति ॥ ७.४२ ॥

हरिचन्द्र उवाच

मासेन तव विप्रर्षे प्रदास्ये दक्षिणाधनम् ।
साम्प्रतं नास्ति मे वित्तमनुज्ञां दातुमर्हसि ॥ ७.४३ ॥

विश्वामित्र उवाच

गच्छ गच्छ नृपश्रेष्ठ स्वधर्ममनुपालय ।
शिवश्च तेऽध्वा भवतु मा सन्तु परिपन्थिनः ॥ ७.४४ ॥

पक्षिण ऊचुः

अनुज्ञातश्च गच्छेति जगाम वसुधाधिपः ।
पद्भ्यामनुचिता गन्तुमन्वगच्छत तं प्रिया ॥ ७.४५ ॥
तं सभार्यं नृपश्रेष्ठं निर्यान्तं ससुतं पुरात् ।
दृष्ट्वा प्रचुक्रुशुः पौरा राज्ञश्चैवानुयायिनः ॥ ७.४६ ॥
हानाथ किं जहास्यस्मान्नित्यार्तिपरिपीडितान् ।
त्वं धर्मतत्परो राजन् पौरानुग्रहकृत्तथा ॥ ७.४७ ॥
नयास्मानपि राजर्षे यदि धर्ममवेक्षसे ।
मुहूर्तं तिष्ठ राजेन्द्र भवतो मुखपङ्कजम् ॥ ७.४८ ॥
पिबामो नेत्रभ्रमरैः कदा द्रक्ष्यामहे पुनः ।
यस्य प्रयातस्य पुरो यान्ति पृष्ठे च पार्थिवाः ॥ ७.४९ ॥
तस्यानुयाति भार्येयं गृहीत्वा बालकं सुतम् ।
यस्य भृत्याः प्रयातस्य यान्तयग्रे कुञ्जचरस्थिताः ॥ ७.५० ॥
स एष पद्भ्यां राजेन्द्रो हरिश्चन्द्रोऽद्य गच्छति ।
हा राजन् सुकुमारं ते सुभ्रु सुत्वचमुन्नसम् ॥ ७.५१ ॥
पथि पांशुपरिक्लिष्टं मुखं कीदृग्भविष्यति ।
तिष्ठ तिष्ठ नृपश्रेष्ठ स्वधर्ममनुपालय ॥ ७.५२ ॥
आनृशंस्यं परो धर्मः क्षत्रियाणां विशेषतः ।
किं दारैः किं सुतैर्नाथ धनैर्धान्यैरथापि वा ॥ ७.५३ ॥
सर्वमेतत्परित्यज्य छायाभूता वयं तव ।
हानाथ हा महाराज हा स्वामिन् किं जहासि नः ॥ ७.५४ ॥
यत्र त्वं तत्र हि वयं तत्सुखं यत्र वै भवान् ।
नगरं तद्भवान् यत्र स स्वर्गो यत्र नो नृपः ॥ ७.५५ ॥
इति पौरवचः श्रुत्वा राजा शोकपरिप्लुतः ।
अतिष्ठत्स तदा मार्गे तेषामेवानुकम्पया ॥ ७.५६ ॥
विश्वामित्रोऽपि तं दृष्ट्वा पौरवाक्याकुलीकृतम् ।
रोषमर्षविवृत्ताक्षः समागम्य वचोऽब्रवीत् ॥ ७.५७ ॥
धिक्त्वां दुष्टसमाचारमनृतं जिह्मभाषणम् ।
मम राज्यं च दत्वा यः पुनः प्राक्रष्टुमिच्छसि ॥ ७.५८ ॥
इत्युक्तः परुषं तेन गच्छामीति सवेपथुः ।
ब्रुवन्नेवं ययौ शीघ्रमाकर्षन् दयितां करे ॥ ७.५९ ॥
कर्षतस्तां ततो भार्यां सुकुमारीं श्रमातुराम् ।
सहसा दण्डकाष्ठेन ताडयामास कौशिकः ॥ ७.६० ॥
तां तथा ताडितां दृष्ट्वा हरिश्चन्द्रो महीपतिः ।
गच्छामीत्याह दुः खार्तो नान्यत्किञ्चिदुदाहरत् ॥ ७.६१ ॥
अथ विश्वे तदा देवाः पञ्च प्राहुः कृपालवः ।
विश्वामित्रः सुपापोऽयं लोकान् कान् समवाप्स्यति ॥ ७.६२ ॥
येनायां यज्वनां श्रेष्ठः स्वराज्यादवरोपितः ।
कस्य वा श्रद्धया पूतं सुतं सोमं महाध्वरे ।
पीत्वा वयं प्रयास्यामो मुदं मन्त्रपुरः सरम् ॥ ७.६३ ॥

पक्षिण ऊचुः

इति तेषां वचः श्रुत्वा कौशिकोऽतिरुषान्वितः ।
शशाप तान्मनुष्यत्वं सर्वे यूयमवाप्स्यथ ॥ ७.६४ ॥
प्रसादितश्च तैः प्राह पुनरेव महामुनिः.
मानुषत्वेऽपि भवतां भवित्री नैव सन्ततिः ॥ ७.६५ ॥
न दारसङ्ग्रहश्चैव भविता न च मत्सरः ।
कामक्रोधविनिर्मुक्ता भविष्यथ सुराः पुनः ॥ ७.६६ ॥
ततोऽवतेरुरंशैः स्वैर्देवास्ते कुरुवेश्मनि ।
द्रौपदीगर्भसम्भूताः पञ्च वै पाण्डुनन्दनाः ॥ ७.६७ ॥
एतस्मात्कारणात्पञ्च पाण्डवेया महारथाः ।
न दारसङ्ग्रहं प्राप्ताः शापात्तस्य महामुनेः ॥ ७.६८ ॥
एतत्ते सर्वमाख्यातं पाण्डवेयकथाश्रयम् ।
प्रश्नं चतुष्टयं गीतं किमन्यच्छ्रोतुमिच्छसि ॥ ७.६९ ॥

इति श्रीमार्कण्डेयपुराणे द्रौपदेयोत्पत्तिर्नाम सप्तमोऽध्यायः