षष्ठोऽध्यायः
पक्षिण ऊचुः
रामः पार्थे परां प्रीतिं ज्ञात्वा कृष्णस्य लाङ्गली ।
चिन्तयामास बहुधा किं कृतं सुकृतं भवेत् ॥ ६.१ ॥
कृष्णेन हि विना नाहं यास्ये दुर्योधनान्तिकम् ।
पाण्डवान् वा समाश्रित्य कथं दुर्योधनं नृपम् ॥ ६.२ ॥
जामातरं तथा शिष्यं घातयिष्ये नरेश्वरम् ।
तस्मान्न पार्थं यास्यामि नापि दुर्योधनं नृपम् ॥ ६.३ ॥
तीर्थेष्वाप्लावयिष्यामि तावदात्मानमात्मना ।
कुरूणां पाण्डवानां च यावदन्ताय कल्पते ॥ ६.४ ॥
इत्यामन्त्र्य हृषीकेशं पार्थदुर्योधनावपि ।
जगाम द्वारकां शौरिः स्वसैन्युपरिवारितः ॥ ६.५ ॥
गत्वा द्वारवतीं रामो हृष्टपुष्टजनाकुलाम् ।
श्वो गन्तव्येषु तीर्थेषु पपौ पानं हलायुधः ॥ ६.६ ॥
पीतपानो जगामाथ रैवतोद्यानमृद्धिमत् ।
हस्ते गृहीत्वा समदां रेवतीमप्सरोपमाम् ॥ ६.७ ॥
स्त्रीकदम्बकमध्यस्थो ययौ मत्तः पदा स्खलन् ।
ददर्शच वनं वीरो रमणीयमनुत्तमम् ॥ ६.८ ॥
सर्वर्तुफलपुष्पाढ्यं शाखामृगगणाकुलम् ।
पुण्यं पद्मवनोपेतं सपल्वलमहावनम् ॥ ६.९ ॥
स शृण्वन् प्रीतिजननान् बहून्मदकलान् शुभान् ।
श्रोत्ररम्यान् सुमधुरान् शब्दान् खगमुखेरितान् ॥ ६.१० ॥
सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् ।
अपश्यत्पादपांस्तत्र विहगैरनुनादितान् ॥ ६.११ ॥
आम्रानाम्रातकान् भव्यान्नारिकेलान् सतिन्दुकान् ।
आविल्वकांस्तथा जीरान् दाडिमान् बीजपूरकान् ॥ ६.१२ ॥
पनसान् लकुचान्मोचान्नीपांश्चातिमनोहरान् ।
पारावतांश्च कङ्कोलान्नलिनानम्लवेतसान् ॥ ६.१३ ॥
भल्लातकानामलकांस्तिन्दुकांश्च महाफलान् ।
इङ्गुदान् करमर्दांश्च हरीतकविभीतकान् ॥ ६.१४ ॥
एतानन्यांश्च स तरून् ददर्श यदुनन्दनः ।
तथैवाशोकपुन्नागकेतकीबकुलानथ ॥ ६.१५ ॥
चम्पकान् सप्तपर्णांश्च कर्णिकारान् समालतीन् ।
पारिजातान् कोविदारान्मन्दारान् बदरांस्तथा ॥ ६.१६ ॥
पाटलान् पुष्पितान् रम्यान् देवदारुद्रुमांस्तथा ।
सालांस्तालांस्तमालांश्च किंशौकान् वञ्जुलान् वरान् ॥ ६.१७ ॥
चकोरैः शातपत्रैश्च भृङ्गराजैस्तथा शुकैः ।
कोकिलैः कलविङ्कैश्च हारीतैर्जोवजीवकैः ॥ ६.१८ ॥
प्रियपुत्रैश्चातकैश्च तथान्यैर्विविधैः खगैः ।
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितम् ॥ ६.१९ ॥
सरांसि च मनोज्ञानि प्रसन्नसलिलानि च ।
कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ ६.२० ॥
कह्लारैः कमलैश्चापि आचितानि समन्ततः ।
कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ६.२१ ॥
कारण्डवैः प्लवैर्हंसैः कूर्मैर्मद्गुभिरेव च ।
एभिश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ॥ ६.२२ ॥
क्रमेणेत्थं वनं शौरिर्वोक्षमाणो मनोरमम् ।
जगामानुगतः स्त्रीभिर्लतागृहमनुत्तमम् ॥ ६.२३ ॥
स ददर्श द्विजांस्तत्र वेदवेदाङ्गपारगान् ।
कौशिकान् भार्गवांश्चैव भारद्वाजान् सगौतमान् ॥ ६.२४ ॥
विविधेषु च सम्भूतान् वंशेषु द्विजसत्तमान् ।
कथाश्रवणबद्धोत्कानुपविष्टान्महत्सु च ॥ ६.२५ ॥
कृष्णाजिनोत्तरीयेषु कुशेषु च वृषीषु च ।
सूतञ्च तेषां मध्यस्थं कथयानं कथाः शुभाः ॥ ६.२६ ॥
पौराणिकीः सुरर्षोणामाद्यानां चरिताश्रयाः ।
दृष्ट्वा रामं द्विजाः सर्वे मधुपानारुणेक्षणम् ॥ ६.२७ ॥
मत्तोऽयमिति मन्वानाः समुत्तस्थुस्त्वरान्विताः ।
पूजयन्तो हलधरमृते तं सूतवंशजम् ॥ ६.२८ ॥
ततः क्रोधसमाविष्टो हली सूतं महाबलः ।
निजघान विवृत्ताक्षः क्षोभिताशेषदानवः ॥ ६.२९ ॥
अध्यास्याति पदं ब्राह्मं तस्मिन् सूते निपातिते ।
निष्क्रान्तास्ते द्विजाः सर्वे वनात्कृष्णाजिनाम्बराः ॥ ६.३० ॥
अवधूतं तथात्मानं मन्यमानो हलायुधः ।
चिन्तयामास सुमहन्मया पापमिदं कृतम् ॥ ६.३१ ॥
ब्राह्मं स्थानं गतो ह्येष यद्सूतो विनिपातितः ।
तथा हीमे द्विजाः सर्वे मामवेक्ष्य विनिर्गताः ॥ ६.३२ ॥
शरीरस्य च मे गन्धो लोहस्येवासुखावहः ।
आत्मानञ्चावगच्छामि ब्रह्मघ्नमिव कुत्सितम् ॥ ६.३३ ॥
धिगमर्षं तथा मद्यमतिमानमभीरुताम् ।
यैराविष्टेन सुमहन्मया पापमिदं कृतम् ॥ ६.३४ ॥
तत्क्षयार्थं चरिष्यामि व्रतं द्वादशवार्षिकम् ।
स्वकर्मख्यापनं कुर्वन्न् प्रयश्चित्तमनुत्तमम् ॥ ६.३५ ॥
अथ येयं समारब्धा तीर्थयात्रा मयाधुना ।
एतामेव प्रयास्यामि प्रतिलोमां सरस्वतीम् ॥ ६.३६ ॥
अतो जगाम रामोऽसौ प्रतिलोमां सरस्वतीम् ।
ततः परं शृणुष्वेमं पाण्डवेयकथाश्रयम् ॥ ६.३७ ॥
इतिश्री मार्कण्डेयपुराणे बलदेवब्रह्महत्यानाम षष्ठोध्यायः